________________ हिंडग १२२७-अभिधानराजेन्द्रः - भाग 7 हिंडग मोहतिगिच्छा अकया, विरियारीय अणुजिण्णो / / 248 // एवम्-अन्यग्रामे भिक्षाटनेन उद्गमदोषा:-आधाकर्मादय: 'विजढा' परित्यक्ता भवन्ति। 'पइरिक्कय' त्ति प्रचुरस्य भक्तादेर्लाभो भवति। 'अणोमाणं ति न वा अपमानम्-अनादरकृतं भवति लोके / तथा मोहचिकित्सा च कृता भवति, श्रमाऽऽतपवैयावृत्त्यादिभिर्मोहस्य निग्रहः कृतो भवति-अवकाशो दत्तो न भवतीति। 'विरियायारो य' वीर्याचारश्व अनुचीर्ण:-अनुष्ठितो भवति। अणुकंपायरियाई, दोसा पइरिकजयसंसटुं। पुरिसे काले खमणे, पढमालिय तीसु ठाणेसु // 250 // एवमुक्ते सति चोदक आह-सत्यमाचार्यादयोऽनुकम्पिता भवन्ति किन्तु त एव वृषभाः परित्यक्ता भवन्ति। आचार्योऽप्यनेनैव वाक्येन प्रत्युत्तरं ददाति काक्वा- 'अणुकंपायरिआइ' त्ति एवमाचार्यादीनामनुकम्पा, यत एव परलोके निर्जरा इह लोके प्रशंसा। पुनरप्याह पर:- ‘दोसा' इति भवतु नाम परलोकाऽ (अचार्या) नुकम्पा किन्तु क्षुत्पीडा पिपासापीडा च तदवस्थैव / आचार्याऽप्याह-क्रियत एव प्रथमालिका, किन्तु ? त्रिषु स्थानेषु, कानिचतानि ? अत आह- 'पुरिसे' ति पुरुष:- असहिष्णु:, पुरुषो यद्यसहिष्णुस्तत: करोति, काले-उष्णकालादौ, यधुष्णकालस्तत: करोति, 'खवण' त्ति कदाचित्क्षपको भवति अक्षपको वा यदि क्षपकस्तत: करोति, एवमेतेषु त्रिषु स्थानकेषु प्रथमालिकां करोति / क्व करोति ? आचार्याऽप्यनेनैव वाक्येनोत्तरं ददाति। कथं वा करोति ? अत आह. पतिरिक्के जयण' ति प्रतिरिक्ते एकान्ते यतनया करोति, पुनरप्याह पर:-आचार्यादीनां तेन तद्भक्तं संसृष्टं कृतं भवति, आचार्योsप्यनेनैव वाक्येनेत्तरं ददाति- 'पतिरिकजयणसंसट्ठ' एकान्ते यतनयाऽसंसृष्टं च यथा भवति तथा पढमालिय' ति-मात्रके प्रथममाकृष्य भुक्ते हस्तेन वा द्वितीयहस्ते कृत्या, अकारप्रश्लेष आचार्यवाक्ये द्रष्टव्यः / इदानीमेनामेव गाथां भाष्यकार: प्रतिपदं व्याख्यानयन्नाह-तत्र प्रथमावयवव्याचिख्यासुराहचोयगवयणं अप्पा-णुकंपिओ ते अभे परिचत्ता। आयरियऽणुकंपाय, परलोए इह पसंसणया / / 14 / / चोदकस्य वचनं, किं तद् ? आत्मैवैवमनुकम्पित आचार्येण, ते च भगवता परित्यक्ता भवन्ति। आचार्योऽप्याह-आचार्यानुकम्पया परलोको भवति, इहलोकेच प्रशंसा भवति। 'अणुकंपाऽऽयरियाई' वक्खाणि। इदानीं (भाष्यकार:) 'दोस' त्ति व्याख्यानयन्नाहएवं पि अपरिचत्ता, काले खवणे अ असहुपुरिसे य। कालो गिम्हो उ भवे,खमगो वा पढमबिइएहिं / / 146 || चोदक: पुनरप्याह-एवमपिते परित्यक्ता एव, यत: क्षुधादिना बाध्यन्ते। आचार्योऽप्याह- 'काले' त्ति काले उष्णकाले करोति 'खवण' त्ति क्षपको यदि भवति तत: स करोति प्रथमालिकाम् असहिष्णुश्च पुरुषो यदि भवति तत: स करोति प्रथमालिकाम्, तत्र कालो-ग्रीष्मो यदि भवेत्ः पुरुषः क्षपको यदि भवेत् 'पढमविइएहिं' ति अत्र पुन: केन कारणेनासहिष्णु भवति? 'पढमे त्ति प्रथमपरीषहेण बाध्यमान: क्षुधित इत्यर्थ: / द्वितीयपरीषहेण तृषा बाध्यमान:-पिपासया पीड्यमानोऽसहिष्णुर्भवति। अत्राऽऽह पर:(भा०) जइ एवं संसहूं, अप्पत्ते दोसिणाइणं गहणं। लंबणमिक्खा दुविहा, जहण्णमुक्कोस तिअपणए।। 150 / / यद्येवमसौ बाह्यत एव प्रथमालिकांकरोति ततो भक्तं संसृष्टं कृतं भवति। आचार्योऽप्याह 'अप्पते दोसिणादिणं गहणं' अप्राप्तायामेव भिक्षावेलायां पर्युषितान्नग्रहणं कृत्वा प्रथमालयति। कियत्प्रमाणां पुन: प्रथमालिकां करोत्यसौ ? द्विविधा प्रथमालिका भवति- 'लंबणभिक्खा दुविहा' लम्बनै:-कवलैमिक्षाभिश्च द्विविधा प्रथमालिका भवति। इदानीं जघन्योतृकृष्टत:, प्रमाणप्रतिपादनायाह- 'जहन्नमुक्कोस तिअपणए' यथासंख्येन जघन्यतस्त्रयः कवलास्तिस्स्रो वा भिक्षा:, उत्कृष्टत: पञ्च कवला: पञ्च वा भिक्षाः। इदानीं तेन सङ्घाटकेन किं वस्तु केषु पात्रकेषु गृह्यते ? का वा प्रथमालिकाकरणे यतना क्रियते? एतत्प्रतिपादयन्नाहएगत्थ होइ भत्तं, बिइअम्मि पडिग्गहे दवं होइ। पाउग्गायरियाई, मत्ते बिइए उसंसत्तं // 351 // एकस्मिन् पात्रके भक्तं गलाति, द्वितीय च एतद्हे द्रवं भवति। तथा 'पाउग्गायरियाई मत्ते' त्ति प्रायोग्यमाचार्यादीनामेकस्मिन् मात्रके भक्तं गृह्यते। 'बितिए उसंसतं' द्वितीये तुमात्रके संसृष्टं किञ्चित्पानकं गृह्यते। जइ रित्तो तो दवम-त्तगम्मि पढमालियाए करणं तु / संसत्तगहण दवहु-लहे य तत्थेव जं पत्तं // 352 / / यदि रिक्तः संसक्तद्रवमात्रकस्ततस्तस्मिन् प्रथमालिकायाः करणं, 'संसत्तगहणं' तिअथ तस्मिन् द्रवमात्रके संसक्तद्रवग्रहणं कृतं ततस्तत्रैव पात्रके यत्प्रान्तं तद्भुङ्क्ते। 'दवदुल्लभेय' त्ति अथ दुर्लभं (द्रवं) पानकं तत्र क्षेत्रे ततश्च तत्रापि संसक्तमात्रके पानकाक्षणिके सति 'तत्थेव' तितस्मिन्नेव भक्तपतद्ग्रहे यत्प्रान्तं तद्धस्तेनाकृष्यान्यस्मिन् हस्ते कृत्वा समुद्दिशति। एवं चासौ संघाटक: प्रथमालिकां करोतिअंतरपल्लीगहि पढमागहियं व सव्व मुंजेजा। धुवलंभसंखडीय व, जंगहिअंदोसिणं वावि / / 253 / / अन्तरपल्ली-तस्माद् ग्रामात्परतो योऽन्य आसन्नग्रामस्तत्र यद् गृहीतं तद्भुङ्क्ते, पुनस्तत्तत्र क्षेत्रातिक्रान्तत्वादभोज्यं भवति। 'पढमागहिअं व' तिप्रथमायां वा यौरुष्यां यद् गृहीतं तत्सर्वभुते, तृतीयपौरुष्यामकल्प्य यतस्तद्भवति। 'धुवलंभ संखडीयं व' ध्रुवो वा-अवश्यं भावीअत्र संखड्या लाभो भविष्यतीतिमत्वा, ततश्च यद् गृहीतं 'दोषिणं वावि' पर्युषितमन्नं तत्सर्व भुड्.क्ते। दरहिंडिए व भाणं, भरि, भोचा पुणो वि हिंडिज्जा। कालो वाऽइक्कमई, मुंजेज्जा अंतरं सव्वं // 24 // अर्द्धहिण्डिते वा यत्पात्रकं गृहीतं तद्भुतं, ततश्च तद्