________________ संजय 101 - अभिधानराजेन्द्रः - भाग 7 संजय लाक प्रयोजनं नावबुध्यसे, कि मुक्तं भवति?जानास्यपि न किं पुनस्तत्करणगिति। तथा दाराश्चकलत्राणि प्राकृतत्वानपुंसकनिर्देशः, सुताश्चैव मित्राणि च प्रतीतान्येव, तथा बान्धवाः- स्वजनाः जीवन्तम् अनुजीवन्ति-तदुपार्जितवित्तायुपभोगत उपजीवन्ति, मृतं 'णाणुव्वयंति य' ति चशब्दस्यापिशब्दार्थत्वादनुव्रजन्त्यपि न, किं पुनः सह यास्यन्तीति, तदनेन दारादीनामपि कृतघ्रतया न तेष्वास्था विधाय धर्मे उदासितव्यमि युक्तमिति। इदं च सूत्रं चिरन्तनवृत्तिकृता न व्याख्यातं, प्रत्यन्तरेषु च दृश्यत इत्यस्माभिरुन्नीतम् / पुनस्तत्प्रतिबन्धनिराकरणायाह- 'नीहरंति' ति निस्सारयन्ति मृत्तम् इति-गतायुष पुत्राःसुताः पितरं-सनक परम दुःखिता-अतिशयसञ्जातदुःखा अपि, किं पुनर्य न तथा दुःखमाज इति भावः, पितरोऽप तथा पुत्रान्, 'बंधु त्ति बन्धवश्व बन्धूनिति शेषः / अतश्च किंकृत्यमित्याह-राजन् ! तप उपलक्षणत्याद्दान दि चरे:-आसेवस्वेति / अपरञ्च 'ततो ति मृतनिःसारणादनन्तरं तेन इति-मित्रपित्रादिना अर्जित-विढपिते द्रव्य-वित्ते दारेषु च-कलत्रेषु च परिरक्षितेषु-सर्वापायपरिपालितेषु; उभयत्रार्पत्वादेक वचन, कीडन्ति-विलसन्ति तेनैव-वित्तेन दारेश्चति गम्यते,शब्दअपर राजन ! 'इट्टतुहमल-किय'त्ति हृष्टाः-पहिः- पुलकादिमन्तः तुष्टाःआन्तरप्रीति-भाजः अलंकृताः-विभूषिताः, यत ईदृशी भवस्थितिस्ततो रजन! तपश्चरेरिति मध्यदीपकत्वाद-नन्तरसूत्रोक्तेन सम्बन्धः। मृतस्य च को वृत्तान्त इत्याह-तेनापि भूतेन यत् कृतम्-अनुष्ठीतं कर्म शुभं वा पुण्यप्रकृतिरूप. यद्वा-सुखं वा-सुखहेतुः यदिवेति-अथवा-दुःखंदु:खहेतः, पापकृत्यात्मकमित्यर्थः। कर्मणा तेन सुखहेतुना दुःखहेतुना वा, उत्तरत्र तुशब्दस्येवकारार्थत्वाद् भिन्नक्र मत्वाच तेनैव, न तु दुःखपरिरक्षितेनापि द्रव्यादिना संयुक्तः- सहितः गच्छति-याति परम्अन्य भवं-जन्म, यतश्च शुभाशुभयोरेवानुयायिता ततः शुभहेतुं तप एव चरेरिति भावः इति सूत्रसप्तकार्थः। ततस्तद्वचः श्रुत्वा राजा किमचेष्टतेत्याहसोऊण तस्स सो धम्मं, अणगारस्स अंतिए। महया संवेगनिव्वेयं, समावन्नो नराहिवो // 18|| संजओ चइउं रज्जं, निक्खंतो जिणसासणे। गद्दभालिस्स भगवओ, अणगारस्स अंतिए।।१६।। श्रुत्या-अकार्य तस्य इत्यनगारस्य स 'स' इति-सञ्जयाभिधाना राजा धर्मम्-उक्तरूपम अन्गारस्य-भिक्षोः अन्तिकेसमीपे 'महय' त्ति महता आदरेणेति शेषः, सुब्ब्यत्ययेन वा महत्, संवेग-निर्वेद तत्र संवेगोमोक्षाभिलाषो निवेदः - संसारोद्विग्नता समापन्नः-प्राप्तः नराधिपः राजा सञ्जयः सखायनामा 'चइउ' त्यक्त्वा राज्य-राष्ट्राधिपत्यरूपं निष्का तः-प्रव्रजितः जिनशा-सने-अर्हद्दर्शने, न तु सुगतादिदेशितेऽसद्दर्शन एवेति भावः, गर्दभाले:-गर्दभालिनानो भगवतोऽनगारस्यान्तिक इति पुत्रदया। सूत्र-नवकोक्तसेवार्थ स्पष्टयितुमाह नियुक्तिकृत - अभयं तुज्झ नरवई, जलवुब्वुअसंनिभे अ माणुस्से / किं हिंसाइ पसज्जसि, जाणन्तो अप्पणो दुक्खं / / 401 / / सव्वमिणं चइऊणं, अवस्सं जया य होइ गन्तव्वं / किं भोगेसुं रसजसि, किंपागफलोवमनिभेसुं / / 402 / / सोऊण य सो धम्म, तस्सऽणगारस्स अंतिए राया। अणगारो पव्वइओ, रज्जं चइउंगुणसमग्गं / / 403 // व्याख्यातप्रायमेव, नवर 'अप्पणो दुक्खं' ति आत्मनो दुःखमिति दुःखजनकं मरणमिति शेषः, 'किंपागफलोवमणिभेसु' ति किंपाकफलोपमा निभा छाया येषां ते तथाआपातमधुरत्वपरिणतिदारुणत्वाभ्या, तथा अनगारः अविद्यमानगृहो, जात इति शेषः, स च शाक्यादिरपि संभवेदत आह 'पव्वइओ' ति प्रकर्षेण विषयाभिव्यङ्गादिपरिहारूपेण वजितो-निष्क्रान्तः प्रव्रजितो, भावभिक्षुरिति यावत्, तथा गुणाः-कामगुणा मनोज्ञशब्दादय आज्ञैश्वर्यादयो वा तैः सम-सम्पूर्ण गुणसमग्रमिति गाथात्रयार्थः। स चैवं गृहीतप्रवज्योऽधिगतहेयोपादेयविभागो दशविधचक्रवालसामाचारीरतश्वानियतविहारितया विहरन् तथाविधसन्निवेशमाजगाग, तत्र च लस्य यदभूत्तदाहचिचा रट्टे पव्वइओ, खत्तिओ परिभासई। जहा ते दीसई रूवं, पसन्नं ते तहा मणो / / 20 / / किंनामे किंगुत्ते, कस्सट्ठाए व माहणे? कहं पडियरसी बुद्धे, ?, कहं विणीय त्ति वुचसि ? / / 21 / / त्यवन्वा राष्ट्र ग्रामनगरादिसमुदायं पद्रजितः प्रतिपन्नदीक्षः क्षत्रियः क्षत्रजातिरनिर्दिशनामा परिभाषते, सञ्जयमुनिमित्युपस्कारः, स हि पूर्वजन्मनि वैमानिक आसीत ततश्च्युतः क्षत्रियकुलेऽजनि, तत्र च कुतश्चित्तथाविधनिमित्ततः स्मृतपूर्वजन्मा तत एव चोत्पन्न-वैराग्यः प्रव्रज्या गृहीतवान् / गृहीतप्रव्रज्यश्च विहरन् सञ्जयमुनि दृष्ट्वा तद्विमर्षार्थमिदमुक्तवान, यथा ते दृश्यते-अवलोक्यते रुपम्-आकृतिःप्रसन्नं विकाररहितं ते-तव तथा-तैनैव प्रकारेण प्रसन्नमिति प्रक्रमः, किं तत् ? मनः-चित्त, न हान्तः कलुषताया बहिरप्येवं प्रसन्नतासम्भवः, तथा कि नामकिमभिधानः किंगोत्र:-किमन्वयः 'कस्सट्टाएव' त्तिकस्मैवा अर्यायप्रयोजनाय 'माहणे' इति मा वधीत्येवं रूपं मनो वाक् क्रिया च यस्यासी माहनः, सर्व धातवः पचादिषु दृश्यन्त' इति वचनात्पचादित्वादच, स चैवविधः प्रव्रजित एवं सम्भवत्यतः किं वा प्रयोजनभुद्दिश्य प्रव्रजितः कथ - कन प्रकारेण प्रतिचरसिसेवसे, कान ? बुद्धान आचार्यादीन्, कथं 'विणीय' त्ति विनीतः-विनयवानित्युच्यत इति सूत्रद्वयार्थः। सञ्जयमुनिराहसंजयो नाम नामेणं, तहा गुत्तेण गोयमो। गद्दभाली ममायरिया, विजाचरणपारगा।।२२।। यदुक्तं त्वया किनामा त्वमिति, तत्र संजयो नाम नाम्ना, यच्चावोचः किंगोत्रः? इति, तत्राह-तथा गोत्रण अन्वयेन गौतमः, उभयत्राहमिति गम्यते, शेषप्रश्रत्रयपतिवचनामाह-गर्दभालयः गर्दभाल्यभिधाना मम अ