________________ हिंडग 1218 - अभिधानराजेन्द्रः - भाग 7 हिंडग भयं भवेत्ततश्च प्रत्यूषस्येवागच्छन्तीति। उष्णं वा अपराह्न आगच्छता भवतियतोऽत: प्रत्यूषस्येवागच्छन्ति। एवं ते प्रत्यूषसितस्माद्ग्रामात्प्रवृत्ता साधुभोजनकाले प्राप्ता: साधर्मिकसमीपं नैषेधिकीं कृत्वा प्रविशन्ति। ततश्च तेषां प्रविशतां वास्तव्यसाधुभिः किं कर्तव्यमित्यत आह- 'पक्खित्तं मोत्तूणं' ति प्रक्षिप्तम्-आस्यगतं मुखे प्रक्षिप्तं केवलं मुक्त्वा 'निक्खिवमुक्खित्त' ति यदुत्क्षिप्तं भाजनगतं तत् निक्षिपन्ति, मुञ्चन्ति नैषेधिकीश्रवणनन्तरमेव, ततस्ते प्राघूर्णका: 'ओघेणं' ति संक्षेपेण आलोचनां प्रयच्छन्ति। ततो भुञ्जते मण्डल्यां, सा चेयम्, अप्पा मूलगुणेसुं. विराहणा अप्प उत्तरगुणेसुं। अप्पा पासत्थाइसु, दाणग्गहसंपओगोहा।।२१३ / / अल्पा मूलगुणेषु एतदुक्तं भवति-मूलगुणविषया न काचिद्विराधना, अल्पा उत्तरगुणविषया विराधना, अल्पा पार्श्वस्थादिषु दानग्रहणसेवाविराधना 'संपओगो' त्ति तैरेव पार्श्वस्थादिभिः संप्रयोगे-संपर्के। एतदुक्त भवति-न पार्श्वस्थादिभिः सह संप्रयोग आसीत् / 'ओघ त्ति गयं' ओघत: सझे.पत आलोचना दीयते, दत्त्वा चालोचनां यदि तु अभुक्तास्ततो भुञ्जते। अथ भुक्तास्ते साधवस्तत इदं भणन्तिमुंजह भुत्ता, अम्हे, जो वा इच्छे अभुत्त सह भोजं / सव्वं च तेसि दाउं, अन्नं गेण्हति वत्थव्वा / / 214 / / भुजीत यूयं भुक्ता वयं 'यो वा इच्छे' त्ति येवा साधवो भोक्तुमिच्छन्ति तत: 'अभुत्त सह भोज्ज' तितेनाभुक्तेन सह भोज्यं कुर्वन्ति / एवं यदि तेषामात्मनश्च पूर्यानीतं भक्तं पर्याप्यते तत: साध्वेव , अथ न पयीप्यते ततः सर्वं तेभ्य:-प्राघूर्णकेभ्यो दत्त्वा भक्तमन्यद् गृह्णन्ति-पर्यटन्ति वास्तव्यभिक्षवः। एवमानीय कति दिनानि भक्तं प्राघूर्णकेभ्यो दीयते इत्यत आहतिण्णि दिणे पाहुन्नं सव्वेसिं असइ बालवुड्डाणं। जे तरुणा सग्गामे, वत्थव्वा बाहि हिडंति // 215 / / त्रीणि दिनानि प्राघूर्णकं सर्वेषामसति बानवृद्धानां कर्त्तव्यं, ततश्च ये प्राघूर्णकास्तरुणास्ते स्वग्राम एव भिक्षामटन्ति, वास्तव्यास्तु बहिग्रामे हिण्डन्ति। अथ ते प्राघूर्णका: केवला हिण्डितुं न जानन्ति तत: किं कर्तव्यमित्यत आहसंघाडगसंजोगो, आगंतुगभद्दएयरे बाहिं। आगंतुगा व बाहिं, वत्थव्वगभद्दए हिंडे / / 216 / / सङ्घाटकसंयोगः क्रियते। एकदुक्तं भवति-एको वास्तव्य एकश्च प्राघूर्णकः, ततश्चैवंसङ्घाटकयोगं कृत्वा भिक्षामटन्ति। 'आगंतुगभद्दएयरे' त्ति अथासौ ग्राम आगन्तुकानामेव भद्रकस्तत: 'इयरे' त्ति वास्तव्या | 'बाहिं ति बहिमि हिण्डन्ति, आगन्तुका वा अहिम हिण्डन्ति वास्तव्यभद्रके सतिग्रामे / उक्तं साधर्मिकद्वारम्। इदानीं वसतिद्वारं प्रतिपादयन्नाहवित्थिण्णाखुडलिआ, पमाणजुत्ताय तिविहँ वसहीओ। पढमबिइयासु ठाणे, तत्थ य दोसा इमे होति / / 217 // विस्तीर्णा क्षुल्लिका प्रमाणयुक्ता वा त्रिविधा वसतिः। 'पढमबितियासु ठाणे' त्ति यदा प्रथमायां वसतौ स्थानं भवति; विस्तीर्णायामित्यर्थः, द्वितीया क्षुल्लिका, तस्यां वसतौ वा यदा भवति तदा, तत्र तयोर्वसत्योः एते-वक्ष्यमाणका दोषा भवन्ति। खरकम्मिअवाणियगा, कप्पडिअसरक्खगा य वंठाय। संमीसाऽऽवासेणं, दोसाय हवंतिणेगविहा / / 218 // तत्र विस्तीर्णायां वसतौ 'खरकम्मिअ' त्ति दण्डपासका रात्रिं भ्रान्त्वा स्वपन्ति, वणिज्यकाश्च वालुञ्जकप्राया आगत्य स्वपन्ति, तथा कार्पटिका: स्वपन्ति, सरजस्काश्चभौता: स्वपन्ति, वण्ठाश्च स्वपन्त्यागत्य "अकयविवाहा भीतिजीविणोयवंठ"त्ति। एभिः सह यदा संमिश्र आवासो भवति तदा तेन संमिश्रावासेन दोषा वक्ष्यमाणका अनेकविधा भवन्ति। तेचाभीआवासगअहिकरणे, तदुभय उचारकाइयनिरोहे। संजयआयविराहण, संका तेणे नपुंसित्थी॥ 216 // आवश्यके-प्रतिक्रमणे क्रियमणे सागारिकाणामग्रतस्त एव उद्धट्टकान् कुर्वन्ति, ततश्च केचिदसहनाराटिंकुर्वन्ति, ततश्चाधिकरणदोष: / तदुभए' त्ति सूत्रपौरुषीकरणे अर्थपौरुषीकरणे च दोष:-उद्धट्टकान् कुर्वन्ति। निरोधश्च उच्चारस्य कायिकायाश्च निरोधे दोषः / अथ करोति तथाऽपि दोषः, संयमात्मविराधनाकृतोऽप्रत्युपेक्षितस्थण्डिले। 'संका तेणे' त्ति स्तनकशड्.कादोषश्च-चौराशड्का, नपुंसककृतदोष: संभवति ततश्च स्त्रीदोषश्च भवतीति द्वारगाथेयम्। इदानीं प्रतिपदं व्याख्यानयन्नाहआवस्सयं करिते, पवंचए झाणजोगवाघाओ। असहण अपरिणया वा, मायणभेओ य छकाया।। 220 // आवश्यकं-प्रतिक्रमणं कुर्वताम् ‘पवंचए' त्ति ते सागारिका उद्धट्टकान् कुर्वन्ति, तथा ध्यानयोगव्याघातश्च भवति-चलनमापद्यते चेतो यतः / दारं / अहिगरणं भण्णइ-'असहणे' त्ति कश्चिद् असहन: कोपनोपयात्ति अपरिणतोवा-सेहपया:, एतेराटिंसागारिकैसह कुर्वन्ति, ततश्चभाजनानिपात्रकाणि तद्भेदो-विनाशो भवति, षट्कायाश्च विराध्यन्ते। दारं। 'तदुभयं' तिव्याख्यायतेसुत्तत्थऽकरण नासो, करणे उबुचगाइ अहिगरणं / पासवणिअरनिरोहे, गेलनं दिहि उड्डाहो // 221 // 'सुत्तत्थकरण' त्ति सूत्रार्थपौरुष्यकरणे नाश: तयोरेव विस्मरणम् / अथ सूत्रार्थपौरुष्यौ क्रियेते ततश्च 'उडुचकादि' उद्घट्टकानि कुर्वन्ति।ततश्चा सहना राटिं कुर्वन्ति, ततोऽधिकरणदोष इति / दारं। “उच्चारकाई