________________ संजोग 114 - अभिधानराजेन्द्रः - भाग 7 संजोग उक्तं हि-“जह दुव्वयणमवयणं, कुच्छियसीलं असीलमसईए। भण्णइ तह नाणं पिहु,मिच्छद्दिहिस्स अन्नाणं // 1 // " अत एव मिथ्यात्वोदयभावीत्वादस्यौदयिकत्वं, तद्दलिकेषु चार्पितत्वविवक्षया बाह्यार्पितत्वमिति भावनीयम् / मिथ्येति भावप्रधानत्वान्निर्देशस्य मिथ्यात्वम्अशुद्धदलिकस्वरूपं, मिश्र-शुद्धाशुद्ध-दलिकस्वभावं, चशब्दः शेषौदयिकभेदसमुच्चये। अत एवोप-संहारमाह-यावन्तो यत्परिमाणा औदयिकाः, भावा इति गम्यते, प्रक्रमादेतद्विषयो यः संयोगः सर्वः निर्विशेषः,सः बाह्यः परः तद्विषयत्वाद, बाह्यसंयोग इति प्रकृतक्षायोपशमिकेन मत्यादिना औपशमिकत्वात्सम्बन्धनसंयोगो ज्ञातव्य इति शेषः / इहापि बाह्यशब्देन प्राग्वद् बाह्यार्पित उक्तः / आह-'भावा भवन्ति जीवस्यौदयिकाः पारिणामिकाश्चैव' इति वचनादौदयिकोऽपि जीवभावत्वेन जीवार्पित एवेति कथं बाह्ये कर्मण्यर्पित इति। अत्रोच्यतेकर्मानुभवनमुदयः, अनुभवनं चानुभवितरि जीवेऽनुभूयमाने च कर्मणि स्थितम्, तत्र यदाऽनुभवितरिजीवे विवक्ष्यते तदोदयः जीवगतोलेश्यादिपरिणामः प्रयोजनमस्येत्यौदयिकः कर्मणः फलप्रदानाभिमुख्यलक्षणो विपाक एव तमाश्रित्य कर्मणि बाह्येऽर्पितत्वमिहौदयिकभावस्योक्तम्, यदा त्यनुभूयमानस्थतया विवक्ष्यते तदोदये कर्मणः फलप्रदानाभिमुख्यलक्षणे भव औदयिको लेश्याकषायादिरूपो जीवपरिणामः, तदाश्रयणेन चोच्यते भावा भवन्ति जीवस्यौदयिका इत्यादि / इहापि चादेशान्तरेण वक्ष्यति 'छव्विहो अत्तसंजोगो' त्ति सर्वः स इति चैकवचनं बाह्य-संयोगस्य विधीयमानतया प्राधान्यात् प्रधानानुयायित्वाच्च व्यवहाराणामिति गाथार्थः। उभयार्पितसम्बन्धनसंयोगमाहजो सन्निवाइओ खलु, भावो उदएण मीसिओ होइ। पन्नारससंजोगो, सव्वो सो मीसिओ जोगो।।१३।। यः सान्निपातिकः खलु भावः उदयेन औदयिकभावेन मिश्रितः संयुतो | भवति, कियत्संख्य इत्याह-पञ्चदशसंयोगा अस्मिन्निति पञ्चदशसंयोगः सर्वः सः, किमित्याह-आत्मकर्मणोर्मिश्रत्वात्तदर्पितभावा अप्यौदयिकसहितौपशमिकादयो मिश्राः, ततस्तद्विषयत्वात्संयोगोऽपि मिश्रः, स एव मिश्रको योगः, प्रक्रमात् सम्बन्धनसंयोगो ज्ञेय इति शेषः / ते च पञ्चदश संयोगा औदयिकममुञ्चता औपशमिकादिपञ्चकस्य द्विकत्रिकचतुष्कपञ्चकसंयोगतः कार्याः। तत्र चत्वारो द्विकसंयोगाः षट् त्रिकसंयोगाश्चत्वारअतुष्कसंयोगा एकः पञ्चकसंयोगः, एतेच मीलिताः पञ्चदश, भावना तु वक्ष्यमाणा इति गाथार्थः। पुनरात्मसंयोगादीनेव प्रकारान्तरेणाभिधित्सु प्रस्तावनामाहवीओऽवि य आएसो, अत्ताणे बाहिरे तदुभए य। संजोगो खलु भणिओ, तं कित्तेऽहं समासेणं / / 14 / / द्वितीयोऽपि च न केवलमेक एव इत्यपि शब्दार्थः। चः पूरणे। आदेशः- | प्रकारः, प्रस्तावात् प्ररूपणीयः, कीदृश इत्याह-आत्मनि बाह्ये तदुभयस्मिश्च, संयोग इति सम्बन्धनसंयोगः, खलुनिश्चितंभणित-उक्तो, | गणधरादिभिरिति गम्यते, अनेन च गुरुपारतन्त्र्यमाविष्करोति, तम् इतिद्वितीयमादेशं कीर्तये संशब्दये वर्तमानसामीप्ये वर्तमानवद्वा' (पा० 3-3-131) इति भविष्यत्सामीप्ये लट्, अहम् इत्यात्मनिर्देशः, समासेन-संक्षेपेणेति गाथार्थः, तत्र तावदात्मसंयोगमाहओदइय ओवसमिए, खइए य तहा खओवसमिए य। परिणामसन्निवाए, अछविहो अत्तसंजोगो // 15 // औदयिके- औदयिकविषये, एवम् औपशमिके च क्षायिके तथा क्षायोपशमिके च परिणामसन्निपाते च सर्वत्र संयोग इति प्रक्रमः, तत एष षड्विधः षड्भेदः, आत्मभिः-आत्मरूपैः संयोग इति सम्बन्धनसंयोगः आत्मसंयोगः न चैषामेकैकेनात्मनः संयोगः सम्भवति, अपितु-द्वाभ्यां त्रिभिश्चतुर्भिः पञ्चभिर्वा / तत्र द्वाभ्यां क्षायिकेण सम्यक्त्वेन ज्ञानेन वा पारिणामिकेन चजीवत्वेन, त्रिभिरौदयिकेन देवगत्यादिना क्षायोपशमिकेन मत्यादिना पारिणा-मिकेन च जीवत्वेन, चतुर्मिस्त्रिभिरे (वमे) व चतुर्थेनौपशमिकेन क्षायिकेण वा सम्यक्त्वेन, पञ्चभिर्यदा क्षायिकसम्यग्दृष्टिरेवोपशमश्रेणिमारोहति तदौदयिकेन मनुष्यत्वेन, क्षायिकेण सम्यक्त्वेन क्षायोपशमिकेन मत्यादिना औपशमिकेन चारित्रेण पारिणामिकेन जीवत्वेनेति, अत्र च त्रिकभङ्गक एकः, चतुष्कभनौ च द्वावेते त्रयोऽपि गतिचतुष्टयभाविन इति गतिचतुष्टयेन भिद्यमानाद्वादश भवन्ति। उक्तंच"ओदइय खओवसमो,तइओ पुण पारिणामिओ भावो। एसो पढमवियप्पो, देवाणं होइ नायव्यो / / 1 / / ओदइय खओवसमो, ओवसमियपारिणामिओ बीओ। उदइयखइयपरिणामिय, खइओक्समो भवे तइओ॥२॥ एए चेव वियप्पा, णरतिरिणरएसु हुंति बोद्धव्या। एए सव्वे मिलिया, वारस होती भवे भेया // 3 // " पञ्चभिर्मनुष्यस्यैव, तस्यैव तथोपशमश्रेण्यारम्भकत्वात, तस्यामेव च तत्सम्भवात् / तथा चाह-“ओदइए आवसमिए, खओवसमिए खए य परिणामे। उवसमसेढिगयस्स, एस वियप्पो मुणे-यव्यो।।१।।" अन्यथाऽपि च त्रिभिः संभवति, तद्यथा-औदयिकेन मनुष्यत्वेन क्षायिकेण ज्ञानेन पारिणामिकेन जीवत्वेन, अयं च केवलिनाम् / उक्तं हि-"उदइय खइयपरिणामिय भावा होंति केवलीणं तु / " प्रागुक्तभावोभयेन च सिद्धानामेव, उक्तं हि- “खाइय तह परिणामा, सिद्धाणं होति नायव्वा" एवं चैते पञ्चक-त्रिकद्विक संयोगभङ्गास्त्रयः पूर्वेच द्वादशेति मीलिताः पञ्चदश सम्भवन्ति / एत एव चाविरूद्धसान्निपातिकभेदाः पञ्चदश तत्र तत्रोच्यन्ते। तथा चाहुः- “एए संजोएणं, भावा पन्नरस होति नायव्वा / के वलिसिद्धवसमसे-ढिएसु सव्वासु य गईसु // 1 // " आह-एवं सान्निपातिकेनैवात्मनः सदा संयोगसम्भवात् कथं षविधत्वमात्मसंयोगस्य? उच्यते-सहभावित्वेऽपि भावानांयदैकस्य प्राधान्यं विवक्ष्यते तदैकेनाप्यात्मसंयोगसम्भव इत्यदोष इतिगाथार्थः। बाह्यसम्बन्धनसंयोगमाहनामम्मि अ खित्तम्मि अ, नायव्यो वाहिरो य संजोगो।