________________ हिंडग 1215 - अभिधानराजेन्द्रः - भाग 7 हिंडग वण देंति' एवं च सागारिका रुष्टाः सन्तो वसतिं न प्रयच्छन्ति, तत्र ग्रामे 'जं वण्ण' ति ग्रहणाकर्षणादि कुर्वन्ति। इदानीं तस्माद् ग्रामादन्यत्र ग्रामे भोजनं गृहीत्वा गन्तव्यं, तत्र चैते दोषा: - भरेण वेयणाए, न पेहए थाणुअंटआयाए। हरियाइ संजमम्मि अ, परिगलमाणेण छक्काया / / 160 / / उपधिभिक्षाभारेण या वेदना क्षुद्वेदना वा तया न 'पेहइ' तिनपश्यति स्थाणुकण्टकादीन्, ततश्चात्मविराधना भवति 'हरियाई' ति संयमविषया विराधना ईर्यादि, तथा परिगलमानेच पानादौ षट्कायविराधना भवति। तथा चैते चान्यत्र ग्रामे गच्छतांदोषा भवन्तिसावयतेणा दुविहा, विराहणा जाय उवहिणा उ विणा। तणअग्गिहणसेवण, वियालगमणे इमे दोसा / / 161 || श्वापदभयं भवति, तथा 'तेणा दुविहा भवन्ति' - शरीरापहारिणः, उपध्यपहारिणश्च / 'विराहणाजा य उवहिणा उविणा' या च उपधिनासंस्तारकादिना विना विराधना भवति, का चासौ ? 'तणअग्गिगहणसेवणा' यथासंख्यं तृणाना ग्रहणे संयमविराधना, अग्नेश्च सेवने संयमविराधनेति। द्वारम्। एवं तावद्वाह्यतो भुजानानामन्यग्रामेच गच्छता दोषा व्याख्याताः / इदानीं तु यदुक्तमासीचोदेकेन यदुत विकाले प्रवेष्टुं युज्यते तन्निरस्यन्नाह- 'वियालगम (ह) णे इमे दोसा' विकालगमने वसतौ एते-वक्ष्यमाणलक्षणा दोषा भवन्ति / ते चामीपविसणमग्गणठाणे, वेसित्थिदुगुंछिए य बोद्धव्वे / सज्झाए संथारे, उच्चारे चेव पासवणे / / 192 // 'पविसण' त्ति तत्र ग्राम विकाले प्रविशतां ये दोषास्तान् वक्षयाम:, 'मग्गण' त्ति वसतिमार्गणा अन्वेषणे च विकालवेलायां ये दोषास्तान वक्षयामः। 'ठाणे वेसित्थिदुगुंछिए अ' इत्येतद्वक्ष्यतीति विकालवेलायां बोद्धव्यं-ज्ञेयम्। 'सज्झाए' ति स्वाध्यायम् अप्रत्युपेक्षितायां वसतौ अगृहीते काले कुर्वतो दोषः, अथ न करोति तथाऽपि दोष: हानिलक्षण:। 'संथार' त्ति अप्रत्युपेक्षितायां वसतौ संस्तारकभुवं गृह्णत: संयमात्मविराधनादोषः। 'उच्चारे' त्ति अप्रत्युपेक्षितायां वसतौ स्थण्डिलेष्वनिरू पितेषु व्युत्सृजना दोषः, धारणेऽपि दोष: 'पासवणे' ति अप्रत्युपेक्षितेषु स्थण्डिलेषु व्युत्सृजतो दोषः, धारयतोऽपि दोष एव। इयं द्वारगाथा, इदानीं प्रतिपदं व्याख्यायतेसावयतेणा दुविहा, विराहणा जाय उवहिणा उ विणा।। / गुम्मिअगहणाऽऽणणा, गोणाईचमढणाचेव।। 163 / / विकाले प्रविशतां ग्रामे श्वापदभयं भवति। स्तेना द्विप्रकारा:शरीरस्तेना, उपधिस्तेनाश्च / तद्भयं भवति विकाले प्रविशताम् विराधना या च उपधिना विना भवति अनितृणयोहणसेवनादिका, साच विकाले | प्रवेशे दोषः / 'गुम्मिय' त्ति मुल्म-स्थानं तद्रक्षपाला गुल्मिकास्तैर्ग्रहणमाहननं च भवति विकाले प्रविशतामयं दोषः। 'गोणादिवमढणा' बलीवर्दादिपादप्रहारादिश्च, एवमयं विकालप्रवेशेदोषः / 'पविसणे' त्तिगयं। इदानीं 'मग्गणे' ति व्याख्यायतेफिडिए अण्णोण्णारण, तेण य राओ दिया य पंथम्मि। सांणाइ वेसकुत्थिअ, तवोवणं मूसिआ जं च / / 195 // 'फिडिए' त्ति विकालवेलायां वसतिमार्गणे अन्वेषणे 'फिडित:' भ्रष्टो भवेत्, तत्र अन्योऽन्यपरस्परत: 'आरण' संशब्दनं तच्छ्रुत्वा स्तेनका रात्रौ मुषितुमभिलषन्ति, 'दिया य पंथम्मि' त्ति दिवा वा प्रभाते पथि गच्छतस्तान् श्रमणान् मुष्णन्ति 'सागादि' ति रात्री वसतेरन्वेषणे श्वादिर्दशति / 'मम्गणे' त्ति भणि 'वेसत्थिदुगुछिए' ति व्याख्यायतेऽवयवः, तत्राह- 'वेसकुत्थिअ तवोवणं मूसिगा चेव' रात्रौ वसतिलाभेन जानन्ति किमेतत्स्थानं वेश्यापाटकासन्नमनासन्नं वा ? ते चानानानास्तस्यां वसतौ निवसन्ति, तत्र चायं दोष:-वेश्यासमीपे वसतां लोको भणति, अहो तपोवनमिति। कुत्सितछिम्पकादिस्थानासन्ने लोको ब्रवीति-स्वस्थाने मूषिका गताः, एतेऽप्येवंजातीया एव। 'वेसित्थिकुच्छिते' त्ति गतम्। स्वाध्यायद्वारं व्याख्यातमेव द्रष्टव्यम्। इदानीं 'संथार' त्ति व्याख्यायतेअप्पडिलेहिअकंटा-बिलम्मि संथारगम्मि आयाए। छकायसंजमम्मि अ, चिलिणे सेहऽनहाभावो || 195|| अप्रत्युपेक्षितायां वसतौ कण्टका भवन्ति, बिलं वा। तत्र संस्तारके क्रियमाणे 'आयाए' त्ति आत्मविराधना भवति 'छक्काय' त्ति षट्कायस्यापि अप्रत्युपेक्षितवसतौ स्वपत: 'संजमम्मि' त्ति संयमविषया विराधना भवति। 'चिलिणे' त्ति तथा चिलीनम्-अशुचिकं भवति, तस्मिश्च सेहस्य जुगुप्सया अश्रुतार्थस्यान्यथाभाव:-उन्निष्क्रमणा दिर्भवति। 'संथार' त्तिगयं। इदानीम् ‘उच्चारपासवणे 'त्ति व्याख्यायतेकंटगथाणुगबाला-विलम्मिजइ वोसिरेज आयाए। संजमओ छकाया, गमणे पत्ते अइंते य / / 196 / / अप्रत्युपेक्षितायां वसतौ कण्टकस्थाणुव्यालाविले-समाकुले प्रदेश व्युत्सृजत आत्मविराधना भवति, 'संजमओ' ति संयमतो विराधना षट्कायोपमर्दे सति रात्रौ भवति। 'गमणे' त्ति कायिकाव्युत्सर्तनार्थ गमने दोषा: 'पत्ते' त्ति कायिकाभुवं प्राप्तस्य व्युत्सृजत: 'अयंते य' त्ति पुन: कायिकां व्युत्सृज्य क्सतिं प्रविशतोषट्कायोपमर्दो भवतीति। अथ तु पुनर्निरोधं करोति ततश्चैते दोषा भवन्तिमुत्तनिरोहे चक्खू, वचनिरोहेण जीवियं चयई। उजुनिरोहे कोटुंगेलनं वा भवे तिस वि / / 197 // सुगमा। 'उच्चारपासवणि ' त्ति गयं। जइ पुण वियालपत्ता, पए व पत्ता उवस्सयं न लभे। सुन्नवरदेउले वा, उजाणे वा अपरिभोगे / 198|| यदि पुनर्विकाल एव प्राप्ताः, ततश्च तेषां विकालवेलायां वसतौ प्रविशतां प्रमादकृ तो दोषो न भवति / 'पए व पत्तं' त्ति प्रागेव प्रत्यूषस्येव प्राता:- किन्तु उपाश्रयं न लभन्ते