________________ हिंडग 1214 - अमिधानराजेन्द्रः - भाग 7 हिंडग ऽपिन पर्याप्यते तदा किम् ? असंथरंताणं अणुघट्टताणं अतृष्यन्त: सर्व एवाटन्ति, या तु वसति: पूर्वलब्धा तां कथमन्विषन्ति ? 'तह चेव' त्ति यथा भिक्षामन्विषन्ति एवं वसतिमपि सर्वे पूर्वप्रप्युपेक्षितामन्विषन्ति, अन्विष्य च तत्रैव प्रविशन्ति। यदा तु पूर्वप्रत्युपेक्षिताया वसतेयाघातो जातस्तदाऽपि तह चेव' त्ति यथा हि भिक्षा मार्गयन्ति तथा वसतिमपि, लब्धायांच तत्रैव परस्परंहिण्डन्त:कथयन्ति। वसहीएनिअट्टिअव् 'ति। इदानी "पढमबिइयाए"त्ति इदं द्वारं भाष्यकृत् व्याख्यानयन्नाह- / पढमबितियाए गमणं, बाहिं ठाणं च चिलिमिणी दोरे। घित्तूण इंति बसहा, बसहिं पडिलेहिउंपुट्विं // 3 // * प्रथमपौरुष्यां गमनं-प्राप्तिर्भवति तत्र क्षेत्रे, कदाचिद् द्वितीयायां प्राप्तिस्तत: को विधिरित्यत आह- 'बाहिं ठाणंच' बहिरेव तावदवस्थानं कुर्वन्ति, स्थिताश्चोत्तरकालं ततश्विलिमिणी-जवनिकां दवरिकाश्च गृहीत्वा प्रविशन्ति वसतौ वृषभाः, ग्रहणद्वारं व्याख्यातम् / किं कर्तुं ? - वसतिं प्रत्युपेक्षितुम्, वसति प्रत्युपेक्षणार्थं प्राग् वृषभा गृहीतचिलिमिलिन्युपकरणा आगच्छन्ति पडिलेहण' त्तिद्वारं भणितम्। दारं एवं तावत्पूर्वप्रत्युपक्षितायां वसतौ विधि:, यदा तु पुन: पूर्वप्रत्युपेक्षितायां व्याघातस्तदावाघाए अण्णं म-ग्गिऊण चिलिमिणिपमज्जणा वसहे। तत्ताण मिक्खवेलं,संघाडेगो परिणओ वा / / 103 || पूर्वप्रत्युपेक्षिताया वसतेयाघाते सति अन्यां वसतिं मार्गयित्वा तत: किश्चित् 'चिलिमिणिपमज्जणा वसहे' त्ति ततो वृषभाश्चिलिमिलिन्यादीनि गृहीत्वा प्रमार्जयन्ति। 'पत्ताण भिक्खवेलं' यदा तु नुपर्भिक्षावेलायामेव प्राप्तास्तदा किं कर्तव्यम् ? 'काले' त्ति भणितं, 'संघाडे ' त्ति सङ्घाटको वसतिप्रत्युपेक्षणार्थ प्रेष्यते, 'संघाडेत्ति भणिअं' 'एगोव' ति सङ्घाटकाभावे एको वा प्रेष्यते, किंविशिष्ट: ? परिणत:-गीतार्थ:, 'एगो त्तिभणिअं' यदा तु पुनरेको नास्तितदा किम् ? सवे वा हिडंता, वसहिं मग्गंति जह व समुयाणं। लद्धे संकलिअनिवे-अणं तु तत्थेव उ निय? || 184 // सर्वे वा हिण्डन्त एव वसतिं मार्गयन्ति-अन्विषन्ति, कथं ? 'जह व समुदाणं' यथा समुदान-भिक्षां प्रार्थयन्ति-निरूपयन्ति एवं वसतिमपि अन्विषन्ति, 'तह चेव' ति अवयवो भणित:, 'लद्धे संकलिअनिवेअणं तु' भिक्षामटर्लिन्धायां वसतौ संकलिकया निवेदन-यो यथा यं पश्यति सतथा तं वक्ति-यदुत इह वसतिलब्धा इह निवर्तनीयं, तस्मात्तस्यामेव च वसतौ निवर्तते। तत्र च प्रवेशे को विधि:? एक्को धरेइ भाणं, एक्को दोण्ह वि पवेसए उवहि। सव्वो उवेइ गच्छो, सबालवुड्डाउलो ताहे // 183 / / एको धारयति-संघट्टयति भाजनं पात्रकम् एक:-अन्यस्तस्य द्वितीय: बहिर्व्यवस्थित: गच्छात् सकाशाद् भिक्षामटद्भयां भुक्तामुपधिंद्वयोरपीति आत्मन: संबंन्धिनं तस्य च पात्रकसंघट्टयितु: संबन्धिनीमुपधिं प्रवेशयति, ततउत्तरकालंगच्छ उपैति-प्रविशति सबालवृद्धत्वादाकुल: तदा-तस्मिन् काले। दारं। चोयगपुच्छा दोसा, मंडलिबंधम्मि होइ आगमणं / संजमआयक्तिहण, वियालगहणे य जे दोसा / / 106 / / चोदकस्य पृच्छा चोदकपृच्छा, चोदक एवमाह-यदुत बाह्यतएव भुक्त्वा प्रवेश: क्रियते, किं कारणम् ? उपधिमानयत: क्षुधार्तस्य तृषितस्य च ईर्यापथमशोधयत: संयमविराधना, उपधिभाराक्रान्तस्वः कण्टकादीननिरूपयत आत्माविराधना, ततश्च बहिरेव भुक्त्वा विकाले प्रविशन्तु। आचार्यस्त्वाह-बहिर्भुञ्जतां दोषाः कथं ? मण्डलिबन्धे सति आगमनं भवति सागरिकाणाम्, तत्र च संयमात्मविराधना भवति 'वियालगहणे' त्ति विकालवेलायां च वसतिग्रहणे ये दोषा भवन्ति ते वक्ष्यन्ते। द्वारगाथेयम्। चोदकपृच्छेति व्याख्यानयन्नाह अइभारेण उ इरिअं, न सोहए कंठगाइ आयाए। मुत्तहिअ वोसिरिआ, अइंतु एवं जढा दोसा / / 187 // चोदक एवमाह-यदुतगच्छसमीपादुपधिं प्रवेशयन्तदतिभारेण बुभुक्षया चपीडित: सन्नीर्यापथिकां न शोधयति यतोऽत: संयमविराधना भवति, तथा कण्टकादी निचन पश्यति बुभुक्षितत्वादेव यतोऽत आत्मविराधना भवति, तस्माद् ‘भुत्तट्टिय' त्ति बहिरेव भक्ता: सन्त:, तथा 'वोसिरिय' त्ति उच्चारप्रश्रवणं कृत्वा तत: 'अइंतु' ति प्रविशन्तुक ? वसती, एवं जढा 'दोस' ति एवं क्रियमाणे दोष: आत्मविराधनादयः परित्यक्ता भवन्ति / एवमुक्ते सत्याहाचार्य:आयरिअवयण दोसा, दुविहा नियमा उसंजमायाए। वग्रह न तुज्झ सामी, असंखडं मंडलीए वा।। 188|| आचार्यस्य वचनम्, आचार्यवचनं, किं तदित्याह- 'दोसा' बाह्यतो भुञ्जतां दोषा भवन्ति द्विविधा: नियमाद्-अवश्यतया, 'संजम' त्ति संयमविराधनादोष: 'आयाए' त्ति आत्मविराधनादोषः / तत्र संयमविराधनादोष एवं भवति-तत्रच भोजनस्थाने सागारिका यदि बहवस्तिष्ठन्ति ततस्ते साधयो भिक्षामटित्वाऽऽगता: सन्तो यद्येवं भणन्ति-यदुत 'वच्चह' हे सागारिका गच्छतास्मात्स्थानात्, ततश्चैवमुच्यमाने संयमविराधना भवति। आत्मविराधना चैवं भवति-यदा ते सागारिका उच्यमाना न गच्छन्ति, किन्त्वेवं भणन्ति- 'न तुज्झ सामी' नास्य प्रदेशस्य भवन्त: स्वामिनः, ततश्च असंखडं भवति। 'मंडलीए व ' ति अथ मण्डल्यांजातायां सत्याम्कोऊहल आगमणं, संखोभेण अकंठगमणाई। ते चेद संखडाई, वसहिं वनदेति जे वनं / / 106 / / मण्डलकायांजातायांकौतुकेन सागारिका आगमनं कुर्वन्ति,ततश्च ‘संखोभेणं" त्ति संक्षोभेण तेषां प्रवजितानां अकण्ठगमनादि-कण्ठेन भक्तकवलो नोपक्रामति, 'तेचेव संखडाई' तितएव वा संखडादयो दोषा भवन्ति बसहिं