________________ संजोग 113 - अभिधानराजेन्द्रः - भाग 7 संजोग भावम्मि होइ दुविहो, आएसे चेवऽणाएसे / / 47 / / क्षेत्रे-क्षेत्रविषयः, काले च-कालविषयश्च, तथा इति-तेनागमप्रसिद्धप्रकारेण द्वयोरपि इति-अनयोरेव क्षेत्रकालयोः द्विविधः द्विभेदः, चशब्दो 'भावम्मि' इत्यत्र योक्ष्यते, भवति संयोगः प्रक्रमात् सम्बन्धनसंयोगः / न च क्षेत्रे काले इत्युक्ते द्वयोरपीति पौनरुक्त्याद् दुष्ट, लोकेऽपि हस्तिन्यश्वे च द्वयोरपि राज्ञो दृष्टिरित्येवंविधप्रयोगदर्शनाद् / भावे च भावविषयश्च, संयोग इति संटङ्कः, भवति द्विविधः / कथं क्षेत्रादिद्वैविध्यम् ? इत्याह- 'आएसे चेवऽणाएसे' त्ति (अस्य पदस्य व्याख्या 'आएस' शब्दे द्वितीयभागे 45 पृष्ठ गता।) अत्र क्षेत्रकालगतयोरदिशानादेशयोरल्पवक्तव्यत्वेन सम्प्रदायादपि सुज्ञानत्वात् तद्विषयः सम्बन्धनसंयोगोऽपि सुज्ञान एवेति मत्वा भावगतादेशानादेशविषयं तमाभधित्सुरुक्तहेतोरेव प्रथममनादेशविषय भेदत आहओदइअ ओवसमिए, खइए य तहा खओवसमिए य। परिणामसन्निवाए, छव्विहो हो अणाएसो।।४।। तत्रोदयः-शुभानांतीर्थकरनामादिप्रकृतीनाम् अशुभानां च मिथ्यात्यादीनां विपाकतोऽनुभवनं तेन निवृत्तः औदयिकः क्वचित्तु- 'उदयिए' त्ति पठ्यते, तत्रच-पदावसानवर्तिन एकारस्य गुरुत्वेऽपि विकल्पतोलघुत्वानुज्ञानात नात्र छन्दोभङ्गः / उक्तं हि-“इहियारा बिंदुजुया. एओ सुद्धा पयावसाणम्भि। रहवजणसंजोए, परम्मि लहुणो विभासाए।।१।।" विपाकप्रदेशानुभवरूपतया द्विभेदस्याप्युदयस्य विष्कम्भणमुपशमस्तेन निर्वृत्त औपशमिकः, क्षयः-कर्मणामत्यन्तोच्छेदः तेन निवृत्तः क्षायिकाः स च, तथा क्षयश्चअभाव उदयावस्थस्य उपशमश्चविष्कम्भितोदयत्वं तदन्यस्य क्षयोपशमौ ताभ्यां निर्वृत्तः क्षायोपशमिकः सच, परीतिसर्वप्रकारं नमनंजीवानामजीवानां च जीवत्वादिस्वरूपानुभवनं प्रति प्रड्डीभवन परिणामः, 'एदोद्रलोपा विसर्जनीयस्ये' ति विसर्गलोपः समिति संहतरूपतया नीति-नियत पतन,गमनं कोऽर्थः-एकत्र वर्तन, सन्निपातः औदयिकादिभावानाभेव द्व्या-दिसंयोगः, चः सर्वत्र समुच्चये। इत्थं षड् विधाः-प्रकाश अस्येतिषविधो भवति अनादेशः सामान्यं, सामान्यत्वं चौदयिकादीनां गतिकषायादि-विशेषेष्वनुवृत्तिधर्मकत्वाद्। अनादेशस्य षड्विधत्वे तद्विषयः संयोगोऽपि षड्विध इत्युक्तं भवति, इति गाथार्थः / इदानीमादेशविषयं तमेव भेदत आहआएसो पुण दुविहो, अप्पिअववहारऽणप्पिओ चेव। हक्किक्को पुण तिविहो, अत्ताण परे तदुभए य ||4|| आदेशः-अभिहितरूपः, पुनःशब्दो विशेषणे, द्विविधः-द्विभेदः कथमित्याह- 'अप्पियववहारऽणप्पिओ चेव' त्ति व्यवहारशब्दोऽत्र डमरुकमणिन्यायेनोभयत्र सम्बध्यते, ततश्चार्पित इति व्यवहारो यस्मिन् सोऽयमर्पितव्यवहारः, मयूरव्यंसकादित्वात् समासः, अनर्पितव्यवहारस्तु तद्विपरीतः। तत्रार्पितो नाम क्षायिकादिविः स्वाधारे भाववति ज्ञाताऽयमित्यादिरूपेण ज्ञानमस्येत्यादिरूपेण वा वचनव्यापारण वक्त्रा स्थापितः। अनर्पितस्तु वस्तुनः साधारणत्वेऽपि निराधार एव प्ररूपणार्थ विवक्षितो यथा-सर्वभावप्रधानः क्षायिको भावः / अनयोरपि भेदानाह-एकैकःइत्यर्पितव्यवहारः / अनर्पितव्यवहारश्च पुनस्विविधः, कथमित्याह'अत्ताण' त्ति आर्षत्वाद्-आत्मनि परस्मिन् तयोरात्मपरयोरुभय तस्मिश्च, विषयसप्तम्यश्चैताः, ततो विषयत्रैविध्येनानयोस्वैविध्यम्, इहाप्यादेशभेदाभिधानद्वारेण सम्बन्धनसंयोगस्य भेद उक्तो भवति,तत्र धानर्पितस्य प्ररूपणामात्रसत्त्वेऽप्यर्पितप्रतिपक्षत्वेनैवात्रोपादानम्, अतो वस्तुतस्तस्यासत्त्वान्न तेन कस्यचित्संयोगसम्भव इति न तद्भेदेन संयोगभेदः / अर्पितस्य त्वात्मपरोभयार्पितभेदतस्त्रैविध्यात् तद्भेदेन त्रिविधः सम्बन्धनसंयोग इति गाथार्थः। तत्राऽऽत्मार्पितसम्बन्धनसंयोगमाहओवसमिए य खइए, खओवसमिए य पारिणामे य। एसो चउविहो खलु,नायव्वो अत्तसंजोगो // 50 // औपशमिके चस्य भिन्नक्रमत्वात् क्षायिके च क्षायोपशमिके च सर्वत्र सम्यक्त्वादिरूपे जीवस्य (स्व) भावे तथा तेनागमोक्तप्रकारेण चस्याऽस्याऽपि भिन्नक्रमत्वात परिणामे च जीवत्वाद्यात्मके च सर्वत्र संयोग इति प्रक्रमः / पठ्यते च- 'खओवसमिए य पारिणामे य' त्ति स्पष्टमेव,एषःअनन्तरोक्त औपशमिकादिसंयोगः चतुर्विधः-चतुष्प्रकारः, खलुनिश्चितं ज्ञातव्यः-अवबोद्धव्यः, आत्मसंयोगः इत्यात्माप्तिसम्बन्धनसंयोगः / अत्र ह्यात्मशब्देनार्पितभाव एव धर्मधर्मिणोः कथञ्चिदनन्यत्वादुक्तः। तथा च वृद्धाः- 'एए हि जीवमया भवंति, एएसु भावेसु जीवोऽनन्नो हवइ' तदात्मक इत्यर्थः, औपशमिकादिभावानां च प्रागनादेशतोक्तावप्यत्रादेशत्वेनाभिधानं सम्यक्त्वादिविशेषनिष्ठत्येन विवक्षितत्वाद् भावसामान्यापेक्षया वेति गाथार्थः / किञ्चजो सन्निवाइओ खलु, भावो उदएण वजिओ होइ। इक्कारससंजोगो, एसो चिय अत्तसंजोगो // 51 // यः सान्निपातिक खलुः-वाक्यालङ्कारे, भावः उदयेन, औदयिकभावेन वर्जितः-रहितो भवति, एकादशएकादशसङ्ख्याः संयोगाद्व्यादिमीलनात्मका यस्मिन् स एकादशसंयोगः, सूचकत्वात् सूत्रस्यैतद्विषयो यः संयोगः, एषोऽपि, न केवलमौपशमिकादिसंयोगः इत्यपिशब्दार्थः / चः पूरणे, आत्मसंयोगः-प्राग्वदात्मार्पितसंयोगः, एकादश संयोगाश्चैवं भवन्ति-औपशमिकक्षायिकक्षायोपशमिक-पारिणामिकानां चतुर्णा षट् द्विकसंयोगाश्चत्वारस्त्रिकसंयोगा एकश्चतुष्कसंयोगः, एते च मीलिता एकादश इति गाथार्थः। बाह्यार्पितसम्बन्धनसंयोगमाहलेसा कसायवेयण, वेओ अन्नाणमिच्छ मीसं च / जावइया ओदइया, सव्वो सो बाहिरो जोगो ||51|| लेश्या-लेश्याध्ययनेऽभिधास्यमानाः, कषायाश्चवक्ष्यमाणाः वेदना च सातासातानुभवात्मिका कषायवदनं, प्राकृतत्वाद्विन्दुलोपः, वेदः पुंस्त्र्युभयाभिलाषाऽभिव्यङ्गयः, मिथ्यात्वोदयवतामसदध्यवसायात्मकं सत्ज्ञानमप्यज्ञानम्,