________________ हिंडग 1221 - अभिधानराजेन्द्रः - भाग 7 हिंडग . करोति, ‘ण य हत्थो' त्ति न च हस्तेन पुरस्तात्परामृश्य निर्मच्छति, यतनया च 'वेरत्ति कुर्वन्ति। 'वेरात्तिओ कालो घेप्पइ दौणहं पहराणं उवरिं, ततो सज्झाओ कीरति, यदिवा ताए वेलाए सज्झाओ' उक्र वसतिद्वारम्। इदानीं स्थानस्थितद्वारमुच्यते, तत्राहपत्ताण खेते जयणा, काऊणावस्सयं ततो ठवणा। पडणीयपत्तभामण, भद्दगसद्धेय अचियत्ते // 236 / / एवं तेषां विहरतां प्राप्तानामभिमतक्षेत्रे 'जयणे तियथा यतना कर्तव्या तथा च वक्ष्यति, 'काउंआवस्सकं कृत्वा चावश्यकं प्रतिक्रमणं 'ततो ठवण' ति तत: स्थापना क्रियते केषाञ्चित्कुलानाम्, कानिच तानीत्यत | आह- प्रत्यनीक: शासनादे:, प्रान्त:- अदानशील: मामको य एवं यक्ति - 'मामम समणा घरमइंतु' भद्रकश्राद्धौ प्रसिद्धौ ‘अचिअत्ति' त्ति / यः साधुभिरागच्छद्भिर्दुःखेनास्ते, शोभनं भवति यद्येते नायान्ति गृहे। एतेषां कुलानां यो विभाग: क्रियते प्रतिषेधाप्रतिषेधरूप: स स्थापनेत्युच्यते। इदानीं भाष्यकार एनां गाथां प्रतिपदं व्याख्यानयन्नाह दारगाहाबाहिरगामे वुच्छा, उज्जाणे ठाण वसहिपडिलेहा। इहरा उगहिअभंडा, वसहीवाघाय उड्डाहो // 104 / / (भा०) एवं ते बाह्यग्रामे-आसन्नग्रामे पर्युषिताः सन्तोऽभिमतं क्षेत्रं प्राप्य तावदवतिष्ठन्ते। 'उज्जाणे ठाणं' ति उद्याने तावत्स्थाने आस्थां कुर्वन्ति। 'वसहिपडिलेह' ति पुनर्वसतिप्रत्युपेक्षका: प्रेष्यन्ते। 'इहरा उ' त्ति यदि प्रत्युपेक्षका तसतेर्न प्रेष्यन्ते तत: गृहीतभाण्डा:-गृहीतोपकरणावसतिव्याघाते सति निवर्तन्ते ततश्च उड्डाहा भवति-उपघात इत्यर्थः / तत्र च प्रविशतां शकुनापशकुननिरूपणायाहमइल कुचेले अभं-गिएलए साण खुज वडभे य। एएउ अप्पसत्था, हवंति खित्ताउ निताणं // 105 / / (भा०) नारी पीवरगब्भा, वइढकुमारी य कट्ठभारो य। कासायवत्थ कुचं-धरा य कजं न साहति / / 106 / / (भा०) चक्कयरम्मि भमाडो, भुक्खा मारो य पंडुरंगम्मि। तबग्निरुहिरपडणं, घोडियमसिए धुवं मरणं // 107 // (भा०) जंबूअचास मउरे, भारद्वाए तहेव नउले अ। दंसणमेव पसत्थं,पयाहिणे सव्वसंपत्ती॥ 106 / / (भा०) नदीतूरं पुण्ण-स्स दंसणं संखपडहसहो य। भिगारछत्तचामर, घयप्पडागा पसत्थाई।।१०६ / / (भा०) समणं संजयं दंतं, सुमणं मोयगा दहि। मीणं घंटं पडागं च, सिद्धमत्थं विआगरे / / 110 // (भा०) एता निगदसिद्धा तम्हा पडिलहिअदी-वियम्मि पुष्वगय असइ सारविए। फड्डयफडपवेसो, कहणा न य उट्ठ इयरेसिं // 111 / / (भा०) | यस्मात्पूर्वमप्रत्युपेक्षितायां वसतौ उड्डाहो भवति तस्मात्प्रत्युपेक्ष्य प्रवेष्टव्यम्। 'दीवियम्मि' दीपिते-कथिते-कथितेशय्यातराय, यदुताचार्य आगता:, 'पुव्वगय' तिपूर्वगतक्षेत्रप्रत्युपेक्षकै: प्रमार्जित: तत: साध्वेय, 'असति' त्ति पूर्वगतक्षेत्रप्रत्युपेक्षकाभावे, तत: क्षेत्रप्रत्युपेक्षकैः प्रविश्य सारविते-प्रमार्जितायां वसतौ, कथं प्रवेष्टव्यमित्यत आह-फड्कफङ्गुकैः प्रवेश: कर्तवयः / 'कहण' त्ति यो धर्मकथालब्धिसंपन्न: स पूर्वमेव गत्वा शय्यातराय वसतेर्बहिधर्मकथां करोति। 'नय उद्ध' तिन चासौधर्मकथा कुर्वन् उत्तिष्ठति-अभ्युत्थानं करोति, 'इयरेसिं' ति ज्येष्ठार्याणाम्, आहकिमाचार्यागमने धर्मकथी अभ्युत्थानं करोति उत नेति? आचार्य आहअवश्यमेवाभ्युत्थानमाचार्याय करोति। यतोऽकरणे एते दोषा:आयरियअणुट्ठाणे, ओहावण बाहिरायऽदक्खिण्णा। साहणयवंदणिज्जा,अणालवंतेऽवि आलावो॥११२।। (भा०) आचार्यागमने सत्यनुत्थाने 'ओहावण' तिमलना भवति, 'बाहिर' त्ति लोकाचारस्य बाह्या एत इति / पञ्चानामप्यङ्गुलीनामेका महत्तरा भवति, 'अदक्खिण्ण' त्ति दाक्षिण्यमप्येषामाचार्याणां नास्तीत्येवं शय्यातरश्चिन्तयति। 'साहणय' त्ति तेन धर्मकथिनाऽऽचार्याय कथनीय यदुतायमस्मद्वसतिदाता। 'वंदणिज्ज' त्ति शय्यातरोऽपि धर्मकथिनेदं वक्रव्योवन्दनीया आचार्या: / एवमुक्ते यदि असौ वन्दनं करोति तत: साध्येव, अथ न करोति तत: 'अणालवंतेऽवि' तस्मिन् शय्यातरेऽनालपत्यपि आचार्येणालापक: कर्त्तव्यः, यदुत कीदृशा यूयम् ? __ अथाचार्य आलपनं न करोति तत एतेदोषा:(भा०) वुड्डा निरोवयारा, अग्गहणं लोग जत्तवोच्छेओ। तम्हा खलु आलवणं, सयमेव उतत्थ धम्मकहा / / 113 // तथाहि-एत आचार्यास्तथा निरुपकारा-उपकारमपि न बहु मन्यन्ते, 'अग्गहणं' ति अनादारोऽस्याचार्यस्य मां प्रति, 'अलोगजत्त' त्तिलोकयात्राबाह्या: 'वोच्छेओ' त्ति व्यवच्छेदो वसतेरन्यद्रव्यस्य वा, तस्मात्खल्वालपना कर्तव्या, स्वयमेव च तत्र धर्मकथा कर्तव्याऽऽचार्येणेति। वसहिफलं धम्मकहा, कहणअलद्धी उसीस वावारे। पच्छा अइंति वसहिं, तत्थ य भुञ्जो इमा जयणा / / 114 // धर्मकथां कुर्वन् वसते: फलं कथयति, 'कहणअलद्धी उ' यदा तु पुनराचार्यस्य धर्मकथालब्धिर्न भवति तदा 'सीस वावारि' त्ति शिष्यं, व्यापारयति-नियुक्ते धर्मकथाकथने, शिष्यं च धर्मकथायां व्यापार्य पश्चादाचार्यः प्रविशन्ति वसतिम्, तत्र च वसतौ भूयः- पुन: इयं यतना वक्ष्यमाणलक्षणा कर्तव्या। (माष्यम्)पडिलेहण संथारग, आयरिए तिणि सेस उ कमेण / विटिअउक्खेवणया, पविसइ ताहे य धम्मकही॥११५ / / तत्र च वसतौ प्रविष्टाः सन्तः पात्रकादेः प्रत्यपक्षणां कुर्वन्ति, संस्थारकग्रहणं च क्रियते, तत आचार्यस्य त्रयः