________________ हिंडग 1226 - अभिधानराजेन्द्रः - भाग 7 हिंडग तस्मादाचार्यमापृच्छ्य गन्तव्यम् अथाचार्य: कथञ्चिन्न भवति 'तस्संदिढे व' त्ति तेनाचार्येण य: संदिष्ट: यथाऽमुमापृच्छय गन्तव्यं ततस्तमापृच्छ्य व्रजन्ति। तस्मिन्नसति-आचार्य अविद्यमाने कचिन्निर्गते, केन पुन: कारणेनचार्यो निर्गच्छति? अत आह-'चेइय' चैत्यवन्दनार्थ ग्लानादिकार्येषु गुरोनिर्गमनं भवति। अथाचार्येण गच्छता न कश्चिन्नियुक्तस्तत:? भण्णइ पुव्वनिउत्ते, आपुच्छित्ता वयति ते समणा। अणभोगे आसन्ने, काइयउच्चारभोमाई / / 241 // अभणिते पूर्वनियुक्तान्- कस्मिंश्चिद्भिक्षावेलायां य: प्रागेव नियुक्त आस्ते तमापृच्छय व्रजन्ति ते श्रमणा भिक्षार्थम् 'अणाभोग' त्ति अनाभोगेन-अत्यन्तस्मृतिभ्रंशेन गता: तत: 'आसन्ने' त्ति आसन्ने भूमिप्रदेशे यदि स्मृततत आगत्य पुन: कथयित्वा यान्ति, 'काइय' त्ति कायिकार्थ यो निर्गत: साधुस्तस्मै कथयन्ति, यदुत वयममुकत्र गताः / 'उच्चारभोमादि' त्ति संज्ञाभूमिं यो गतस्तस्मै कथयन्ति, यदुत कथनीयमहममुकत्र गत इति। आदिग्रहणात्प्रथमानिकार्थ वा यो गतस्तस्य वा हस्ते संदिशन्ति। दवमाइनिग्गयं वा, सेजायर पाहुणं च अप्पाहे / असई दूरगओ वि अ, नियत्त इहरा उ ते दोसा // 212 // द्रवं-पानकंतदर्थ निर्गतोय: साधुस्तं दृष्ट्वा कथयन्ति, 'सेजायर पाहुणं च अप्पाहे' त्ति शय्यातर वा दृष्ट्वा संदिशन्ति प्राघूर्णकं वा साध्वादि दृष्ट्वा संदिशन्ति, यत: कथनीयं मम विस्मृतमिति। यदा त्वेतान् गच्छन्न पश्यति तदा दूरगत: 'वि अणियत्तइ' ति दूरगत: सन्निवर्तत, 'इंहरा उ' त्ति यदि न निर्वत्तते तत: 'ते दोस' त्ति ते पूर्वोक्ता: स्तेनादयो दोषाः भवन्तीति / अण्णं गामं च वए, इमाई कजाई तत्थ नाऊणं / तत्थ वि अप्पाहणया, नियत्तई वा सई काले // 253 / / अथासौ साधुस्तस्माद्यामादन्यं ग्राम: व्रजेत्, एतानि कार्याणिवक्ष्यमाणलक्षणाणि, कानि ? 'दूरट्टिअखुड्डलए' इत्येवमादीनि 'तत्रे' ति तस्मिन् ग्रामे योऽसावभिप्रेतो ज्ञात्वा-विज्ञाय, ततश्च किं कर्तव्यमित्यत आह-तत्रापि अन्यस्मिन्ग्रामे व्रजता 'अप्पाहणया' संदेशकस्त थैव दातव्यः / अथ किश्चन्नास्ति यस्य हस्ते संदिश्यते ततो निवर्त्तनं वा क्रियते। कदा ? अत आह-सति काले विद्यमाने 'पहुप्पंति' काले तत्तदनुष्ठीयते। यदुक्तम्, एतानि कार्याणि तत्र ज्ञात्वाऽन्यत्र ग्रामे व्रजन्ति। तानि दर्शयन्नाहदूरहिअखुडलए, नव भड अगणीय पंत पडिणीए। पाओग्गकालइकम, एकगलंभो अपजत्तं // 20 // प्रथम गाथाई सुगमम् / एतानि दूरस्थितादीनि कारणानि अर्द्धपथ एव ज्ञातानि, कदाचिद्गत:सन्तत्र पाउग्ग' त्ति तत्रग्रामे प्रायोग्यमाचार्यादीनां नलब्धं ततोऽन्यत्र व्रजति, 'कालातिक्कम' त्ति भिक्षाकालस्य वाऽतिक्रमो | जात:, एकस्य वा साधोस्तत्र भोजनलाभो जातस्ततोऽन्यग्रामे व्रजन्ति. (अत्र ग्राम्यकृतएकत्वं बहुत्वं चसाधुसंघाटकपरत्वेनोक्तम्) / 'अपज्जत्तं' तिनवा पर्याप्त्या तत्र भक्तजातंलब्ध, पानकंवानलब्धम्, एभिरनन्तरोक्तै: कारणैन्यग्रामं व्रजन्तीति। उपाउग्गाईणमसइ, संविग्गं सण्णिमाइ अप्पाहे। ...जइ य चिरं तो इयरे, ठवित्तु साहारणं मुंजे // 245 / / एवमसौ प्रायोग्यादीनाम् असति अन्यग्रामं व्रजति, व्रजंश्च संविग्नं-साधु यदि पश्यति ततस्तस्य हस्ते संदिशति, सङ्घी-श्रावकस्तस्य हस्ते संदिशत्यन्यस्य वा आदिग्रहणात्-पूर्ववच्छेषम्। एवं तावद्भिक्षामटतां विधिरुक्तः। ये पुनर्वसतौ तिष्ठन्ति। साधवस्तै: किं कर्त्तव्यमित्यत आह'जइ य चिरं' यदि च चिरं तेषां ग्रामंगतानां तत इतर वसतिनिवासिन: साधवः 'ठवेत्तु साहारणं' यद्गच्छसाधारणं विशिष्टं किञ्चित्तत्स्थापयित्वा शेषमपरं प्रान्तप्रायं भुञ्जते। अथ तथाऽपि चिरयन्तिजाएँ दिसाए उ गया, भत्तं घेत्तुं तओ पडियरंति। अणपुच्छनिग्गयाणं, चउहिसं होइ पडिलेहा / / 256 // 'जाए दिसाए उगया' यया दिशा भिक्षाटनार्थ गतास्तया दिशा गृहीतभक्तपानका: साधवः 'पडियरंति' त्ति प्रतिजागरणां-निरूपणां कुर्वन्ति। अथ तु ते भिक्षाटका अनाभोगेनाकथयित्वैव गतास्तत: किं कर्तव्यमित्यत आह अनापृछ्य निर्गतानां भिक्षाहिण्डकानां चतसृष्वपि दिक्षु प्रतिजागरणं-निरूपणं कर्तव्य साधुभिः / प्रतिजागरणगमनविधि: क:? पंथेणेगो दो उ-प्पहेण सह करेंति वच्चंता। अक्खरपडिसाडणया, पडियरणिअरेसिमग्गेणं // 247 // पथा-मार्गेण प्रसिद्धेन एकः साधु: प्रश्नयति, द्वौ साधूउत्पथेन-उन्मार्गेण व्रजत:, वर्त्तन्या एक एकया दिशाऽन्यश्चान्यया। ते च त्रयोऽपि व्रजन्त: शब्दं कुर्वन्ति।तेच व्रजन्त: स्तेनादिना नीयमाना: साधवः किं कुर्वन्तीत्यत आह. 'अक्खर' त्ति वर्तिन्यामक्षराणि लिखन्तः पादादिना व्रजन्ति, 'परिसाडणय' त्ति परिशातनं वस्त्रादे: कुर्वन्तो व्रजन्ति येन कश्चित्तेन मार्गेणान्वेषयन्ति। 'पडिअरणियरेसिं' ति इतरेषामन्वेषणार्थ निर्गतानां साधूनां मार्गेण तत्कृतेन चिडून प्रतिजागरणं कर्त्तव्यम्। गामे गंतुं पुच्छे, घरपरिवाडीऍ जत्थ उन दिहा। तत्थेव बोलकरणं, पिडियजणसाहणं चेव / / 248 // यदा तु पुनस्तेषां स्तेननीतानां चिहन किञ्चित्पश्यति तदाऽपि ग्राममेव गत्वा पृच्छति, कथं ? गृहपरिपाट्या, 'जत्थ उ ण दिट्ठ' त्ति यत्र न दृष्टास्तस्मिन् ग्रामे, न च तद्ग्रामनिर्गतानां वार्ता, तत्रैव 'बोलकरणं' बोलं कुर्वन्ति, पश्चाच्च 'पिंडितजणसाहणं' पिण्डितो-मिलितो यो जनस्तस्य कथयन्ति, यदुत अस्मिन् ग्रामे प्रव्रजिता भिक्षार्थं प्रविष्टा: न च तेषां पुनरस्मात् ग्रामाद्वार्ता श्रुतेति। एवं तैस्तरुणैरेतदेव च कृतं भवति अन्यग्रामेऽटद्भिःएवं उग्गमदोसा, विजढा पहरिकया अणोमाणं /