________________ हिंडग 1211- अभिधानराजेन्द्रः - भाग 7 हिंडग पडिछाहिगरण तेणे, नढे खग्गूड संगारो॥ 175 / / तदुभयं-सूत्रपौरुषीमर्थपौरुषी च कृत्वा व्रजन्ति, 'सुत्तं' ति सूत्रपौरुषीं वा कृत्वा व्रजन्ति, अथ दूरतरं क्षेत्रं भवति तत: पादोनप्रहर एव पात्रप्रतिलेखनामकृत्वा व्रजन्ति, 'उगाय' त्ति उद्गतमात्र एव वा सूर्ये गच्छन्ति, 'अणुग्गय' त्ति अनद्गते वा सूर्ये रात्रावेव गच्छन्ति, 'पडिच्छं' तिते साधवस्तस्माद्विनिर्गता: परस्परं प्रतीक्षन्ते, 'अधिकरणं' त्ति अथ ते साधवो न प्रतीक्षन्ते ततो साधमजामाना: परस्परत: पूत्कुर्वन्ति, तेन च पूत्कृतेन लोको विवुध्यते, ततश्चाकरण भवति, 'तेण' त्ति स्तेनका था विबुद्धाः सन्तो मोषणार्थं पश्चाद् व्रजन्ति, 'नट्ठ' ति कदाचित्काश्चिनश्यति,ततश्च प्रदोष एव सङ्गारः क्रियते, अमुकत्र विश्रमणं करिष्याम: अमुकत्र भिक्षाममुकत्र वसतिमिति। ततश्च रात्रौगच्छद्भिः संडेत: क्रियते। 'खगूडे' त्ति कश्चित् खगूडप्रायो भवति, सइदं ब्रूते-यदुतसाधूनां रात्री न युज्यते एवं गन्तु पुन:, स आस्ते, ततश्च , 'संगारो' त्ति संकेतं खग्गूडाय प्रयच्छन्ति, यदुतत्वयाऽमुकत्र देशे आगन्तव्यमिति। इदानीमस्या एव गाथाया भाष्यकृत् कांश्चिदवयवान् व्याख्यानयति, तत्र प्रथमावयवं व्याख्यानयन्नाहपडिलेहंतधिबें-टियाउ काऊण पोरिसि करिति। चरिमा उग्गाहेउं, सोचा मज्झणिह वचंति // 79 // ते हि साधवः प्रभातमात्र एव प्रतिलेखयित्वा उपधिकां पुनश्च वेण्टलिका कुर्वन्ति-संवर्तयन्तीत्यर्थः / ततश्चानिक्षिप्तोषध्य एव पोरिसि करेंति' सूत्रपौरुषीं कुर्वन्ति, 'चरिमा उग्गाहेउ' त्ति चरिमवेलायां पादोनपौराष्या पात्रकाणि उद्गृह्य-संयन्त्रयित्वा पुनश्चानिक्षिप्तैरेव पात्रकै: 'सोय' त्ति श्रुत्वा अर्थपौरुषीं कृत्वेत्यर्थः, ततो मध्याहे व्रजन्तीति। ते च शोभन एवाहि व्रजन्तीति। अतएवाह-(भा०) तिहिकरणम्मि पसत्थे, नक्खत्ते अहिवइस्स अणकूले।। घेत्तूण निति वसभा, अक्खे सउणे परिक्खंता॥५०॥ 'तिथौ प्रशस्तायां, करणे' च बवादिके प्रशस्ते नक्षत्रे वा अधिपते:आचार्यस्य अनुकूले सति गृहीत्वा अक्षान् प्राग् वृषभा निर्गच्छन्ति। किंकुर्वाणा अत आह- 'सउणे परिक्खंता' शकुनान्-प्रशस्तान्परीक्षमाणा: सन्तो वृषभा निर्गच्छन्तीति पश्चादाचार्याः / किं पुन: कारणं पश्चादाचार्या निर्गच्छति ? तत्र कारणमाह-(भा०) वासस्सय आगमणे, अवसउणे पठिआ निवत्तंति। ओभावणा पयवणे, आयरिआमग्गओ तम्हा // 1 // वर्षणं वर्षस्तस्यागमनं कदाचिद्भवति, अपशकुने वा दृष्टे प्रस्थिता अपि निवर्तन्ते वृषभाः। यदि पुनराचार्या एव प्राग् निर्गच्छन्ति ततोऽपशकुनदर्शन वृष्टौ च निवर्तमानस्य सत: किं भवति? अत आह- 'ओहवणा पवयणे' प्रवचने हीलना भवति, यदुत-यदति ज्योतिषिकाणां विज्ञानं तदप्येतेषां नास्तीति, 'आयरिया मग्गओ' त्ति अत आचार्या मार्गत:पृष्ठतो निर्गच्छन्तीति। गच्छद्भिश्च शकुना अशकुना वा निरूपणीयाः, तत्रापशकुन प्रतिपादयन्नाह-(भा०) मइलकुचेले अब्भ-गिएलए साण खुजवडभे य / एए उ अप्पसत्था, हवंति खित्ताउ निंताणं // 12 // नारी पीवरगन्मा,वडकुमारी य कट्ठभारो अ। कासायवत्थ कुचं-घराय कजं न साहेति / / 3 / / मलिनः शरीरकर्पटै: कुचेलो-जीर्णकपट:, 'अब्भंगिएल्लिय' त्ति स्नेहाभ्यक्त शरीर: श्वा यदि वामपादक्षिणपार्श्व प्रयाति कुब्जो-वक्र: वडभो-वामन:, एतेऽप्रशस्ता:-पीवरगर्भा-आसन्नप्रसवकाला। शेवं सुगमम्। चकयरम्मि (चक्रधरे भ्रमणं क्षुधा मरणं च पाण्डुराने तब कित्र रुधिरपातं वोटिके शिते ध्रवं मरणम्) भमाडो, भुक्खामारो य पंडुरंगम्मि। तबनि रुहिरपडणं, बोडियमसिए धुवं मरणं / / जंबू चासमऊरे, भारद्दाएतहेव नउले अ। दंसणमेव पसत्थं, पयाहिणे सव्वसंपत्ती॥५४॥ (भा०) सुगमा। नंदी तूरं पुण्ण-स्स दंसणं संखपडहसदो य। भिंगारछत्तचामर, धयप्पडागा पसत्थाई॥५५॥ (भा०) सुगमम्। नवरं-पूर्णकलशदर्शनं, ध्वज एव पताका ध्वजपताका। समणं संजयं दंतं, सुमणं मोयगा दहिं। मीणं घंटे पडागं च, सिद्धमत्थं विआगरे॥८६॥ (भा०) श्रमण:-लिगमात्रधारी संयतः सम्यक् संयमानुष्ठाने यत:-यत्नपर: दान्तः इन्द्रियनोदन्द्रियैः सुमनस:-पुष्पाणि, शेषं सुगमम्। गच्छंश्वासौसेजातरेऽणुभासइ, आयरियो सेसगा चिलिमिलीए। अंतो गिणहन्तुवर्हि, सारविअपडिस्सया पुटिव // 187 / / व्रजनसमये शय्यातराननुभाषते-व्रजाम इत्येवमादिआचार्य: / 'सेसगा चिलिमिलिए अंतो' शेषा: साधव: विलिमिलिण्या:-जवनिकाया: अन्त:अभ्यन्तरे, किम् ? उपधिं गृह्णन्ति-संयन्त्रयन्तीत्यर्थः / 'सारविअपडिस्सया पुटिव' ति किंविशिष्टाः सन्तस्ते साधव उपधिं गृह्णन्ति? समार्जित:-उपलिप्त: प्रतिश्रयो यैस्ते संमार्जित प्रतिश्रया: 'पुटिव व'प्रागेव, प्रथममेवेत्यर्थः। इदानीं क: कियदुपकरणे गलातीत्याहबालाई उवगरणं, जावइयं तरति तत्तिअंगिण्हं। जहण्णे जहाजायं, सेसं तरुणा विरिंचिंति // 55 // बालादयः, आदिशब्दाद्-वृद्धा गह्यन्ते, ते झुपकरणं याव