________________ संजोग 108 - अभिधानराजेन्द्रः - भाग 7 संजोग नऽस्थि / / 1 / / ण पराणुमयं वत्थु, अगाराभावओ खपुप्फ व। उलंभव्ववहारा, भावाओणाणगारं च।।।।" द्रव्यनय आह- "यथानामादिनाकार, विना संवेद्यते तथा / नाऽऽकारोऽपि विना द्रव्यं, सर्वे द्रव्यात्मकं ततः // 1 // " तथाहि-द्रव्यमेव मृदादिनिखिलस्थासकोश-कुशूलकुटकपालाद्याकारानुयायि वस्तु सत्, तस्यैव तत्तदाकारानुयायिनः सद्बोधविषयत्वात, स्थासकोशाधाकाराणां तु मृद्रव्यातिरेकिणां कदाचिदनुपलम्भात्, तचोत्पादादिसकलविकारविरहितं तथा तथाऽऽविर्भावतिरोभावमात्रान्वितं सम्मूञ्छितसर्वप्रभेदनिर्भेदबीजं द्रव्यमगृहीततरङ्गादिप्रभेदस्तिमितसरःसलिलवत्, आह च"दव्वपरिणाममेतं, मोत्तूणागारदरिसणं किं तं / उप्यायव्वयरहिय, द चिय निध्वियारं ति ||1|| आविब्भावतिरोभावमेत्तपरिणामकारणमचिन्तं / णि बहुरूवं पि य, नडो व्व वेसंतरावण्णो / / 2 / / " (भावनयव्याख्या 'भावणय' शब्दे पञ्चमभागे गता।) परमार्थतस्त्वयम्संविन्निष्ठेव सर्वाऽपि विषयाणां व्यवस्थितिः। संवेदनं चनामादि, विकलं नानुभूयते / तथाहि"घटोऽयमिति नामैतत. पृथुबुध्नादिनाऽऽकृतिः / मृद्रव्यं भवनं भावो, घटे दृष्ट चतुष्टयम्॥१॥ तत्राऽपि नाम नाकारमाकारो नाम नो विना। तौ विना नापि चान्योऽन्यमुत्तरावपि सस्थितौ / / 2 / / मयूराण्डरसे यदद्वर्णा नीलादयः स्थिताः। सर्वेऽप्यन्योऽन्यमुन्मिश्रास्तद्वन्नामादयो घटे॥३॥" इत्थं चैतत् परस्परसध्यपेक्षितयैवाशेषनयानां सम्यग्नयत्वात, इतरथा उत्पादव्ययध्रौव्ययुक्तं सदिति प्रत्यक्षादिप्रमाणप्रतीतसलक्षणानुपपत्तेश्च / किया-शब्दादपि घटादेन मादिभेदरूपेणैव घटाद्यर्थे बुद्धिपरिणामो जायते. इत्यतोऽपि नामादिचतूरूपतैव सर्वस्य वस्तुनः / उक्तं च"नामादिभेदसहत्थ बुद्धिपरिणाग-भावओ णिययं। जंवत्थु अस्थिलोए, चउपजायं तय सव्वं / / 1 / / " ततश्च- "चतुष्काभ्यधिकस्येह, न्यासो योऽन्यस्य दयत। एतदन्तर्गतः सोऽपि, ज्ञातव्यो धीधनान्चितैः / / 1 / / " इत्यलं प्रसङ्गेन / सम्प्रति नियुक्तिरनुश्रि (स्त्रि) यते। तत्र नामस्थापने आगमतो नोआगमतश्च ज्ञशरीरभव्यशरीररूपश्च द्रव्यसंयोगः सुगम इति मन्वानो व्यतिरिक्तद्रव्यसंयोगमभिधातुमाह-द्विविध-रित्वति द्विविध एव, द्रव्येण द्रव्यस्य वा, समिति सङ्गतो योगः संयोगः / संयोग विध्यमेवाहसंयुक्तमेव संयुक्तकम्- अन्येन संश्लिष्ट, तस्य संयोगोवरस्वन्तरसम्बन्ध: संयुक्तकसंयोगो ज्ञातव्यः / इतरेतर इति इतरेतरसयोगः / चः समुच्चये। एवः अवधारणे / इत्थमेव द्विविध एष संयोग इति गाथासमासार्थः / / 30 // विस्तरार्थ त्वभिधित्सुः "यथाशं निर्देश" इति न्यायतः संयुक्तकसयोग भेदेनाहसंजुत्तगसंजोगो, सच्चित्तादीण होइ दवाणं / दुममणुसुवण्णमाई, संतइकम्मेण जीवस्स / / 31 / / संयुक्तकसंयोगः अनन्तराभिहितस्वरूपः सचित्तादीनां सचित्ताचित्तमिश्राणां भवति द्रव्याणाम्। अमीषामुदाहरणान्याह- 'दुम-मणुसुवण्णमाइ'त्ति' अत्र मकास्यालाक्षणि कत्वात् सुब्ब्यत्ययाच द्रुमाणुसुवर्णादीनां प्रत्येक चादिशब्दसम्बन्धात्सचित्तद्रव्याणां द्रुमादीनाम्, अचित्तद्रव्याणामण्वादीनां सुवर्णादीनां च, मिश्रद्रव्यस्य तु सन्ततिकर्मणोपलक्षितस्य जीवस्य। अत्र चाऽसवादीना सुवर्णादीनामित्युदाहरणद्वयमचित्तद्रव्याणां सचित्तमिश्रद्रव्यापेक्षया भूयस्त्वख्यापनार्थम् / एतद्भ्यस्त्वं च जीयेभ्यः पुद्रलानामनन्तगुणत्वात्। उक्तंच-“जीया पोग्गलसमया, दव्धपएसाय पजवा चेव / थोवाऽणताणता, विसेसमाहिया दुवेऽणता / / / / 1 / / " इति, अनेन च सचित्तादेः संयोगद्रव्यस्य त्रैविध्यात रायुक्तक-योगस्य त्रैविध्यमुक्तमिति गाथार्थः / / 3 / / तत्र द्रुमादीना सचित्तसंयुक्तद्रव्यसंयोग विवरीतुमाहमूले कंदे खंधे, तया य साले पवालपत्तेहिं / पुप्फफले बीएहि अ, संजुत्तो होइ दुममाई / / 32 / / मूले कन्दे स्कन्धे इति सर्वत्र सूत्रत्वात्, तृतीयार्थे सप्तमी। ततश्च मूलेनअधःप्रसर्पिणा स्वावयवेन कन्देनतेनैव मूलस्कन्धान्तरालवर्तिना स्कन्धेनस्थुडेन त्वचाछविरूपया 'साले' त्ति एकारोऽलाक्षणिकः, ततः शालाप्रवालपत्रैःशाखापल्लवपलाशैः, फले इत्यत्राप्येका-रस्तथैव, ततः पुष्पफलबीजेश्व प्रसिद्धरेव संयुक्तः-सम्बद्धो भवति। 'दुमनाइ'त्ति मकारोऽलाक्षणिकः ततो दुमादिः, आदिशब्दाद्-गुच्छगुल्मादिश्व संयुक्तकसंयोग इति प्रक्रमः। स हि प्रथममुद्रच्छन्नड़ कुरत्मकः पृथिव्याः संयुक्त एव मूलेन संयुज्यते, ततो मूलसंयुक्तक एव कन्टेन, कन्दसंयुक्त एव स्कन्धेन एवं त्वक्शाखाप्रवालपुष्पफलबीजैरपि पूर्वसंयुक्त एवोत्तरोत्तरैः संयुज्यते इति भावनीयम् / नन्वेवं द्रुमादेव्यत्वात् संयुतकसंयोगस्य च गुणत्वात्कथं द्रुमादिरेव स इति, अत्रोच्यते- धर्मधर्मिणोः कथाश्चिदनन्यत्वादेवमुक्तमित्यदोषः। एवमुत्तरभेदयोरपीति गाथार्थः // 32 // अण्वादीनामचित्तसंयुक्तकद्रव्यसंयोगं स्पष्टयितुमाहएगरस एगवण्णे, एगे गंधे तहा दुफासे अ। परमाणू खंधेहि अ, दुपएसाईहिणायव्वो / / 33 / / एक:-अद्वितीयरितक्तदिरसान्यतमो रसोऽस्येति एकरसः, तथैकः कृष्णादिवर्णान्यतमो वर्णोऽस्येति एकवर्णः, एवम् एकगन्धः-सुग-धीतरान्यतरगन्धान्वितः, 'एगे' इत्येकार स्यालक्षणिकत्वात्, तथा दो चाविरुद्धौ स्निग्धशीताद्यात्मको स्पर्शावस्येति द्विस्पर्शः / चशब्दः स्वगतानन्तभेदीपलक्षकः। क एवंविधः? इत्याह -परमः-तदन्यसूक्ष्मतरासम्भवात् प्रकर्षवान् स चासावणुश्च परमाणुः, उपलक्षणत्वाद्दव्यणुकादिश्व०, स्कन्धैश्वस्कन्धशब्दाभिधेयैः, कैरित्याह-दौ प्रदेशाधारम्भकावस्येति द्विप्रदेशोयणुकः, स आदिर्येषां त्रिप्रदेशादीनामचित्तमहारकन्धपर्यन्तानां ते तथा तैः-चशब्दात्परमाण्वन्तरैर्वर्णान्तरादिभिश्व, संयुज्यमान इति गम्यते। विज्ञेयः विशेषेणसंख्यातासंख्यातानन्तभङ्गवि