________________ हिंडग 1210 - अभिधानराजेन्द्रः - भाग 7 हिंडग दो तिण्णि' एवमसौ तस्मिन् क्षेत्रे पञ्चकमेकं धार्यते, अथ तथाऽपि बलं न गृह्णाति द्वौ पञ्चको धार्यते, त्रीन् वा पञ्चकान् धार्यते, पुनरानीयत इति। एवं ते आलोचितशिष्यगणा आचार्याः शय्यातरमापृच्छय क्षेत्रान्तरं संक्रामन्ति। अथन पृच्छन्ति ततो दोष उपजायते। एतदेवाहसागरिअपुच्छगमणं, बाहि(ही)रा मिच्छ, छय कयनासी। / गिहिसाहू अभिधारण, तेणगसंकाइजं चऽणं / / 166 // सागरिकं-शय्यातरम् अनापृच्छ्य यदि गमनं क्रियते ततो 'बाहिर त्ति बाह्या लोकधर्मस्यैते भिक्षवः इत्येवं वक्ति शय्यातरः,येच धर्म लोकधर्म नजानन्ति दृष्ट, ते कथमदृष्टं जानन्ति ? इत्यतः "मिच्छ' त्ति मिथ्यात्वं प्रति पद्यते, 'छेद' ति अपच्छेदो वसतिदानस्य, पुनस्तेऽन्ये वा वसतिन लभन्ते, 'कयणासि' त्ति अकृतज्ञा ह्येते प्रव्रजिता इत्येवं मन्यते; 'गिहिसाधू अभिधारण ति गृही कश्चिछावकस्तमाचार्यमभिधार्यसंचिन्त्यायातः प्रव्रज्यार्थं , तेनाप्यागत्य शय्यातरः पृष्टः-काऽऽचार्यः? सोऽपि रुष्टः सन्नाह-यः कथयित्वा व्रजति सज्ञायते, तंतुको जानाति ? तमाकर्ण्य स श्रावकः कदाचिद्दर्शनमप्युज्झति, लोकज्ञानामप्येषां नास्ति कुतः परलोकज्ञानमिति? कदाचित्साधुः कश्चित्तमाचार्यम् अभिधार्यमनसि कृत्वा उपसंपदादानार्थमायाति, सोऽपि शय्यातरं पृच्छति, शय्यातरोऽप्याह-नजाने क्वगत इति, ततः ससाधुः अनाचारवानाचार्य इति विचिन्त्यान्यत्र गतः, सोऽपि निर्जराया आचार्योऽनाभागी जात इति / तेणग' त्ति कदाचित्तद्गृहं केनचित्तस्मिन्नेव दिवसे मुष्टं भवेत्तत एवंविधा बुद्धिर्भवेत्--यदुतस्तेनास्ते इत्येवं शङ्कां करोति, आदिशब्दाघोषित् केनचित्सह गता, ततो गृहात् तेऽप्यनाख्याय गताः ततश्च शङ्कोपजायते, 'जंचऽपणं तियच्चान्यत् शङ्कादिजातंपत्तनगतंतत्सर्वमुपजायत इति गच्छद्भिश्च शय्यातर आपृच्छनीयः। सच विधिना, यतोऽविधिना पृच्छत एते दोषाःअविहीपुच्छा उग्गा-हिएण सिज्जातरी उरोएज्जा। सागरियस्स संका, कलहे य सएजिआ खिंसे / / 167 // अविधिपृच्छा इयं वर्तते, यदुत-'उग्गाहितेन' उत्क्षिप्तेन उपकरणेन पृच्छति, तत्र 'सेजातरी उ रोएज्जा' तेनाकस्मिकेन गमनेन शय्यातों रोदनं कुर्युः, ततश्च सागारिकस्य-शय्यातरस्य शङ्कोपजायते, कलहे च सति 'साइजिआए' सह सखिक्रियया 'खिंस' त्ति यथा न शोभना त्वं येन त्वया तत्र काले भिक्षोर्गच्छतो रुदितम्। किं च ते स पिता भवति? येन रोदिषीति। अथानागतमेव कथयन्ति-अमुकदिवसे गमिष्यामः, तत्राप्येते दोषाः-- हरिअच्छेपण छप्पइ-य घचणं किचणं च पोत्ताणं / छण्णेयरं च पगयं, इच्छमणिच्छे य दोसा उ॥१६॥ तद्धि शय्यातरकुटुम्ब साधवोयास्यन्तीति विमुक्तशेषव्यापारं सत्गृह एव तिष्ठति, कृष्यादिप्रतिजागरणं न करोति, ततश्च क्षणिकं सत्स्वगृह- | जातहरितच्छेदं करोति। तथा निर्व्यापारत्वादेव चता रण्डाः षट्पदीनां परस्परनिरूपणेनोपमर्द कुर्वन्ति / 'किच्चणं च पोत्ताणं' ति तत्र दिवसे क्षणिका विमुक्तकृषिलवनव्यापारा वस्त्राणि शोधयन्ति। 'छण्णेयरं च पगय' प्राकृतं-भोजनं छन्नं कुर्वन्ति, अप्रगटमित्यर्थः, 'इयरं व' त्ति प्रकटमेव भोजनं संयतार्थ कुर्वन्ति; तत्र चेच्छतामनिच्छतां च दोषा भवन्ति कथं ? यदि तद्भोतनं गृह्णन्ति, ततस्तदकल्पनीयम्, अथ न गृह्णन्तिततो रोषभावं कदाचित्प्रतिपद्यन्ते। एतेदोषा अनागतकथने ततश्च कः / पृच्छाविधिरित्याहजइआ चेव उखेत्तं, गया उपडिलेहगा तओ पाए। सागारियस्स भावं, तणुएंति गुरू इमेहिं तु // 166 // यदैव क्षेत्रं गताः प्रत्युपेक्षकाः 'ततो पाए त्ति ततः प्रभृति सागरिकस्यशय्यातरस्य भावं-स्नेहप्रतिबन्ध तनूकुर्वन्ति, के ? गुरवः एभिः वक्ष्यमाणैर्गाथद्वयोपन्यस्तैर्वचनैरितिउच्छू बोलिंति वइं. तुंबीओ जायपुत्तभंडाय। वसमा जायत्थामा, गामा पव्वायचिक्खल्ला।। 170 // अप्पोदगा यमग्गा, वसुहा वि अपक्कमट्टिआ जाया। अण्णकंता पंथा, साहूणं विहरि कालो // 171 / / एतद्गाथाद्वयं शृण्वतः शय्यातरस्य पठन्ति। ततः सोऽपि श्रुत्वा भणतिकिं यूयं गमनोत्सुकाः? आचार्योऽप्याहसमणाणं सउणाणं, भमरकुलाणं च गोउलाणं च / अनियाओ वसहीओ, सारझ्याणं च मेहाणं // 172 / / सुगमा ततश्चैतां गाथां पठित्वा इदमाचरन्तिआवस्सगकयनियमा, कल्लं गच्छाम तो उ आयरिआ। सपरिजणं सागारिअ,बाहिरि दिति अणुसिहिं / / 173 // आवश्यककृतनियमाः कृतप्रतिक्रमणा इत्यर्थः, विकालवेलायां कृतावश्यका इदं भणन्ति-यदुत कल्लंगच्छामः / पुनश्चतत आचार्याः सपरिजनं सागारिकम् शय्यातरं आहूय अनुशास्तिं ददति-धर्मकथां कुर्वन्तीत्यर्थः। पध्वज सावओवा, दंसणमहो जहण्णयं वसहिं। जोगम्मि वट्टमाणे, अमुगं वेलं गमिस्सामो // 174 // सोऽपिसागारिको धर्मकथा श्रुत्वा एवंविधो भवति-प्रव्रज्यां प्रतिपद्यते, श्रावको वा भवति, दर्शनधरो वा भवति, भद्रको वा भवति, सर्वथा जघन्यतो वसतिमात्रमवश्यं ददाति।पुनश्च धर्मकथां कृत्वाऽऽचार्या एवं ब्रुवते यदुत 'योगे वर्तमाने' योऽसौ योगो गमनाय मां प्रेरयति तस्मिन् वर्तमाने-भवति सति अमुकवेलायां गमिष्याम इति। इदानीं ते विकालवेलायां कथयित्वा प्रत्युषसि व्रजन्ति, किं कृत्वेत्यत आहतदुभयसुत्तं पडिले-हणा य उग्गयमणुग्गये वावि।