________________ हिंडग १२२८-अभिधानराजेन्द्रः - भाग 7 हिंसा कत्वा पुनरपि हिण्डेत। 'कालो वाऽतिक्कमति' त्तिं भाजनकालो वा प्रव्रजितानामतिक्रामति यावदसौ तद्भक्तं गृहीत्वा व्रजन्ति ततश्चान्तराल एव सर्व भुतवा प्रविशति। ओघ०। अनु० / आ० म०। हिण्डकत्वेन हिण्डकः। जीवे, भ०२० श०२ उ०। हिंडन्त त्रि० (हिण्डमान) इतस्तत: पर्यटति, बृ०२ उ०२ प्रक०। हिंडमाण त्रि०(हिण्डमान) अधिगच्छति, प्रश्न०१ आश्र० द्वार / हिंडिऊण अव्य० (हिण्डित्वा) अटित्वेत्यर्थे, पं० व०२ द्वार। हिंडिय त्रि० (हिण्डित) विहृले, ज्ञा० श्रु०६ अ०। हिंडुपुं० (हिन्दु)सिन्धुनदोपलक्षितदेशवासिनि मनुष्ये, सचदेश: पश्चिमायाम् आ सिन्धुनदात्प्राच्याम् आब्रह्मपुत्रनदात् उत्तरस्याम् आ हिमालयादक्षिणश्रेणेर्दक्षिणस्याम् आ समुदात्, सिन्धुरिति संस्कृतशब्द: / सिन्धो: पाश्चात्यात् आ ऐरावतपारसीकयवनैर्लेच्छैः स्वदेशोचारणशैल्या हिन्दुरिति व्यवहारतो जनपदपरोऽपि तात्स्थ्यादार्य मनुष्यपरोऽजायत क्रमादेतद्देशप्रसिद्धवेदमूलकलोकागमानुसारिष्वपि बोधको जातः। ती० 20 कल्प। नि० चू०। हिंडोल (देशी) क्षेत्ररक्षणयन्त्रे, दे० ना० 8 वर्ग 66 गाथा। हिंडोलय (देशी) क्षेत्रे मृगनिषेधरवे, दे० ना० 8 वर्ग 66 गाथा। हिंविअ (देशी) एकपद्गमनक्रीडने, दे० ना० 8 वर्ग 68 गाथा। हिंस त्रि०(हिंस्त्र) हिनस्तीत्येवं शीलो हिस्स्रः / स्वभावत: प्राणव्यपरोप णकृति, उत्त० पाई०७ अ०। हिंसनशीले, उत्त०७ अ०। स्था०। हिंसग त्रि० (हिंसक) जीवहिंसाकरणशीले, उत्त०१२ अ० / स्था०। हिंसप्पयाण न० (हिंसाप्रदान) हिंसाहेतुत्वादयुधानलविषादयो हिंसोच्यते, कारणे कार्योपचारात्, तेषां प्रदानमन्यस्मै क्रोधाऽभिभूताय अनभिभूताय वा। आव०६अ० / हिंस्नं हिंसाकारि शस्त्रादि, तत्प्रदानं परेषां समर्पणम्। उपा०१ अ० हिंसनशीलानि हिंस्रकाणि, हिंसोपकरणानि-आयुधानलविषादयस्तेषां प्रदानम्-अर्पणम्।अनर्थदण्डभेदे, ध० 2 अधि। हिंसप्पेहि (ण) पुं० (हिंसाप्रेक्षिन) हिंसां-बधंसाध्वादे: प्रेक्षतेगवेषयतीति हिंसाप्रेक्षी। साध्वादिबधके पाराञ्चिताहे, स्था०५ ठा०१ उ०।। हिंसविहींसास्त्री० (हिंस्रविहिंसा) गौणहिंसायाम्, प्रश्न०१आश्र० द्वार (अस्या व्याख्या 'पाणवह' शब्दे पञ्चमभागे 833 पृष्ठे गता।) हिंसा स्त्री० (हिंसा) हिंसनं हिंसा, हिंसि हिंसायामित्यस्य "इदितो नुम् धातो" रिति नुमि कृते स्त्र्यधिकारे टाप् / दश० 1 अ०। प्राण्युपमर्दै, सूत्र०२ श्रु०२ अ० / सावबधे, विशे० / व्यापादने, उत्त०५ अ०। प्राणवियोगप्रयोजके व्यापारे, द्वा० 21 द्वा०। सूत्र०। प्रमादानाभोगाभ्यां व्यापादने, दश०४ अ०जीवबधे, कर्म०१ कर्म०। प्रश्र० / प्रमत्ततद्योगात्प्राणिव्यपरोपणे, सावानां वधबन्धनादिभिः प्रकारैः पीडायाम्, स्था० 4 ठा०१उ०।सा आ०म० आ० चू०। “पञ्चेन्द्रियाणि त्रिविधं बलंच, उच्छवासनि: श्वासमथान्यदायुः / प्राणा दशैते भगवद्भिरुक्तास्तेषा वियोजीकरणं तु हिंसा // 1 // " आचा० 1 श्रु० 5 अ० 5 उ०। विशे०। आव० / स्था०। अधुना मीमांसकभेदाभिमतं वेदविहितहिंसाया धर्महेतुत्वमुपपत्तिपुरस्सरं निरस्यन्नाहन धर्महेतुर्विहिताऽपि हिंसा, नोत्सृष्टमन्यार्थमपोद्यते च / स्वपुत्रघाताद् नृपतित्वलिप्सा- . सब्रह्मचारिस्फुरितं परेषाम् // 11 // इह खल्वर्चिर्गिप्रतिपक्षधूममार्गाश्चिता जैमिनीया इत्थमाचक्षते-या हिंसा गााद्, व्यसनितया वा क्रियते, सैवाऽधर्मानुबन्धहेतुः, प्रमादसंपादितत्वात्, शौनिकलुब्धकादीनामिव / वेदविहिता तु हिंसा प्रत्युत धर्महेतु:, देवताऽतिथिपितृणा प्रीतिसंपादकत्वात्, तथाविध-पूजोपचारवत्। न च तत्प्रीतिसम्पादकत्वमसिद्धम्, कारीरीप्रभृतियज्ञानां स्वसाध्ये वृष्ट्यादिफलेय:खल्वव्यभिचारः,सतत्प्रीणितदेवताविशेषानुग्रहहेतुकः / एवं त्रिपुरार्णववर्णितच्छगलजाङ्गलहोमात्परराष्ट्रवशीकृतिरपि तद्नुकूलितदैवतप्रसादसंपादा। अतिथिप्रीतिस्तुमधुपर्कसंस्काराऽऽदिसमास्वादजा प्रत्यक्षोपलक्ष्यैव / पितॄणामपि तत्तदुपयाचितश्राद्धाऽऽदिविधानेन प्राणिताऽऽत्मनां स्वसन्तानवृद्धिविधानं साक्षादेव वीक्ष्यते। आगमश्चात्र प्रमाणम् सच देवप्रीत्यर्थमश्वमेधगोमेधनरमेधाऽऽदिविधानाभिधायक: प्रतीत एव। अतिथिविषयस्तु- “महोत्तं वा महाजंवा श्रोत्रियाय प्रकल्पयेत्" इत्यादिः / पितृप्रीत्यर्थस्तु-“द्वौ मासौ मात्स्यमांसेन, त्रीनू मासान् हारिणेन तु औरभ्रेणाथ चतुरः, शाकुनेनेह पञ्चतु"।।१॥ इत्यादि: एवं पराभिप्राय हृदि संप्रधार्याऽऽचार्य: प्रतिविधत्ते 'नधर्मे त्यादि, विहीताऽपि-वेदप्रतिपादिताऽपि, आस्तां तावदविहिता, हिंसा प्राणिप्राणव्यपरोपणरूपा, न धर्महेतु:-न धर्मानुबन्धनिबन्धनम्। यतोऽत्र प्रकट एव स्ववचनविरोधः / तथाहि-हिंसा चेद्धर्महेतुः कथम् 'धर्महेतुश्चेद्-हिंसा कथम्? "श्रूयतांधर्मसर्वस्वं, श्रुत्वा चैवावधार्यताम्" इत्यादिः / न हि भवति माता च, वन्ध्या चेति। हिंसा कारणं धर्मस्तु तत्कार्यमिति पराभिप्राय:, नचायं निरपाय:, यतो-यद्यस्यान्वयव्यतिरेकावनुविधत्ते तत् तस्य कार्यम्, यथा मृत्पिण्डादेर्घटादिः / न च धर्मो हिंसात एव भवतीति प्रातीतिकम्, तपोविधानदानध्यानादीनां तदकारणत्वप्रसङ्गात् / अथ न वयं सामान्येन हिंसांधर्महेतुं ब्रूम:, किन्तु विशिष्टामेव; विशिष्टा च सैव-या वेदविहिाता इति चेत्-ननु तस्या धर्महेतुत्वं किं वध्यजीवानां मरणाऽभावेन, मरणेऽपितेषामार्तध्यानाऽभावात्, सुगतिलाभेन वा? नाद्य: पक्ष:-प्राणत्यागस्य तेषांसाक्षादवेक्ष्यमा