________________ संजोग 112 - अभिधानराजेन्द्रः- भाग 7 संजोग रागविहि गीयवाइयविही अभिप्पेयमणुलोमो॥४४|| सर्वाः-समस्ताः कोऽर्थः? इन्द्रियाणामनुकूलाःप्रतिकूलाश्च / अस्य चौषधयुक्त्यादिभिःप्रत्येकं सम्बन्धः। ततश्च औषधादीनाम्-अगुरुकुङ् कुमादीनां सज्जिकाराजिकादीनां च युक्तयोवो जनानिसमविषमविभागनीतयो वा औषधयुक्तयः गन्धानांगन्धद्रव्याणां श्रीखण्डादीनांलशुनादीनां च युक्तयः गन्धयुक्तयः ताश्च,भोजनस्य अन्नस्य विधयः-शाल्यौ- 1 दनादयः कोद्रवभक्तादयश्च भेदाः भोजनविधयः तेच, 'रागविहिगीयवाइयविहि' त्ति सूत्रत्वाद्वचनव्यत्यये रागविधयश्च गीतवादित्रविधयश्च रागविधिगीतवादित्रविधयः। तत्र रञ्जनं रागः-कुसुम्भादिना वर्णान्तरापादनंतद्विधयः-स्निग्धत्वादयो रूक्षत्वादयश्च / गीतवादित्रविधयः इति, अत्र विधिशब्दस्योभयत्र योगात्, गीतं गानं तद्विधयः-कोकिलारुतानुकारित्वादयः काकस्वरानुविधायित्वादयश्च, वादित्रम्-आतोद्यम्, इह चोपचारात्तद्ध्वनिः तद्विधयोमृदङ्गादिखनाः केवलकरटिकादिस्वनाश्च / चशब्दो नृत्तादिविधिसमुच्चयार्थः / एते किमित्याह- 'अभिप्पेयं' ति अभिप्रेतार्था उच्यन्ते, कीदृशाः सन्त इत्याह-अनुलोमाः, कोऽर्थः?शुभा अशुभा या मनोऽनुकूलतया प्रतिभासमानाः, एतेनैतदप्याह-यथैत एव देशकालावस्थादिवशतो विचित्राभिसन्धितया जन्तूनां मनसोऽननुलोमाः सन्तोऽनभिप्रेतोऽर्थः / इत्थं व्याख्यानतो विशेषप्रतिपत्तिमाश्रित्येन्द्रियापेक्षया मनोऽपेक्षया च भेदेनाभिप्रेतोऽनभिप्रेतश्चार्थो व्याख्यातः, अथवाऽनन्तरगाथापश्चार्द्धनाविशेषेणेन्द्रियाणां मनसश्चानुकूलोऽभिप्रेतोऽर्थः इतरस्त्वनभिप्रेत उक्तः। एतगाथयाऽपि स एव विशेषतोदर्शित इति व्याख्येयम् / अत्र च सर्वा इति सर्वप्रकारा अनुलोमा इति चेन्द्रियमनसामनुकूलाः शेषं प्राग्वत् / उपेक्षणीयस्य त्विहानभिधानं न यस्य कस्यचिन्मतेनानभिप्रेत एव तस्यान्तर्भावादिति गाथार्थः / उक्तोऽभिप्रेतानभिप्रेतभेदरूप इतरेतरसंयोगः, साम्प्रतममुमेवाभिलापविषयमाहअभिलावे संजोगो, दव्वे खित्ते अकालमावे अ। दुगसंजोगाईओ, अक्खरसंजोयमाईओ॥४५|| अभिलापः उक्तस्वरूपः,तद्विषयः संयोगः प्रक्रमादभिलापेतरेतरसंयोगः / अयं च त्रिधा सम्भवति, तत्रैकोऽभिलापस्याभिलाप्येन, द्वितीयोऽभिलाप्यस्याऽभिलाप्यान्तरेण, तृतीयो वर्णस्य वर्णान्तरेण / तत्राद्योऽभिलाप्यस्य द्रव्यादिभेदेन चतुर्विधत्वाद्रव्ये इति द्रव्यविषयः, स चार्थाद् घटादिशब्दस्य पृथुबुध्नोदराद्याकारपरिणतद्रध्येण वाच्यवाचकभावलक्षणः सम्बन्धः, एवं क्षेत्रेच क्षेत्रविषयः, आकाशध्वनेरवगाहदानलक्षणक्षेत्रेण कालभावे इति समाहारद्वन्द्वः, ततः काले कालविषयः समयादिश्रुतेर्वर्तनादिव्यङ्गयेन कालपदार्थन, भावेच भावविषय औदयिकादिक्च-सोमनुष्यत्वादिपर्यायण, चशब्दोऽत्र पूर्वत्रच समुचये। द्वितीयमाह-द्विकस्य संयोगो द्विकसंयोगःस आदिर्यस्य त्रिकसंयोगादेः सोऽयं द्विकसयोगादिकः / इहाभिलापसंयोगस्य त्रिविधत्वाद् तत्र चाद्यस्यानन्तरमेवोक्तत्वात् तृतीयस्य चाभिधास्यमानत्वाद् अर्थाद् द्विकग्रहणेनाभिलाप्यद्वयमेव गृह्यते, तत्र द्विकसंयोगो यथा-सच स च तौ, त्रिकासंयोगो / यथा-सच तौ च ते, अत्र तोचते चेत्युक्तेसच सचतथा सचतौ चेत्यनुक्तावप्येकत्राभिलाप्यार्थद्वयमन्यत्र चाभिलाप्यार्थत्रयं सह प्रतीयते अभिलापसंयोगत्वं चास्याभिलापद्वारकत्वादभिलाप्येन सह प्रतीतेः / तृतीय-माह-अक्षरेच अक्षराणि च अक्षराणि तेषां संयोगः अक्षरसंयोगः, स आदिर्यस्योदात्ताद्यशेषवर्णधर्मसंयोगस्य सोऽयमक्षरसंयोगादिकः, मकारोऽलाक्षणिकः / तत्राक्षरयोः संयोगो यथा-क इति, अक्षराणां संयोगो यथा-श्रीरि ति / उदात्तादिवर्णधर्मसंयोगास्तु स्वधिया भावनीयाः / अस्याप्यभिलापसंयोगत्वं वर्णादीनां कथञ्चिदभिलापानन्यत्वेन तदात्मकत्वात्, यद्वाऽक्षरसंयोग इत्यनेन सर्वोऽपि व्यञ्जनसंयोग उक्तः, आदिशब्देन त्वर्थसंयोगः, एत-द्विशेषणं च द्विकसंयोगादिरिति योजनीयम्। अन्यत् प्राग्वत् / द्रव्यसंयोगत्वं चास्याभिलापस्य द्रव्यत्वात्, द्रव्यत्वं चास्य स्पर्श-वत्त्वेन गुणाश्रयत्वात्। वक्ष्यति हि- "गुणाणमासओ दध्वं" ति न च स्पर्शक्त्त्वमसिद्धं प्रतिघातजनकत्वात्, तथाहि-यत् प्रतिघातजनक तत्स्पर्शवत् दृष्ट, यथा लोष्टादि, प्रतिघातजनकश्च शब्दः, अन्यथातथाविधशब्दश्रुतावनुभवसिद्धश्रोत्रान्तःपीडाया असम्भवादिति गाथार्थः। उक्तोऽभिलापविषय इतरेतरसंयोगः सम्प्रति सम्बन्धनसंयोगरूपस्यतस्यावसरः,सोऽपि द्रव्यक्षेत्रकालभाव भेदतश्चतुर्धा, तत्र द्रव्यसंयोगसम्बन्धमाहसंबंधणसंजोगो, सच्चित्ताचित्तमीसओ चेव। दुपयाइ हिरण्णाई, रहतुरगाई अ बहुहा उ।।४६|| सम्बध्यते प्रायो ममेदमित्यादिबुद्धितोऽनेनास्मिन् वाऽऽत्माऽष्टविधेन कर्मणा सहेति सम्बन्धनः, स चाऽसौ संयोगश्च सम्बन्ध-नसंयोगः, 'सच्चित्ताचित्तमीसओ चेव' त्ति प्राग्वत् सुपो लुकि सचित्तोऽचित्तो मिश्रकः / चः समुच्चये। एवः भेदावधारणे। यथा-क्रममुदाहरणान्याहद्विपदेत्यादिना, सचित्ते द्विपदादिः, आदि-शब्दाच्चतुष्पदापदपरिग्रहः / तत्र च द्विपदसंयोगा यथा-पुत्री, चतुष्पदसंयोगो यथा-गोमान्, अपदसंयोगो यथा-पनसवान् / अचित्ते हिरण्यादिः, आदिशब्दान्मणिमुक्तादिग्रहः, सच हिरण्यवानित्यादि मिश्रे रथयोजितस्तुरगः मध्यपदलोपेरथतुरगस्तदादिः, आदिशब्दाच्छकटवृषभादिपरिग्रहः। स च रथिक इत्यादि / चः समुच्चये / बहुधा तु इति बहुप्रकार एव, तुशब्दस्यैवकारार्थत्वात, इह च सचित्तविषयत्वात् सम्बन्धनसंयोगोऽपि सचित्त इत्यादि सर्वत्र भावनीयम्। आह-यदि सचित्तादिविषयत्वादसौ सचित्तादिरिति व्यपदिश्यते, एवं सत्यात्मन् एवाऽसौ तैः सह, तत उभयनिष्ठत्वात्तेनापि किं न व्यपदिश्यते? उच्यते-यवाङ् कुरादिवदसाधारणेनैव व्यपदेशः, आत्मनश्च सर्वैरप्यमीभिरसाविति तस्य साधारणत्वान्न तेनेह व्यपदेशः पृथिव्यादिभिरिवाड कुरस्येति न दोषः, एवमुत्तरत्रापि, इति गाथार्थः। अमुमेव क्षेत्रकालभावविषयमभिधित्सुखेत्ते काले य तहा, दुण्ह वि दुविहो उ होइ संजोगो।