________________ हिंडग 1216 - अभिधानराजेन्द्रः - भाग 7 हिंडग तत:क्व समुद्दिशन्तु ? शून्यगृहे देवकुले या उद्याने वा अपरिभोगे- | लोकपरिभोगरहिते समुद्दिशन्तीति क्रियां वक्ष्यति।। आयरिअचिलिमिणीए, रणे वा निब्भए समुद्दिसणं / सभए पच्छान्नाऽसइ-कमढय कुरुया य संतरिआ॥ 16 // अथ शून्यगृहादौ सागारिकाणामापातो भवति, तत आणते सति चिलिमिणी-यवनिका दीयते, 'रणे व' त्ति अथशून्यगृहादि सागारिकाक्रान्तं ततः अण्ये निर्भये समुद्दिशनं क्रियते, सभयेऽरण्ये प्रच्छन्नस्य वा असति-अभावे ततो वसतिसमीप एव कमढकेषु शुक्लेन लेपेन सबाह्याभ्यन्तरेषु लिप्तेषु भुज्यते 'कुरुआ य' त्ति कुरुकुचा-पादप्रक्षालनादिका क्रियते 'संतरित' त्ति सान्तरा:-सावकाशा वृहदन्तराला उपविशन्ति। इदानी भुक्त्वा बहिः पुनर्विकाले वसतिमन्विषन्ति, साच कोष्ठकादिका भवति। (ओघ०) (लब्धाया वसतेर्विधि: 'संथारग' शब्देऽस्मिनेव भागे गतः।) इदानीं संज्ञिद्वारं व्याख्यायते-दारं। दुविहो य विहरियाविह-रिओ उ भयणाउ विहरिए होइ। संदिट्ठोंजो विहरितो, अविहरिअविही इमो होइ॥ 210 / / एवं तेव्रजन्तः कश्चिद्ग्रमं प्राप्ता:, स च ग्रामो द्विविधः-विहतोऽविहृतश्चः / विहृतः साधुभिर्यः क्षुण्ण:-आसेवित इत्यर्थः, अविहृतो य: साधुभिर्न क्षुण्णो-नासेवित इत्यर्थः / तुशब्दो विशेषणार्थः / किं विशिनष्टि ? योऽसौ विहृत: स संज्ञियुक्त: संज्ञिरहितो वा। 'भयणा उ विहरिए होति' त्ति योऽसौ विहृत: संज्ञियुक्तस्तत्र भजना-विकल्पना, यऽसौ संज्ञी संविग्नभावितस्ततः प्रविशन्ति, अथ तु पार्श्वस्थादिभावितस्ततो न प्रविशन्ति / 'सदिट्ठो जो विहरितो' त्ति संविग्नविहृते संज्ञिगृहे संदिष्टःउक्त: यथाऽऽचार्यप्रायोग्यंत्वया संज्ञिकुलादानयनीयमित्यत: प्रविशन्ति। अथवाऽन्यथा ध्याख्यायते-द्विविध:, कतर: ? संज्ञिद्वारस्य प्रक्रान्तत्वाद् संज्ञिनो वा, कतमेन द्वैविध्यमत आह-विहृतोऽविहतश्च, साधुभिः क्षुण्णोऽक्षुण्णश्च तत्रभजना विहृत श्रावके सति, यद्यसौ संविनविहृतः प्रवेश: क्रियते, अथ पार्श्वस्थादिविहृतस्ततोन प्रवेष्टव्यम्। संदिष्टो विहृतोऽवस संविग्नै: साम्भोगिकैश्च यैर्विहसस्तेतीऽत्राचार्यसंदिष्टः प्रविशति, आत्रार्यप्रायोग्यग्रहणार्थम् 'अविहरिअविही इमोहोति' त्ति अविहृते ग्रामे संज्ञिमि वा अयं विधि:-वक्ष्यभाणलक्षण: सप्तभगाथायाम् 'अविहरिअमसंदिट्ठो चेतिश्च पाहुडिअ' अस्यां गाथायामिति। इदानीं भाष्यकार एनामेव गाथा व्याख्यानयन्नाहअविहरिअ विहरिओवा, जइसको नत्थिनथि उनिओगो। नाए जइओसण्णा, पविसंति तओय पण्णरस ||6|| अविहृतो विहृतौ वा ग्रामः, तत्र विहृते यदि श्राद्धको नास्तिततो नास्ति नियोग:-न नियुज्यते साधु: आचार्यप्रायोग्यानयनार्थम्। 'णाए' त्ति अथ | तुज्ञाते-विज्ञाते एवं यदुतास्ति श्रावकः, तत्रच 'यदि ओसन्ना पविसंति' यद्यवसन्नाः प्रविशन्ति तथाऽपिनास्ति नियोगः, अथतु प्रविशन्ति तओ उपन्नरस' त्ति पञ्चदशोद्गमनदोषा भवन्ति, ते चामी- 'आहाकम्मुद्देसिअ पूईकम्मै य मीसजाए अठवणा पाहुडियाए,पाउयरकीय पामिश्चे // 1 // परियट्टिए अभिहडं, उब्भिन्नेमाजोहडे इ।अच्छेजे अणिसट्टे, अज्झोयरए असोलसमे // 22 // " ननुचामी षोडश उच्यन्ते- "अज्झोयरतोय मीसजाये च दोहिं वि एक्को चेव भेदो।" अथवा-इयमपि गाथा संझिनमेवाङ्गीकृत्य व्याख्यायते-द्विविध: श्रावको-विहृत:, अविहृतो वा। "जइ सड्ढो नत्थिणत्थि उ निओगो तओ विहरितो" यदि श्राद्धो नास्ति ततो नास्ति नियोग: साधो: / ‘णाए' त्ति अथ ज्ञाते सति श्राद्धके यदुतास्ति ततश्च तत्र ज्ञाते सति 'जइ ओसण्णा पविसंति' यद्यवसन्नाः प्रविशन्ति तथाऽपि नास्ति नियोगः / अथैवंविधेऽपि प्रविशन्ति तंतश्च पञ्चदश दोषा उद्मादयो नियमाद्भवन्ति। यद्यपि तत्रावमग्ना नगृह्णन्तिसंविग्गमणुणणाए, अइंति अहवा कुले विरिंचंति। अण्णाउंछं व सह, एमेव य संजईदग्गे // 66 // (भा०) अथ तु ससौ : संवित्रैश्च विहन:-अमनोहर्वसद्भिर्भावित: तत: 'अणुण्णाए अइंति' त्ति तैरेवानुज्ञाते सति श्रावकगृहे प्रविशन्ति। अथवाश्रावककुलानि विरिञ्चन्तिविभजन्ति, एते चान्यसाम्भोगिका: संविग्नाः 'अण्णाउँछं व सहू' अण्णाउंछंजत्थ सावगा नत्थितहिं हिंडंतिवत्थव्या। जइ सहू समत्था इयरे अ पाहुणगा जप्पसरीरा ततो सावगकुलानि हिण्डन्ति। अह वत्थव्या जप्पसरीरगा पाहुणगाय सहू ततो अण्णायउंछ हिंडंति। 'एमेवय संजईवग्गे' एवमेव संयतीवर्गे विधिः, यदुत ताभिरनुज्ञातेषु श्रावककुलेषु प्रवेष्टव्यम् / बहुषु च कुलेषु सत्सुता एवं विरिश्चन्ति "अण्णाउंछंव सहू' इति, अयं च विधिद्रष्टव्यः" / एवं तु अण्णसंभो-इयाण संभोइयाण ते चेव। जणित्ता निब्बंधं, वत्थध्वेणं स उपमाणं / / 67 // (भा०) एवमन्यसाभ्भोगिकानां संभवे उक्ललक्षणो विधिद्रष्टव्यः / 'संभोइयाण ते चेव' त्ति अथ साम्भोगिकास्तत्र ग्रामे भवन्ति तत: 'ते चेव' त्ति त एव वास्तव्याः साधवो भैक्षमानयन्ति। अथ तत्र साम्भोगिक समीपे प्राप्तमात्राणां कश्चिच्छ्रावक आयातः, स च प्राघूर्णकवत्सल एवं वदति यदुत मदीये गृहे भिक्षार्थ साधु: प्रहेतव्यः, तत्रोच्यतेवास्तव्या एव गमिष्यन्ति। अथैवमुक्तेऽपि निब्बन्ध' ति निर्बन्धं करोति-आग्रहं करोत्यसौ श्रावकस्तत: 'वत्थव्वेणं' वास्तव्येन सहैकेन गन्तव्यं, यत: स एव वास्तव्य: प्राघूर्णकानां प्रमाणमल्पाधिकवस्तुग्रहणे। अथासौ साम्भोगिकवसति: संकुला भवति तत:असइ वसहीऍ वीसुं, राइणिए वसहि भोयणागम्म। असहू अपरिणया वा, ताहे वीसुं सहू वियरे॥१८॥ (भा०) असति-अभावे विस्तीर्णाया वसते: 'वींसु' ति पृथग्-अन्यत्र वसतौ अवस्थानं कुर्वन्ति, तत्र च तेषां को भोजननविधिरित्यत आह'राइणिए वसहि भोयणागम्म' त्ति रत्नाधिकस्य वसतौ भोजनमागभ्य कर्तव्यं, सच रत्नाधिक: कदाचिद्वास्तव्यो भवति, कदाचिदागन्तुक इति। अथान्यतरौ रत्नाधिका: 'असहु' त्ति भिक्षावेलां प्रतिपालयितुमशक्त: तथापरिणता वा साधव: सेहप्राया मा भूद् राटिं करिष्यन्ति तत: 'वी