________________ संजोग 106 - अभिधानराजेन्द्रः - भाग 7 संजोग भावनात्मकेनावबोद्धव्यः, पाठान्तरतो ज्ञातव्यः, अचित्तसंयुक्तकसंयोग इति प्रक्रमः, अयमर्थः- "कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः / एकररावर्णगन्धो, द्विस्पर्श: कार्यलिङ्गश्च / / 1 / / " इत्येवलक्षणः परमाणुर्यदा त्र्यणुकादिस्कन्धपरिणतिमनुभवति तदा रसादिसंयुक्त एव दव्यणुकादिभिः स्कन्धैः संयुज्यते, यदा वा तिक्ततादिपरिणतिमपहाय कटुकत्वादिपरिणति प्रतिपद्यते तदाऽपि वर्णादिभिःसंयुक्त एव कटुकत्वादिना संयुज्यते इति संयुक्तसंयोग उच्यते। अत्र च कृष्णपरमाणुः कृष्णत्वमपहाय नीलत्वं प्रतिपद्यत इत्येको भङ्गः, एवं रखतत्वं पीतत्वं शुल्कत्वं चेति च वारः। तथाऽयमेव रसपशकगन्धद्वयाविरुद्धस्पर्शस्तारतम्यजनितेश्च स्वस्थान एव द्विगुणकृष्णत्वादिभिः परमाण्वन्तरद्विप्रदेशादिभिश्च योजनाद्विवक्षावशतः संख्यातासंख्यातानन्तात्मिका भड़रचनामवाप्नोति. एवं वर्णान्तररसस्पर्शगन्धस्वगततारतम्ययुक्तोऽपि, तथा द्विप्रदेशादिश्च / यश्च- 'वण्णरसंगधफासा, पोग्गलाणं च लक्खणं' इत्यादिसूत्रेषु वर्णस्यादित्वेन दर्शनेऽपि 'एगरसएगवण्णे' त्ति रसस्य प्रथमत उपादानं तदनानुपूर्व्या अपिव्याख्याङ्गत्वेन गाथाबन्धानुलाम्येन वेति भावनीयन् / सुपर्णादीनां च प्राच्यवर्णकासंयुक्तानामेव विशिष्टवर्णकादिभिः संयोगोऽचित्तसंयुक्तकसंयोग उक्तानुसारेण सुज्ञान एवेति निर्युकृता न व्याख्यात इति गाथार्थः / दृष्टान्तपूर्वक सन्ततिकर्मणा जीवस्य मिश्रसंयुक्तकद्रव्य संयोग व्यक्तीकर्तुमाहजह धाऊ कणगाई, सभावसंजोयसंजुया हुंति / इअ संतइकम्मेणं, अणाइसंजुत्तओ जीवो // 34 // यथा इति-उदाहरणोपन्यासार्थः, यथा धातवः कनकादियोनिभूता मृदादयः 'कणगाई' ति सूत्रत्वात्कनकादिभिः, आदिशब्दात्ताम्रादिभिश्च, किमित्याह-स्वभावेन संयोगः प्रकृतीश्वराद्यर्थान्तरव्यापारान क्षयोपलक्ष्यानुपलक्ष्यरूपो यः सम्बन्धस्तेन संयुक्तामिश्रिताः स्वभावसंयोगसंयुताः भवन्ति-विद्यन्ते इतीत्यमुनैवार्थान्तरनिरपेक्षत्वलक्षणेन प्रकारेण सन्ततिः-उत्तरोत्तरनिरन्तरोत्पत्तिरूपः प्रवाहस्तयोफ्लक्षित कर्म-ज्ञानावरणादि सन्ततिकर्म तेन, न विद्यते आदिः-प्राथम्यमस्येत्यनादिः, स चेह प्रक्रमात्संयोगस्तेन 'स' मिति 'अण्णोण्णाणुगयाणं इम चतं च त्ति विभयणमजुत्त' इत्यागमाद्वि-भागाभावतो युक्तः श्लिष्टोऽनादिसंयुक्तः स एव अनादिसंयुक्तकः,यद्वा संयोगः संयुक्तं ततोऽनादिसंयुक्तमस्येति अनादिसंयुक्तकः, क इत्याह-जीवति जीविष्यति जीविताश्चेति जीवः मिश्रसंयुक्तक-द्रव्यसंयोग इति प्रक्रमः / इदमुक्तं भवति-जीवो ह्यनन्तकर्मा-सुवर्गणाभिरावेष्टितप्रवेष्टितोऽपि न स्परूपं चैतन्यमतिर्तिते, नचाचैतन्यं कर्माणव इति तयुक्ततया विवक्ष्यमाणो - ऽसौ संयुक्तकमिश्रद्रव्य, ततोऽस्य कर्मप्रदेशान्तरैः संयोगो मिश्रसंयुक्तकद्रव्यसयोग उच्यते। इह च जीवकर्मणोरनादिसंयोगस्य धातुकनकादिसंयोगदृष्टान्तद्वारेणाभिधानं तद्वदेवानादित्वेऽप्युपायतो जीवकर्मसंयोग स्याभावख्यापनार्थम्, अन्यथा मुक्त्यनुष्ठानवैफल्यापत्तेरिति भावनीयमिति गाथार्थः / उक्तः संयुक्तकसंयोगः। इतरेतरसंयोगमाहइयरेयरसंजोगो, परमाणूणं तहा पएसाणं / अभिपेयमणभिपेओ, अभिलावो चेव संबंधो॥३५।। इतरेतरस्यपरस्परस्य संयोगो-घटना इतरेतरसंयोगः परमाणूनाम्उक्तरूपाणा, तथा प्रकर्षण-सूक्ष्मातिशयलक्षणेन दिश्यन्ते-कथ्यन्त इति प्रदेशाः-धर्मस्तिकायादिसम्बन्धिनो निर्विभागा भागास्तेषाम्, 'अभिपेय'ति प्राकृतत्वादभिप्रेतः, इतरेतर-संयोग इति योज्यते. एवमुतरत्रापि / अभिप्रेतत्वं चास्य अभिप्रेतविषयत्वाद्, एतद्विपरीतोऽनभिप्रेतः / अभिलप्यते-आभिमुख्येन व्यक्तमुच्यतेऽनेनार्थ इत्यभिलापोवाचकः शब्दरसद्विषयत्वात् अभिलापः। चः समुच्चये। एवः अवधारणे। सम्बन्धशब्दानन्तरं चैतौ योज्यौ, ततः सम्बन्धनं सम्बन्धः, स चैवं स्वस्वामित्वादिरनेकधा वक्ष्यमाणः। एतावद्भेद एवायमितरेतर-संयोग इति चावधारणस्यार्थ इति गाथासमासार्थः। परमाणुना संयोगमाहदुविहो परमाणूणं, हवइ य संठाणखंधओ चेव / संठाणे पंचविहो, दुविहो पुण होइ खंधेसुं // 36 / / द्वौ विधौ प्रकारावस्थेति द्विविधः-द्विभेदः, कोऽसौ?-परमाणूनाम् इति परमाणुसम्बन्धी, प्रक्रमादितरेतरसंयोगो भवति। चः पूरणे / कथं द्विविध इत्याह- 'संठाणखंधतो' त्ति सन्तिष्ठतेऽनेन रूपेण पुदलात्मकं वस्त्विति संस्थानम्-आकारविशेषः ततस्तमाश्रित्य, स्कन्धतः स्कन्धमाश्रित्य / चः समुचये। एवः भेदावधारणे। द्विविधस्थाऽपि प्रत्येक भेदानाह-संस्थाने संस्थान-विषयः पञ्चविधः-पञ्चप्रकार:द्विविधः-द्विप्रकारः, पुनःशब्दो वाक्यान्तरोपन्यासे, भवति, स्कन्धेषु स्कन्धविषय इति गाथार्थः। इह च संस्थानस्कन्धभेदद्वारक एवायमितरेतरसयोगभेद इति तदभिधानमुचितं, तत्र यथोद्देशं निर्देश इति न्यायतः संस्थानभेदाभिधानप्रस्तावेऽप्यल्पवक्तव्यत्वात् स्कन्धभेद हेतुभेदद्वारेणाऽऽहपरमाणुपुग्गला खलु, दुन्निव बहुगा य संहता संता। निव्वत्तयंति खंधं, तं संठाणं अणित्थत्थं // 37 // परमाणुपुद्रलौ खलु द्वौ वा बहव एव बहुकाः-त्रिप्रभृतयः, ते च परमाणुपुरलाःसंहताः-एकपिण्डतामापन्नाः सन्तो निर्वर्तयन्तिजनयन्ति, किमित्याह-स्कन्धंद्यणुकादिकम्, अनेन च द्विपरमाणुजन्यतया बहुपरमाणुजन्यत्वेन च स्कन्धस्य द्विभेदत्वमुक्तम्। खलुशब्दोऽत्र विशेष द्योतयति, स चायम्-इह रूक्षः स्निग्धो वा एकगुणः सम्बध्यमानो द्विगुणाधिकनैव स्वस्वरूपापेक्षया सम्बध्यते, नतु समगुणेनैकगुणाधिकेन वा। किमुक्तं भवति ? एकगुणस्निग्धस्त्रिगुणस्निग्धेन सम्बध्यते, त्रिगुणस्निग्धः पशगुणस्निग्धेन, पञ्चगुणस्निग्धः सप्तगुणस्निग्धेनेत्यादि।तथा द्विगुणस्निग्धश्चतुर्गुणस्निग्धेन, चतुर्गुणस्निग्धः षड्गुणस्निग्धेनेत्यादिएवमेकगुणरूक्ष