________________ हिंडग 1216 - अभिधानराजेन्द्रः - भाग 7 हिंडग अनिरोहो" त्ति व्याख्यायते- 'पासवणि' त्ति प्रश्रवणस्य कायिकाया: ‘इयर' त्ति पुरीषस्य च निरोहे 'गेलन्नं' ग्लानत्वं भवति। अथ व्युत्सृजन्तिततो 'दिडे उड्डाहो' त्ति सागारिकैदृष्टे सति उड्डाह:-उपघात; प्रवचनस्य भवति। "संजमआयविराहण"त्ति व्याख्यायतेमा दिच्छिहिंति तो अ-प्पडिलिहिए दूरं गंतु वोसिरति। / संजमआयविराहण-गहणं आरक्खितेणेहिं / / 222 // अथ सागारिका मां मा द्राक्षुरिति कृत्वाऽस्थण्डिल एव दूरे गत्वा व्युत्सृजतितत: संयमात्मनोविराधना भवति, ग्रहणं चारक्षिका: कुर्वन्ति। 'तेण' ति स्तेनका वा ग्रहणं कुर्वन्ति / दारं।। “संकातेण" त्ति व्याख्यायतेओणयपमज्जमाणं, दट्ट तेणे त्ति आहणे कोई। सागारिअसंघट्टण, अपुमेत्थी गेण्ह साहइवा॥२२३ // स हि रात्रौ कायिकाद्यर्थमुत्थितः सन्नवनत: प्रमार्जयन् निर्गच्छति, ततस्तमवनतकायं दृष्ट्वा स्तेन इति मत्वा आहन्यात्कश्चित्। दारं। 'नपुंमित्थि' त्ति व्याख्यायते- 'सागारिअसंघट्टण' ति सागारिकसंस्पर्श सति, स हि रात्रौ हस्तेन परामृशन् गच्छति, यतस्तत: स्पर्शने सति कश्चित्सागारिको विबुद्ध एव चिन्तयति-यदुताय अपुमेत्थि' त्ति नपुसकं तेन कारणेनमा स्पृशति, तत: सागारिकस्तंसाधुनपुंसकबुद्ध्या गृह्णाति। अथकदाचित्स्त्री स्पृष्टा तत: साश.कते, यदुतायं मम समीपेआगच्छति, तत: ‘साहेति' कथयति निजभर्तुः सौभाग्यं ख्यापयन्ती परमार्थेन वा। ओरालसरीरं वा, इत्थि नपुंसा बला वि गेण्हति। सावाहाए ठाणे, निते आवडणपडणाई // 224 // औदारिकशरीरं वा तं साधुं दृष्ट्वा दिवा, ततो रात्रौ स्त्री नपुंसकं बलाद् | गृह्णाति, औदारिकं चाडि.कम् / एते विस्तीर्णवसतिदोषा व्याख्याताः / / इदानीं क्षुल्लिकावसतिदोषान् प्रतिपादयन्नाह- 'सावाहाए' त्ति संकटायां यसतौ स्थाने-अवस्थाने सति ‘णिते आवडणपडणादी' ति निर्गच्छन्नापतितश्व-निर्गच्छन्नापतनपतनादयो दोषाः / तथातेणो त्ति मण्णमाणो, इमो वि तेणो त्ति आवडइ जुद्धं / संजमआयविराहण-भायणभेयाइणो दोसा / / 225 / / एवं साधोरुपरि प्रस्खलिते साधौ यस्योपरि प्रस्खलित: स तं स्तेनकमिति मन्यमानः, अयं च सुप्तोत्थित: अमुंप्रस्खलितं स्तेनकं मन्यमान:, सन, आपतति युद्धं-युद्धं भवति, ततश्च संयमात्मनोविराधना भाजनभेदादयश्च दोषाः / भाजनं-पात्रकं भण्यते। उक्ता क्षुल्लिका वसतिः / यस्मात्क्षुल्लिकायामेते दोषास्तस्मात्प्रमाणयुक्ता वसतिाया। एतदेवाहतम्हा मपाणजुत्ता, एक्केकस्स उतिहत्थसंथारो। मायणसंथारंतर, जह वीसं अंगुला हुंति / / 226 / / तस्मात्प्रमाणयुक्ता वसतिर्लाह्या, तत्र चैकैकस्य साधोर्बाहुल्यत- स्विहस्तप्रमाण: संस्तारक: कर्त्तव्यः / तुशब्दो विशेषणार्थ: / किं विशिनष्टि ? संस्तारकोऽत्र भूमिरूप इति, तत्र तेषु त्रिषु हस्तेषुऊर्णामयः संस्तारको हस्तं, “चत्तारि अ अंगुलाई रुभइ भायणाई हत्थं रुधंति" इदानी संस्तारकभाजनयोर्यदन्तरालं तत्प्रमाणं प्रतिपादयन्नाह'भायणसंथारंतर' भाजनसंस्तारान्तरे-अन्तराले यथा विंशतिरडलानि भवन्ति तथा कर्त्तव्यम् / एवं त्रिहस्तप्रमाणोऽपि संस्तारकः पूरित:। किं पुन: कारणमिह दूरे भाजनानि न स्थाप्यन्ते ? उच्चतेमजारमूसगाइ य, वारे नवि अ जाणुघट्टणया। दो हत्थाय अबाहा, नियमा साहुस्स साहूओ / / 227 / / मार्जारमूषकादीन् पात्रकेषु लगतो वारयेत्। अथ कस्मादासन्नतराणि न क्रियन्ते ? उच्यते-'नविय जाणुघट्टणय' त्ति तावति प्रदेशे तिष्ठति पात्रकेषुजानुकृतोद्घट्टना-जानुकृतंचलनं न भवति। इदानीं प्रव्रजितस्य प्रवजितस्य चान्तरालं प्रतिपादयन्नाह-द्वा हस्तौ अबाधा-अन्तरालं नियमात्साधो: साधोश्च भवति, साधुश्चात्र त्रिहस्तसंस्तारकप्रमाणो ग्राह्याः स्थापना चेयम् - 'उण्णामओ संथारओ 28 अट्ठावीसंगुलप्पमाणो, संथारभायणाणं अंतरं वीसंगुला 20, भायणाणि अहत्थप्पमाणे पाउंछणे ठविचंति 54, एवं तिहिंघरएहिं सव्वे वि तिष्णि हत्था, साहुस्संयसाहुस्स य अंतरं दो हत्था // 28 / 28 / 24 हत्था ३-हत्था 2 // एवमगाथाद्वयं व्याख्यातम्। अत्र च द्विहस्तप्रमाणायामबाधायां महदन्तरालं साधोः साधोश्च भवति, ततश्च तदन्तरालं शून्यं महद्दृष्ट्वा सागारिको बलात्स्वपिति, तस्मादन्यथा व्याख्यायत-“तम्हा पमाणजुत्ता एक्केकस्स उ तिहत्थसंथारो / " अत्र हस्तं साधू रुणद्धि, भाजनानि संस्तारक-- द्विशत्यङ्गुलानि भवन्ति एतदेवाह- 'भायणसंथारंतर जह वीसं अंगुलाई होंति' पात्रकमष्टाङ्गुलानि रुणद्धिः पात्रकाविंशत्यङगुलानि मुक्त्वा परतोऽन्यः साधुः स्वपिति। एतश्च कुतो निश्चीयते ? यदुतपात्रकात्परतो विशल्यङ्गुलान्यतीत्य साधुः स्वपिति, यतउक्तम्- 'दो हत्थे य अबाहा नियमा साहुस्स साहूओ' 1 स्थापना चेयम्- 'साहू सरीरेणं हत्थं रुंधइ 24, साहुस्स सरीरप्पमाणं, संथारयस्स पत्तयाणंच अंतरं वीसंगुला 20 अहहिं अंगुलेहिं पत्तया ठइंति 8, पत्तस्स वितियसाहुस्स य अंतरं वीसंगुलाई 20, एवं एते सव्वेऽवितिणि हत्था, एसो वितिओ साहू। 24 / 20 / 8 / 20 एवं सव्वत्था' अत्र चोमियः' संस्तारक: अष्टाविंशत्यङ्गुलप्रमाण एव आहुल्येन द्रष्टव्यः, किन्तु साधुना शरीरेण चतुर्विशत्यगुलानि रुद्धानि, अन्यानिऊमयसंस्तारकसंबन्धीनि यानि चत्वार्यड्डलानि तैः सह यानि विशल्यङ्गुलानि, तत्परत: पात्रकाणि भवन्ति। अत्र हस्तद्वयमबाधा साधुशरीराद्यावदन्यसाधुशरीरं तावद् दृष्टव्यम्। "मजाय" इत्येतद्वयाख्यातमेव। भुत्तामुत्तसमुत्था, भंडणदोसाय वञ्जिया एवं। सीसंतेण व कुडं, तु हत्थं मोत्तूण ठायंति // 228 / / द्विहस्तान्तराले न मुच्यमानेन 'भुत्ताभुत्तसमुत्था' इति यो भुक्तभोग: 'अभुक्त,' इति यः कुमार एव प्रव्रजित..