________________ संजोग 117 - अमिधानराजेन्द्रः - भाग 7 संजोग इन्युभयसम्बन्धनसंयोगः / अयमाक्षेप्याऽऽक्षेपकभावे उभयसम्वन्धनसंयोग उक्तः / अमुमेव प्रकारान्तरेणाह-स्वामित्वेन स्वामित्वविषयः, उभयसम्बन्धनसंयोग इति प्रक्रमः। किंरूप? इत्याहआत्मनः-मम चःपूरणे, पितुः-जनकस्य पुत्र इति गम्यते, एवविधोल्लेखव्यङ्गये, अत्रात्मनः पित्रा सहात्मकद्वारकः स्वस्थामिभावलक्षणः सम्बन्धः, तत्पुत्रेण परद्वारकः, मम पितुरयं, पुत्र इति पितृद्वारेणासाविति कृत्वा तत उभयद्वारकत्वादुभयविषय - संयोग उभयसम्बन्धसंयोगः, इति शब्दो मम पितुः पिता, मम भातुः पुत्रः, मम दासस्य कम्बल इत्येवंप्रकारसम्बन्धान्तरव्यञ्जकान्योल्लेखकसूचकः, अनेन लौकिके स्वामित्व उभयसम्बन्धनसंयोग उक्तः। लोकोत्तरमेवाहमम कुले नागेन्द्रादावय साध्वादिरिति गम्यते / यद्वा कुलमेव कुलकं तस्य चःसमुच्चय योक्ष्यते, ततोऽहमेव अहकम् अभ्यन्तरः अस्मिभवामि / चशब्दा-दयं च साध्वादिरित्येवंविधोल्लेखद्वयव्यङ्ग्यः / एषोऽप्युभयसम्वन्धनसंयोग इति वृद्धाः / अत्र हि मच्छब्दवाच्यस्य कुलेन सहात्मद्वारकः स्वस्वामिभावसम्बन्धः, कुलान्तर्वर्तिना च साध्वादिना परद्वारका, मम कुलेऽयमिति कुलद्वारकत्वादस्य, ततोऽयमपि प्राग्वदुभयसम्बन्धनसंयोगः / इहापि इतिशब्दोऽयं मम गुरोः साध्वादिरित्याधवप्रकारसम्बन्धान्तरव्यञ्जकान्योल्लेखसूचकार्थः। इह चोल्लेखद्वयाभिधानर्मकत्राप्यनेकोल्लेखसम्भवख्यापनार्थमिति गाथार्थः / पुनरन्यथा तमेवाहपच्चयओ य बहुविहो, निवित्तीपच्चओ जिणस्सेव। देहाय बद्धमुक्का, माइपिइसुआइ अहवंति॥६०॥ प्रतीयतेऽनेनार्थ इति प्रत्ययः-ज्ञानकारणं घटादिः, सर्वथा निरा- / लम्बनज्ञानाभावेन तदविनाभावित्वात् ज्ञानस्य, ततस्तमा-श्रित्य, चकरात् ज्ञानतश्व-ज्ञानं चाश्रित्य बहुविध:-बहुप्रकारः, प्रक्रमादात्मना यः संयोगः स उभयसम्बन्धनसंयोगः, तबहुत्वं च प्रत्ययानां तद्विशिष्टज्ञानानां च बहुविधत्वात्। तथा च वृद्धाः-घट प्रतीत्य घटज्ञानं, पट प्रतीत्य पटज्ञानम, एवमादीनि प्रत्ययात् ज्ञानानि भवन्ति / तथा च सति ज्ञानेनात्मद्धारको ममेदं ज्ञानमिति प्रत्ययेन परद्वारका, भम ज्ञानस्याय विषय इति ज्ञानद्वारकत्वात्त-स्य, तत उभयविषयत्वादुभयसम्बन्धनसंयोगः / आह-एवं के-वलिनोऽप्युभयसंयोग एवेति। अत्रोच्यते-निर्वृत्तिः-इत्युत्तरत्रैव-कारस्य भिन्नक्रमत्वान्निर्वृत्तिरेवसकलावरणक्षयादुत्पत्तिरेव प्रत्यथो जिनस्य, जिनसम्बन्धिज्ञानस्येति गम्यते / इदमाकूतम् -छद्मस्थज्ञानं हि मत्यादिकं लब्धिरूपतयोत्पन्नमप्युयोगरूप-तायां बाह्यमपि घटादिकमपेक्षते। तथाहि-घट प्रतीत्य घट ज्ञानं, घटं प्रतीत्य पटज्ञान, के वलिनस्तु ज्ञानं लब्धिरूपतयोत्पन्नं पुनरुपयोगरूपतां प्रति नबाह्य घटादिकमपेक्षते, तज्ज्ञानस्योत्पत्तिसमकाल मेव सकलातीतानागतदूरान्तरितस्थूलसूक्ष्मार्थयाथात्म्यवेदितयैवोपयोगभावात् / यदुक्तम् - उभयावरणाईतो, केव-लवरणाणदंसणसहावो। जाणइपासइय जिणो, सव्वं गयं सय-काल / / 1 / / " ततः केवलज्ञानस्य सर्वत्र सततोपयोगेन नोपयोग प्रति बाह्यापेक्षति निर्वृत्तिरेव प्रत्ययः, ततो न छद्मस्थज्ञानस्येव प्रत्ययत उभयसंयोगः / आह-उक्त एव ज्ञानस्योभयसंयोगः तत् कि पुनरुच्यते? सत्यम, उक्तः स तत्राक्षेप्याक्षेपकभावेन, इह त्वेकस्यापि वस्तुन उपाधिभेदेनाने कसम्बन्धसम्भवख्यापनाय जन्यजनकभावे नोच्यते इति न दोषः / उभयसम्बन्धनसं योगमेव पुनः स्वस्वामिभावनाहदिह्यन्ते-उपचीवन्ते पुद्गलरिति देहा:-कायाः ते च बद्धाइहजन्मनि जीवेन सम्बद्धा मुक्ता-अन्यजन्मनि तेनैवोज्झिताः, अनयोर्द्वन्द्वे बद्धमुक्ताः , 'माइपितिसुयाइ' ति ‘णो जस्शसोर्लोपे आर्षत्वाच्च' 'लोपे दीर्घः' इति दीर्घत्वस्याभावे पितृमातृसुतादयः / आदिशब्दात् भ्रातृभगिन्यादयो, बद्धमुक्ता इत्यत्रापि योज्यते / चशब्दोऽयं पूर्वश्व समुच्चये / एते च किमित्याह- 'भवंति' त्ति जायन्ते, प्राग्वदुभयसम्बग्धनसंयोगाः, जीवस्येति गम्यते / इयमत्र भावनाबद्यादेहा मात्रादयश्चात्मरूपाः, तत्र देहात्मनोः क्षीरनीरवदन्योऽन्यानुगतत्वेन मात्रादयश्चात्यन्तस्नेहविषयतयाऽऽत्मवद्दृश्यमानत्वेन, मुक्तास्तूभयेऽपि बाह्याः। तत्र देहा आत्मनः पृथग्भूतत्वेन, मात्रादयश्च तथाविधस्नेहावि-षयतयाऽऽत्मवददृश्यमानत्वेन, अतो देहेर्मात्रादिभिश्च बद्धमुक्तैः स्वस्वामिभावलक्षणसम्बन्धो जीवस्योभयसम्बन्धनसंयोगः / आह-देहादयो मुक्ताश्च स्वस्वामिविषयाश्चेति विरुद्धमेतत्, एवमेतद्, यदि भावतोऽपि मुक्ताः स्युः, अथ भावतोऽप्यहमेषां स्वामी ममैते स्वमिति भावाभावान्मुक्ता एव ते, नन्वे वमै हिके ष्वप्यमीष्वपरापरोपयोगवत आत्मनो न सततमेवं भावोऽस्तीति कथं तेष्वपि तद्विषयता? अथ तेष्वेवं भावाभावेऽपि व्युत्सर्गीकरणतस्तद्विषयत्वम्, एतदिहापि समानं, व्युत्सर्गीकरणत एव तद्विषयत्वस्ये हापि विवक्षितत्वादिति गाथार्थः / इत्थमनेकधा सम्बन्धनसंयोग उक्तः, अयं च कीदृशस्य कस्य भवतीत्याहसंबंधणसंजोगो, कसायबहुलस्स होइ जीवस्स। पहुणो वा अपहुस्स ब, मज्झं ति ममन्जमाणस्स॥६१॥ सम्बन्धनसयोगः उक्तरूपः, कषायाः-क्रोधादयस्तैर्बहुलस्यव्याप्तस्य, प्रभूतकषायस्येत्यर्थः भवति-जायते, कस्य? जीव-स्य, पुनः कीदृशस्य? प्रभवति-सम्बन्धिवस्तु तत्र तत्र स्वकृत्ये नियोक्तुं समर्थो भवतीति प्रभुस्तस्य वा अप्रभोर्वा उक्तविपरी-तस्य, वाशब्दो समुचये, उभयोरपि संयोगसाम्यं प्रति कारणमाह - 'मज्झं ति ममज्जमाणस्स' ति ममेदं नगरजनपदादीति ममत्वमाचरतः, इदमुक्तं भवति-सत्यसति वा मत्सम्बन्धतया बाह्यवस्तुनि तत्त्वतोऽभिष्वङ्ग एव सम्बन्धनसंयोगः, अनेन च काका कषायबहुलत्वे हेतुरुक्तः, कषाय बहुलस्येति च बुवता कषायद्वारेण सम्बन्धनसंयोगस्य कर्मबन्धहेतुत्वं ख्यापितं भवति, आह-मिथ्यात्वादयो हि बन्धहेतवः, तत्कथं कषायसत्तामात्रेणेव तद्धे-तुख्यापनम् ? उच्यते, तेषामेव तत्र प्राधान्यात्, तत्प्राधान्यं च तत्तारतम्येनैव बन्धतारम्यात्। उक्तं च-"जइ भागगया मत्ता, रागाईणं तहा चउक्कम्मे" इति, बाहुल्यापेक्षं च शुक्ला बलाके त्यादिवत् कषायबहुलस्य जीवस्येत्युच्यते, ततोऽकषायहेतुकत्वेऽप्यौपशमिकादिभावे -