________________ हिंडग 1225 - अभिधानराजेन्द्रः - भाग 7 हिंडग प्रकारेण भवति दृष्टान्त: ।एवं तावद्यदि गृहस्था अपि सञ्चयपरा भवन्तिअनागतमेव चिन्तयन्ति, साधुना पुन: कुक्षिशम्बलेन सुतरामनागतमेव चिन्तनीयं, यदि परं लोकोत्तरेऽयं विशेष:, युदत नि:सञ्चया सुतरां चिन्तामाचार्या वहन्तीति। "पुच्छा दिटुंतऽगारि" त्ति भणिअं। इदानीं "पुच्छा गिहिणो चिंत"त्ति गाथायाः प्रथमावयव (भाष्यकार:) व्याख्यानयन्नाह जणलावो परगामे, हिंडन्ताऽऽणेति वसइ इह गामे। दिजइ बालाईणं, कारणजाए य सुलभं तु॥१०॥ यश्चोदकेन पृष्ठमासीत्तत्रेदमुत्तरं-जनानामालापो जनाऽऽलापो लोक एवं ब्रवीति, यदुत परग्रामे हिण्डयित्वाऽऽनयन्ति अत्र भुञ्जते। वसहि इह गामे' ति वसति: केवलमत्र एतेषां साधूनाम् / ततश्च 'देज्जइ' बालादीनां ददध्वम्, आदिशब्दात्प्राघूर्णकादयो गृह्यन्ते, एवंविधां चिन्तां गृहस्थ: करोति। ततश्च 'कारणजाते य सुलभं तु' त्ति एवंविधायां चिन्तायां प्राघूर्णकादिकारणे उत्पन्ने घृतादि सुलभं भवतीति। (भाष्यकार:) आह-किं पुन: कारणं प्राघूर्णकानां दीयते ? तथा चायमपरौ गुण:पाहुणविसेसदाणे, निजर कित्ती अइहर विवरीयं / पुव्वं चमढणसिग्गा, न देंति संतं पिकज्जेसु // 141 // प्राधूर्णकाय विशेषदाने सति निर्जरा-कर्मक्षयो भवति, इहलोके च कीर्तिश्च भवति। 'इहर विवरीय' ति यदि प्राघूर्णकविशेषदानं न क्रियते ततश्च निर्जराकीर्तीन भवत: / एवं प्राघूर्णकविशेषदानं न भवति यस्मात्पूर्व 'चमढणसिग्गा' ततश्च न देंति संतं पि कज्जेसु गिहिणो चिंत' त्ति वक्खाणि। इदानीं (भाष्यकार:) कुब्जबदरीदृष्टान्तं व्याख्यानन्नाहगामब्भासे बयरी, नीसंदकडुप्फला य खुज्जाय। पक्कामालसडिंभा, घायंति घरे गया दूरं / / 142 // एगो गामो तत्थ खुज्जबोरी, सा य नाम निज्जासेण कडुया। तत्थ चेडरूवाणि भणंति-वजामो बोराणि खामा / तत्थ खुज्जबोरीविलग्गाई ताइंडिंभरुवाणि तूवराईणि विखायंति, नयपज्जत्तीए होइ। अण्णाणि भणंति-किं एएहि, ताहे अडविं गतया तत्थ बोराणि धरणीए खाइऊण बहूणि पोट्टलगा बंधिऊण आगया सिग्यतरंजावइमे झाडेंताचेव अच्छंति न तत्तिया जाया।ताहेते तेसिं अन्नेसिंचदेति। एवं चेव इमं खेत्तं चमढिअं, एत्थ अंबिलकूरो घेत्तूणं चेव आगच्छंति दिवसं च हिंडेयव्वं एवं किलेसो अप्पगंच भत्तं होति। जहा ते अणालसर्चडा (तहा जे तरुणा) आयपरहिआवहा ते बाहिरगामभिक्खायरिअंजंति, ताहे ते अचमढिअगामाओ खीरं दहि माइयाई घेत्तूण लहुं आगया उग्गमदोसाई य जढा होति, बालवुड्डा य अणुकंपिया होंति, वीरियायारो य अणुचिन्नो होइ तम्हा गंतव्वं बाहिरगामे हिंडएहिं तरुणएहिं। इदानीममुमेवार्थ (भाष्यकार:) गाथाभिरुपसंहारन्नाहगामन्भासे बयरी, नीसंदकडुप्फला य खुज्जा य। पक्कामालसडिंभा, खायंतियरे गया दूरं / / 143 / / सिग्घयरं आगमणं, तेसिण्णेसिं च देंति सयमेव / खायंती एमेव उ, आयपरहिआवहा तरुणा / / 144 / / खीरदहिमाझ्याणं,लंभो सिग्घतरगं च आगमणं। पइरिक उणमाई, विजढा अणुकंपिआ इयरे / / 145 // ग्रामभ्यासे बदरी सा च निस्स्वादुकटुकफला कुब्जा च / सा चफलिता, तत्र च फलानि 'पक्काम' त्ति तानि च फलानि पक्वानि आमानि च पक्वामानि-अर्द्धपक्वानीत्यर्थः, ये अलसा डिम्भास्ते भक्षयन्ति। 'इयर' त्ति अनलसा; उत्साहवन्तो डिम्भास्ते दूरं गताः / तेषां च शीव्रतरमागमनं संजातं, ततश्च बाह्यत आगत्य 'तेसिं अण्णेसिंच दिति' तेषामलसशिशूनामन्येषां च ददति, स्वयमेव च भक्षयन्ति। एवमेव तरुणा अपि आत्मपरयोर्हितमावहन्तीति आत्मपरहितावहास्तरुणा: एवं तरुणानां क्षीरदध्यादीनांलम्भः शीघ्रतरं चागमनम्। 'पइरिक्के' तिप्रचुरतरं लभन्ते, उद्गमादयश्च दोषा: परित्यक्ता भवन्ति तथाऽनुकम्पिताश्चेतरे बालादयो भवन्तीति उक्त: कुजबदरीदृष्टान्तः / इदानीम् "आपुच्छिऊण गमणं" ति (भाष्यकार:) व्याख्यानयन्नाहआपुच्छिअ उग्गाहिअ, अण्णं गामं वयं तु वचामो। अण्णं च अपज्जत्ते, हॉति अपुच्छे इमे दोसा || 146 / / आपृच्छ्य गुरुमुद्ग्राहितपात्रका एवं भणन्ति, यदुत अन्यं ग्रामं वयं व्रजाम:, 'अण्णं च अपज्यत्ते' त्ति यदितस्मिन् ग्रामे पर्याप्त्यान भविष्यति ततस्तस्मादपि अन्य ग्रामं गमिष्यामः / “आपुच्छिऊण गमणं" त्ति भणियं, इदाणिं "दोसा य इमे अणापुच्छि" ति व्याख्यानयन्नाह, दोषा एतेऽनापृच्छयगतानां भवन्ति। के च ते दोषा:? (भाष्यकारस्तान्) व्याख्यानयन्नाहतेणाएसगिलाणे, सावय इत्थी नपुंसमुच्छाय। आयरिअबालबुड्ढा, सेहाखमगा परिचता // 147 // कदाचिदन्यनामान्तराले व्रजतां स्तेना भवन्ति, ततश्च तद्ग्रहणे (तत्र गमने।) उपधिशरीरापहरणं भवति; आचार्योऽप्यकथितो न जानाति कया दिशागता? इति, ततश्च दुःखेनान्वेषणं करोति। अथवा-आदेश:प्राघूर्णक आयातः, ते चानापृच्छय गताः, ते ये आयरिया एवं भयंता जहा पाहुणयस्स वट्टविह, अहवा गिलाणस्स पाउरगं गेण्हह, अहवा अंतराले सावयाणि अत्थि तेहिं भक्खियाणि होति, अहवा तत्थ गाने इत्थिदोसा नपुंसगदोसा वा अहवा मुच्छाए पडेज्जा ताहे न नज्जइ, अपुच्छिए कयराए दिसाए गय त्ति न नज्जति / ततश्चानापृच्छय गच्छता बालवृद्धसेहक्षपका: परित्यक्ता भवन्ति। यत आचार्यादीनां प्रायोग्यमानं नानयन्ति अनुक्तत्वात् न च प्रच्छनं कृतं येनोच्यन्ते। यत एते दोषा: परित्यागजनितास्तस्मादेतद्दोषभयात्आयरिए आपुच्छा, तस्संदिहे व तम्मि उवसंते। चेइयगिलाणकन्ना-इएसु गुरुणो अनिग्गमणं / / 240 / /