________________ संजय 103 - अभिधानराजेन्द्रः - भाग 7 संजय तत्त्वः सन् ज्ञात एव ज्ञातकः-जगत्प्रतीतः क्षत्रियो वा, स चेह प्रस्तावान्महावीर एव, परिनिवृतः कषायानलविध्यापनात्समन्ताच्छीतीभूतो विद्याचरणाभ्यामर्थात् क्षायिकज्ञानचारित्राभ्यां सम्पन्नो युक्तो विद्याचरणसम्पन्नोऽतएव सत्यः सत्यवाक्, तथा सत्यः-अयितथस्तात्त्विकत्वेन परेभावशत्रवस्तेषामाक्रमणम आक्रमः-अभिभवो यस्याऽसौ सत्यपराक्रम इति सूत्रार्थः। तेषां च फलमाहपडंति नरए घोरे, जे नरा पावकारिणो। दिव्यं च गई गच्छंति, चरित्ता धम्ममारियं / / 25!! पतन्ति गच्छन्ति नरके-सीमन्तकादौ घोरे-नित्यान्धकारादिना भयानके ये नराः उपलक्षणत्वात्स्त्र्यादयो वा पातयति नरकादिषु जन्तुमिति पापः तच्च हिंसाद्यनेकधा, इह त्वसत्प्ररूपणैव, तत्कर्तुम्अनुष्ठातुं शीलमेषामिति पापकारिणः / ये त्वेवंविधा न भवन्ति ते किमित्याह-दिव्या च गतिं देवलोकगति, चशब्दः पुनरर्थे, स च पूर्वेभ्यो विशेषद्योतकः, गच्छन्ति-यान्ति चरित्वा-आसेव्य धर्मः-श्रुतधर्मादिः अनेकविधः, इह च सन्यप्ररूपणारूपःश्रुतधर्म एव तम्, आर्य-प्राग्वत्. सदयमभिप्रायः असत्परूपणापरिहारेण सत्प्ररूपणापरेणेव च भवता भवितव्यम् इनि सूत्रार्थः। कथं पुनरमी पापकारिण इत्याहमायावुइयमेयं तु, मुसाभासा निरत्थिया। संजममाणोऽवि अहं, दसामि इरियामि य / / 26 / / मायया-शाठ्यन 'बुइय' ति उक्तं मायोक्तम् एतत्-यदनन्तरं क्रियादिवाटिभिरुक्त, तुः एवकारार्थो भिन्नक्रमश्च मायोक्तमेव, यतश्च तत-मृषा-अलीका भाषाः-उक्तिः निरर्थकासम्यगभिधेयशून्या, तत एव च 'सजनमाणोऽवि त्ति अपिः एवकारार्थस्ततः संयच्छन्नेवउपरमन्नेव तदुक्त्वाकर्णनादितः, अहम् इत्यात्म-निर्देशे विशेषतः तस्थिरीकरणार्थम्, उक्तं हि- "टियतो टावरं परं" ति, वसामि-तिष्ठामि उपाश्रय इति शेषः, 'इरियामि य' त्ति ईरे च-गच्छामि च गोचरचर्यादिष्विति सूत्रार्थः। इदमपि सूत्रं प्रायो न दृश्यते / कुतःपुनस्त्वं तदुक्त्याकर्णनादिभ्यः संयच्छसीत्याह अनन्तरसूत्राभावे च यदुक्तं चतुर्भिः स्थानैर्मे यज्ञाः किं प्रभाषन्ते इति तत्कुत इत्याहसव्वे ते विइया मज्झं, मिच्छादिट्ठी अणारिया। विजमाणे परे लोए, सम्मं जाणामि अप्पगं // 27 / / सर्वे -निरवशेषाः ते क्रियादिवादिनः विदिताः-ज्ञाता मम, यथा-ऽमी, 'मिच्छादिहि' ति मिथ्या-विपरीता परलोकात्माद्यपलापित्वेन दृष्टिःबुद्धिरेषानिति मिथ्यादृष्टयः तत एव, अनार्या-अनार्यकर्मप्रवृत्ताः, कथं पुनस्त एवंविधास्ते विदिता इत्याह-विद्यमाने सति परलोके- अन्यजन्मनि सम्यग् अविपरीतं जानामि-अवगच्छामि 'अप्पगं' ति आत्मानं, ततः परलोकात्मनः सम्यग्वेदनात् ममैवविधत्वेन विदितास्ततोऽहं तदुक्त्याकानादितः संयच्छामि किं प्रभाषकाश्चैत इति सूत्रार्थः / कथ पुनस्त्वमात्मानमन्यजन्मनि जानासीत्याहअहमासी महापाणे, जुइमं वरिससओवमे / जा सा पाली महापाली, दिव्वा वरिससओवमा।।२८।। से चुए बंभलोगाओ, माणुस्सं भवमागए। अप्पणो य परेसिंच, आउं जाणे जहा तहा॥२६।। 'अहमासि' त्ति अहमभूवं महाप्राणे-महाप्राणनाम्नि ब्रह्मलोकवि-माने द्युतिमान्-दीप्तिमान् वरिसतोवमे' त्ति वर्षशतजीविना उपमा-दृष्टान्तो यस्याऽसौ वर्षशतोपमो' मयूरव्यंसकादित्वात्स-मासः, ततोऽयमर्थयथेह वर्षशतजीवी इदानी परिपूर्णायुरुच्यते, एवमहमपि तत्र परिपूर्णायुरभूवम्। तथाहि-या सा पालिरिव पालिः-जीवितजलधारणाद्भवस्थितः, सा चोत्तरत्र महाशब्दोपादानादिह पल्योषमप्रमाणा, महापाली सागरोपमप्रमाणा, तस्या एव महत्त्वात्, दिवि भवा दिव्या वर्षशतेनोपमा यस्याः सा वर्षशतोपमा, यथाहि-वर्षशतमिह परमायुः तथा तत्र महापाली उत्कृष्टतोऽपि हि तत्र सागरोपमैरेवायुरुपनीयते, न तूत्सर्पिण्यादिभिः, अथवा- "योजनं विस्तृतः पल्यस्तथा योजनमुच्छ्रितः। सप्तरात्रप्ररूढानां, केशाग्राणां स पूरितः / / 1 / / ततो वर्षशते पूर्णे, एकैकं केशमुद्धरेत्। क्षीयते येन कालेन, तत्पल्योपममुच्यते॥२॥" / इति वचनाद्वर्षशतैः केशोद्धारहेतुभिरुपमा अर्थात् पल्यविषयः यस्याः सा वर्षशतोपमा, द्विविधाऽपि स्थितिः, सागरोपमस्याऽपि पल्योपमनिष्पाद्यत्वात्, तत्र मम महापाली दिव्या भवस्थितिरासीदित्युपस्कारः / अतश्चाहं वर्षशतोपमायुरभूवमिति भावः। 'से' इति-अथ स्थितिपरिपालनादनन्तरं च्युतः भ्रष्टः ब्रह्मलोकात्-पञ्चमकल्पात् मानुष्यं - मानुष्यसम्बन्धिन भव-जन्म आगतः-आयातः। इत्थमात्मनो जातिस्मरणलक्षणमतिशयमाख्यायाति-शयान्तरमाह-आत्मनश्च परेषां वा आयुःजीवितं जाने-अव-बुध्ये यथा-येन प्रकारेण स्थितमिति गम्यते तथातेनैव प्रकारेण न त्वन्यथेत्यभिप्रायः, इति सूत्रद्वयार्थः / इत्थ प्रसङ्गतः परितोषतश्चापृष्टमपि स्ववृत्तान्तमावेद्योपदे ष्टुमाहनाणारुईच छंदं च, परिवजिज्ज संजओ। अणट्ठा जे अ सव्वत्था, इह विज्जामणुसंचरे // 30 // नानेति-अनेकधा रुचिं च-प्रक्रमात्क्रियावाद्यादिमतविषयमभिलाषं छन्दश्व-स्वमतिकल्पितमभिप्रायम्, इहाऽपि नानेति सम्बन्धादनेकविधं परिवर्जयेत्-परित्यजेत् संयतः-यतिः। तथा अनर्थाः-अनर्थहेतवो ये च सर्वार्थाः अशेषहिंसादयो गम्यमानत्वात्तान् वर्जयेदिति सम्बन्धः, यद्वा'सव्वत्थे' त्याकारस्यालाक्षणिकत्वात्सर्वत्र क्षेत्रादावना इति निष्प्रयोजना ये च व्यापारा इति गम्यते, तान् परिवर्जयेत्, इतीत्येवंरूपा विद्यां सम्यगज्ञानरूपामन्विति-लक्षीकृत्य सञ्चरेः त्वसम्यक् संयमाध्वनि यायाः, इति सूत्रार्थः। अन्यचपडिकमामि परिणाणं, परमंतेहि वा पुणो।