________________ हिंडग 1222 - अभिधानराजेन्द्रः - भाग 7 हिंडग संस्थारका निरूप्यन्ते, शेषाणां क्रमेण यथारत्नाधिकतया।तेच साधव आत्मीयात्मीयोपधिवेण्टलिकानामुत्क्षेपणं कुर्वन्ति येन भूमिभागो ज्ञायते, अस्मिन्नवसरे बाह्यतो धर्मकथी संस्तारकग्रहणार्थ प्रविशति। (भा०) उचारे पासवणे, लाउयनिलेवणे य अच्छणए। पुवट्ठिय तेसि कहे-ऽकहिए आयरणवोच्छेआ। ते हि क्षेत्रप्रत्युपेक्षका उच्चाराय भुवं दर्शयन्ति ग्लानाद्यर्थ, 'पासवणे' त्ति कायिकाभूमिं दर्शयन्ति, 'लाउए' त्ति तुम्बकक्षेपणभुवं दर्शयन्ति, निर्लेपनस्थानंच दर्शयन्ति 'अच्छणए' त्ति यत्र स्वाध्यायं कुर्वद्भिरास्यते, पूर्वस्थिता:, क्षेत्रप्रत्युपेक्षका:, एवं तेषाम्-आगन्तुकानां कथयन्ति। 'अकहिए' ति यदिन कथयन्ति तत: 'आयरणवोच्छेओ' त्ति अस्थाने कायिकादेराचरणे सति व्यवच्छेदस्तद्रव्यान्यद्रव्ययो:, वसतेर्निर्धाटयतीति। (भा०) भत्तहिआ व खवग्गा, अमंगलं चोयए जिणाहरणं। जइ खमगा वंदंता, दायंतियरे विहिं वोच्छं / / 117 // ते हि श्रमणा: क्षेत्रं प्रविशन्त: कदाचिद्भक्तार्थिन: कदाचित्क्षपका: उपवासिका इत्यर्थः, तत्रोपवासिकानां प्रविशताम् 'अमंगलं चोयए' त्ति चोदक इदं वक्ति-यदुत क्षेत्रे प्रविशताम् अमड्.गलमिदं यदुपवास: क्रियते, तत्र 'जिनाहरण' मिति जिनोदाहरणम्-यथा हि जिना निष्क्रमणकाले उपवासं कुर्वन्ति न च तेषां तदमड्.गलं, किन्तु प्रत्युत मड्.गलं तत्तेषामेवमिदमपीति। इदानीं यदि क्षपकास्तस्मिन् दिवसे साधव उपवासिकास्तत्र च सन्निवेशे यदि श्रावका: सन्ति ततस्तद्गृहेषु चैत्यानि वन्दतो दर्शयन्ति, कानि? स्थापनादीनि कुलानि आगन्तुकेभ्य:, 'इयरे' त्ति भक्तार्थिषु यो विधिस्तं वक्ष्ये / कश्चासौ विधिरित्ययत आहसव्वे दद्वं उग्गा-हिएण ओयरिअ भयं समुप्पजे। तम्हा तिदु एगो वा, उग्गाहिअ चेइए वंदे॥११॥ (भा०) ते हि भक्तार्थिनः श्रावककुलेषु चैत्यवन्दनार्थं व्रजन्त: यदि सर्व एव पात्रकाण्ग्राह्य प्रविशन्ति तत: को दोष इत्यत आह- 'द मुग्गाहिएहिं ओदारिअ' त्ति दृष्ट्वा तान् साधून पात्रकैरुद्ग्राहितै: औदरिका एत इतिभट्टपुत्रा इति, एवं श्रावकश्चिन्तयति। 'भयं समुप्पजे' त्ति भयं च श्रावकस्योत्पद्यते, यदुत कस्याहमत्र ददामि? कस्य वा न ददामीति? कथं वा एतावतां दास्यामीति, यस्मादेवं तस्मात् 'ति दु एगो वा' त्रय उद्ग्राहितेन प्रविशन्ति आचार्येण सह द्वौवाएको वा उद्ग्राहितेन प्रविशति चैत्यवन्दनार्थमिति अत्:सद्धाभंगोऽणुग्गा-हियम्मि ठवणाझ्या य दोसाउ। घरचेइअ आयरिए, कइवयगमणंच गहणंच // 11 // (भा०) अथानुदग्राहितपात्रका एव प्रविशन्ति, दातव्ये चमतिर्जाता श्राद्धस्य, ततश्च पात्रकाभावेऽग्रहणमग्रहणाच श्रद्धाभड्गो भवति। अथैवं भणन्ति पात्रकं गृहीत्वाऽऽगच्छामि ततश्च स्थापनादिका दोषा भवन्ति, आदिशब्दात्-कदाचित्संस्कारमपि कुर्वन्ति, तस्माद् गृहचैत्यवन्दनार्थम् आचार्येण कतिपयैः साधुभिः सहगमनं कार्य, ग्रहणं घृतादे: कर्त्तव्यमिति। पत्ताण खेत्तजयण' त्ति व्याख्यायतेखेत्तम्मि अपुव्वम्मी, तिट्ठाणट्ठा कहिंति दाणाई। असई अचेदयाणं, हिंडता चेवदायंति / / 120 // (मा०) यदि तत्क्षेत्रमपूर्व न तत्र मासकल्प: कृत आसीत् तत: 'तिट्ठाणट्ट' त्ति त्रिषुस्थानेषु श्रावकगृहचैत्यवन्दनवेलायां भिक्षामटन्त:प्रतिक्रमणावसाने वा कथयन्ति दानादीनि कुलानि। 'असइ अ चेदयाणं' यदा पुनस्तत्र श्रावककुलेषु चैत्यानि न सन्ति ततोऽसति चैत्यानां भिक्षामेव हिण्डन्त: कथयन्ति। __कानि पुनस्तानि कथयन्तीत्यत आहदाणे अभिगमसद्धे, संमत्ते खलु तहेव मिच्छत्ते। मामाए अचियत्ते, कुलाइं दायंति गीयत्था // 121 // (भा०) दानश्राद्धकान् अभिगमश्राद्धः अभिनवसम्यक्त्वसाधु: तथा मिथ्यादृष्टिकुलानि कथयन्ति। शेषं सुगमम्।। इदानीं यदि तत्र चैत्यानि न सन्ति उपवासैन भिक्षा पर्यटिता, तत आवश्यकान्ते क्षेत्रप्रत्युपेक्षका: कथयन्त्याचार्याय / एतदेवाऽऽह(मा०) कयउस्सग्गामंतण, पुच्छणया अकहिएगयरदोसा। ठवणकुलाण य ठवणा, पविसइ गीयत्थसंघाडो // 122 // आवश्यककायोत्सर्गस्यान्ते 'आमंतण' ति आचार्य आमन्त्र्य तान् प्रत्युपेक्षकान् 'पुच्छणय' ति पृच्छति, यदुत कान्यत्र स्थापनाकुलानि? कानि चेतराणि ? पुनश्च ते पृष्टाः कथयन्ति, 'अकहिएगतरदोस' त्ति क्षेत्रप्रत्युपेक्षकैरकथितेषु कुलेषु सत्सु एकतर:-अन्यतमो दोष:संयमात्मविराधनाजनित:, कथितेच सति स्थापनादिकुलानां स्थापना क्रियते / पुनश्च स्थापनाकुलेषु गीतार्थसङ्घाटक: प्रविशति। गच्छम्मि एस कप्पो, वासावासे तहेव उडुबद्ध। गामागरनिगमेसुं, अइसेसी ठावए सही॥१२३ / / (भा०) गच्छे एष कल्प:-एष विधिरित्यर्थ: यत: स्थापनाकुलानां स्थापना क्रियते, कदा? 'वासावासे तहेव उडुबद्धे' वर्षाकलि शीतोष्णकालयोश्च / केषु पुनरयं नियमः कृत: ? इत्यत आह- ‘गामागरनिगमेसुं' ग्राम:प्रसिद्धः आकर:-सुवर्णादरुत्पत्तिस्थानं निगमोवाणिजकप्राय: सन्निवेश:, एषु स्थापनाकुलानिस्थापयेत्। किंविशिष्टानीत्यत आह- 'अतिसेसि' त्ति स्फीतानीत्यर्थ: 'सड्डि' त्ति श्रद्धावन्ति कुलानि स्थापयेदिति। किं कारणं चमढणा, दव्वखओ उग्गमोऽवि अन सुज्झे। गच्छम्मि निययकजे, आयरियगिलाणपाहुणए / 237 // किं कारणं तानि कुलानि स्थाप्यन्ते?, यतः 'चमढण' ति अन्यैरयैश्व साधुभिः प्रविशद्भिश्चमढयन्ते-कदर्थ्यन्त इत्यर्थः, तत: को दोष इत्यत आह- 'इव्वखओ' आचार्यादियोग्यानां द्रव्याणां क्षयो भवति / 'उग्गमोऽवि अन सुज्झे' उद्गमस्तत्र गृहे न शुद्धयति / गच्छे' त्ति नि