________________ संजोग 115 - अभिधानराजेन्द्रः - भाग 7 संजोग कालेण बाहिरो खलु,मीसोऽवि य तदुभए होइ॥५६|| नाम्ना-वस्त्वभिधायिध्वनिस्वभावेन, चकारात्-द्रव्येण क्षेत्रेण | चाकाशदेशात्मकेन,प्राकृतत्वात् तृतीयार्थे सप्तमी। प्रकृतत्वात् संयोगः, किमित्याह- ज्ञातव्यः बाह्यविषयत्वाबाह्यः। तुः पुनरर्थः। संयोग इति सम्बन्धनसंयोगः, कालेन इति-चस्य गम्यमानत्वात् कालेन च समयाऽऽवलिकादिना, तत एव संयोगो-बाह्य-सम्बन्धनसंयोगः खलु-निश्चितं, ज्ञातव्य इति योज्यम्। इदमिहै-दम्पर्यम्-यः पुरुषादे-देवदत्तादिनाम्ना सम्बन्धोऽयं देवदत्त इत्यादिः, द्रव्येण च दण्डीत्यादिः, क्षेत्रेणारण्यजो नगरज इत्यादि, कालेन दिनजो रजनिज इत्यादि, स सवों नामादिभिबहिरेवेति बाह्यः सम्बन्धनसंयोगः। भावेन तुसंयोग आत्मसंयोगत्वेनोक्त एव, भवितुरनन्यत्वात् भावस्य, अन्यथा तस्याभावत्वप्रसङ्गः इतीह तस्यानभिधानम् / तथा कालेन बाह्य इति च भिन्नवाक्यता-करणं केषाचिन्मतेन कालस्यासत्त्वख्यापनार्थम्,यद्वा-नाम्नि, क्षेत्र इति च विषयसप्तम्येव, यो हि येन सह भवति स तद्विषय एवेति कृत्वा / आहनाम्नोऽप्यभिलापत्वात् तद्विषयोऽपि संयोगोऽभिलापसंयोगः, स चोक्त एवेति कथं न पौनरुक्त्यन् ? उच्यते-अभिलापसामान्यविषयोऽभिलापसंयोगः, अयंतु सम्बन्धनसंयोगस्य प्रकृतत्वात् तस्य च सकषायजीवसम्बन्धित्वात्। वक्ष्यति हि- “संबंधणसंयोगो, कसायबहुलस्स होइ जीवस्स" त्ति, कस्यचिन्नाम्न्यप्यभिष्वङ्ग सम्भवादभिष्वङ्ग हेत्वभिलापविषय एवेतिन पौनरुक्त्यम् 'मीसोऽवि य' ति अपिः पुनरर्थे। चः पूरणे। ततो मिश्रविषयत्यान्मिश्रः सम्बन्धनसयोगः पुनातव्यः, यः कीदृगित्याह- 'तदुभए' त्ति प्राग्वत्तदुभयत्वेन-आत्मबाह्यलक्षणेन तदुभयस्मिन् वोक्तरूप एव भवति, यः संयोग इति शेषः, यथा-क्रोधी देवदत्तः, क्रोधी कौन्तिको, मानी सौराष्ट्रः, क्रोधी वासन्तिकः, अत्र क्रोधादिभिरौदयिकभावान्तर्गतत्वेनात्मरूपैर्नामादिभिस्त्वात्मनोऽन्यत्वेन बाह्यरूपैः संयोग इत्युभयसम्बन्धनसंयोग उच्यते। नन्वेवं नकदाचिन्नामादिविकलैरौदयिकादिभिरौदयिकादिरहितैर्वा नामादिभिरात्मनः संयोग इति सर्वदोभयसम्बन्धनसंयोग एव प्राप्तः,सत्यमेतत्, किन्तु-वक्तु-रभिप्रायवैचिव्यात्कदाचिदौदयिकादिभिः कदाचिन्नामादिभिः कदाचित्तदुभयेन संयोगविवक्षेतिमात्मपरोभयसम्बन्धनसंयोगत्रयविरोध इति गाथार्थः / प्रकारान्तरेण बाह्यसम्बन्धनसंयोगमाहआयरिय सीस पुत्तो, पिया य जणणी य होइ धूया य। भज्जा पइसीउण्हं, तमुजछायाऽऽयवे चेव / / 57 / / आडित्यभिप्याप्त्या मर्यादया वा स्वयं पञ्चविधाचारं चरत्याचा-रयति वापरान; आचर्यत वा मुक्त्यर्थिभिरासेव्यत इति आचार्यः अन्यत्रापीति वचनात कर्तरि कर्मणि वा कृत्यप्रत्यययः। तथा शासितुं शक्यः शिष्यः, पुनाति पितुराचारामुवर्तितयाऽऽत्मानमिति पुत्रः, पाति-रक्षत्यपत्यमिति पिता, स च जनयति प्रादुर्भावयत्य-पत्यामिति जननी, सा च भवति बाह्यसम्बन्धनसयोगविषयत्वात् बाह्यसम्बन्धनसंयोग इति वृद्धाः। इदं च सर्वत्र योज्यम्। दोग्धि च केवलं जननी स्तन्यार्थमिति दुहिता, ततश्च "दुहितरि धो हिलो-पश्च” इति वचनादादेर्धत्वे हिलोपे च "उदूत् सुपुष्पोत्सवोत्क -दुहितृषु" इति वचनात्, उत ऊत्त्वे च धूया, सा च, चकारत्रयं पूरणे / भियते-पोष्यते भत्रेति भार्या, पाति-रक्षति तामिति पतिः, स्त्यायते धातूनामनेकार्थत्वात् कठिनीभवत्यस्मिन् जलादीति शीतम्, उषति-दहति जन्तुमिति उष्णतमयति-खेदयति जनलोचनानीति तमः औणादिकोऽसन् 'उज्ज' त्ति आर्षत्वादु-द्योतयतीति उद्द्योतः पचादित्वादच्, छ्यति छिनत्ति वाऽऽतपमिति छाया, आसमन्तात्तपति सन्तापयति जगदिति आतपः, चशब्दो राजभृत्याद्यनुक्ताशेषसम्बन्धिसमुच्चये, लक्षणानुपपत्तौ च सर्वत्र नैरुक्तो विधिः / सुपश्च यत्राश्रवणं तत्र प्राग्वल्लुक् / इदमत्रैदम्पर्यम्-आचार्यः शिष्यादन्यत्वेन बाह्यः, ततो यस्तेन शिष्यस्य संयोगः-शिष्य इत्युक्तिरवश्यमाचार्यमाक्षिपति यस्याऽयं शिष्य इत्याक्षेप्याक्षेपक-भावलक्षणः स बाह्येनेति कृत्वा बाह्यसम्बन्धनसंयोगः, ततस्तद्विषय आचार्योऽप्युपचारात्तथोच्यते। एवं शिष्योऽप्याचार्यादन्यत्वेन बाह्यः / तेनाप्याचार्यस्य यः संयोगः-आचार्य इत्युक्तिरवश्यं शिष्यमाक्षिपति यस्यायमाचार्य इत्याक्षेप्याक्षेपकभावरूपः सोऽपि बाह्येनेति कृत्वा बाह्यसम्बन्धनसंयोगः, ततस्तद्विषयः शिष्योऽप्युपचारात् तथोच्यते / एवं पुत्रपित्रादिद्वयेष्वपि भावनीयम् / सर्वत्र सामान्येन परस्पराक्षेप्याक्षेपकभावः सम्बन्धनः / विशेषनिरूपणाया त्वाचार्यशिष्यभार्यापतीनामुपकार्योपकारकभागः, पितृपुत्रजननीदुहितॄणां, जन्यजनकभावः, शीतोष्णादीनां च विरोधः, सम्बन्धः / अत एव च विशेषाद् द्रव्यसंयोगत्वेऽप्यस्य भेदेनोपादानमिति गाथार्थः। उत्त०१०। सह जायगाइमित्ता, नाई माया पिईहि संबद्धा। ससुरकुलं संजोगो, तिण्णि उ मेत्तादयो छट्ठो।। सहजातकादयः सुहृदो-मित्राणि आदिग्रहणात्-सहवर्द्धितकाःसहपांशुक्रीडितकाः सहदारदर्शिनश्चेति ज्ञातयोमातृपितृसंबद्धा, मातृकुलसंबंद्धाश्वेत्यर्थः। तत्र मातृकुलसंबद्धामातामहादयः पितृकुलसंबद्धाः-पितृव्यपितामहादयः, श्वशुरकुलसंयोगोऽभिधीयते। किमुक्तं भवति श्वशुरकुलपाक्षिका ये-केचित् श्वशुर श्वश्रूश्यालकादयस्तेषां संबन्धः संयोग उच्यते। बृ० 170 2 प्रक०। सम्प्रति संयोगप्रक्रमेऽप्याचार्यशिष्यमूलत्वादनुयोगस्य तयोःस्वरूपमाहआयरिओ तारिसओ, जारिसओ नवरि हुज्ज सो चेव। आयरियस्स वि सीसो, सरिसो सव्वेहि वि गुणेहिं // 58|| आचार्यः तादृशः तथाविधः, यादृशः क इत्याह-यादृशो नवरमिति यदि परं भवेत् ‘स चेव' त्ति चः पूरणे, स एव-आचार्य एव / किमुक्तं भवति? आचार्यस्याचार्य एवान्यःसदृशो भवति, न पुनरनाचार्यः, आचार्यगुणानामन्यत्राविद्यमानत्वात्, नह्याचार्यादन्यः षट् त्रिंशत् सङ्ख्यगणिगुणसमन्वित इहास्ति, तत्समन्वितत्वे त्वन्योऽपि तत्त्वत आचार्यः एवेति / अथ क एते षट् त्रिंशद् गुणाः? उच्यन्ते -प्रत्येकं चतुष्प्रकारा अष्टौ गणिसम्पदो द्वात्रिशत,