________________ हिंडग 1206 - अभिधानराजेन्द्रः - भाग 7 हिंडग न्ति अथ सप्त पञ्च वा ततः सङ्घाटकमेकं मुक्त्वा व्रजन्ति, 'एसुन एसुत्ति शय्यातरेण पृष्टाः सन्तस्तेनैव वदन्तिएष्यामोनवा एष्याम इति, यत एवं भणने दोषः, किं कारणं ? यदैवं भणन्ति यदुत आगमिष्यामः, ततश्च शोभनतरे क्षेत्रे लब्धे सति नागच्छन्ति ततश्चानृतदोषः, अथ भणन्तिनागमिष्यामः ततश्च कदाचिदन्यत्क्षेत्रं न परिद्धषध्यति ततञ्च पुनस्तत्रागच्छतां दोषोऽनृतजनितः। अण्णपहेणं' ति ते हि क्षेत्रप्रत्यु-पेक्षका गुरुसमीपमागच्छन्तोऽन्येन मार्गेणागच्छन्ति, कदाचित्स शोभनतरो भवेत्, 'अगुणंत' त्ति सूत्रपौरुषीमकुर्वन्तः प्रयान्ति, मा भून्नित्यवासो गुरोरिति, किं कारणं? यतस्तेषां विश्रब्धमागच्छतां मासकल्पाऽधिको भवति, ततश्च नित्यवासो गुरोरिति। गंतूण गुरुसमीवं, आलोएत्ता कहेंति खेत्तगुणा। नय सेसकहण मा हो-ज्ज संखडं रत्ति साहति / / 157 / / गत्या गुरुसमीपम् आलोचयित्वा ईर्यापथिकातिचारं कथयन्त्याचार्याय क्षेत्रगुणान्। 'नयसेसकहणं तिनच शेषसाधुभ्यः क्षेत्रगुणान् कथयन्ति। किं कारणं!-माहोज्ज संखड ' मा भवेत् स्वक्षेत्रपक्षपातजनिता राटिरिति, तस्मात् 'रत्ति साहेति' त्ति रात्रौ, मिलितानां सर्वेषां साधूनां क्षेत्रगुणान् कथयन्ति। तेच गत्वा एतत्कथयन्तिपढमाएँ नत्थि पढमा, तत्थ उधयखीरकूरदहिलंभो। विइयाए विइ तइया-ऍ दोवि तेसिं च धुवलंभो / / 158 // ओहासिअधुवलंभो, पाउग्गाणं चउत्थिए नियमा। इहरावि जहिच्छाए, तिकालजोगं च सव्वेसिं / / 156|| प्रथमायां-पूर्वस्यं दिशि नास्ति प्रथमा-नास्ति सूत्रपौरुषीत्यर्थः किन्तु तत्र घृतक्षीरकूरदधिलाभोऽस्ति, अन्ये त्वन्यस्यां दिशि कथयन्ति, द्वितीयायां दिशि नास्ति द्वितीयानास्त्यर्धपौरुषी, यतस्तत्र द्वितीयायां पौरुष्यामेव भोजनं, घृतादिवस्तु लभ्यत एव, 'ततिआए दो वि' त्ति तृतीयायां दिशि द्वे अपि सूत्रार्थपौरुष्यो विद्येते 'तेसिं च धुवलंभो' त्ति तेषां घृतादीनां निश्चितं लाभः / 'अभासिअधुवलंभो' त्ति प्रार्थितस्य ध्रुवो लाभः, केषां ?-प्रायोग्यानां घृतादीनाम् 'चउत्थीए चतुर्थ्यां दिशि नियमात्-अवश्यम् 'इहरावित्ति' अप्रार्थितेऽपि यदृच्छया त्रिकालयोग्य प्रातमध्याह्नसायाल्लेषु त्रिकालमपि 'सव्वेसिं' ति सर्वेषां बालादीनां योग्य प्राप्यत इति। एवं तैः सर्वैः क्षेत्रप्रत्युपेक्षकैराख्याते सत्या चार्यः किं करोतीत्याहमयगहणं आयरिओ, कत्थ वयामो त्ति ?तत्थ ओयरिआ। . खुभिआ भणंति पढम,तं चिअ अणुओगतत्तिल्ला।। 160 // * मतग्रहणम् अभिप्रायग्रहणम् आचार्यः शिष्याणां करोति यदुत भो आयुष्मन्तः ! तत्क्क व्रजामः?–कया दिशा गच्छामः ? तत्रैवमामन्त्रिते शिष्यगणे आचार्येण 'तत्र औदरिका' उदरभरणैकचित्ताः क्षुभिता:आकुला भणन्ति यदुत 'पद्मं तिप्रथमांदिशं व्रजामः यत्र प्रथमपौरुष्यां भुज्यते, 'तं चिय' त्ति तामेव दिशम्, 'अणुओगतत्तिल्ला' व्याख्याना र्थिन इच्छन्ति, यतस्ते सूत्रग्रहणनिरपेक्षाः केवलमर्थग्रहणार्थिनः, तेषां चार्थग्रहणप्रपञ्चो द्वितीयायां पौरुष्यां भवतीत्यतस्तामेवेछन्तीति। बिइयं सुत्तग्गाही, उभयग्गाही अतइययं खेत्तं / आयरिओ अ चउत्थं, सो उपमाणं हवइ तत्थ / / 161 // द्वितीयांच दिशंसूत्रग्राहिण इच्छन्ति, यतः प्रथमपौरुष्यामेव स्वाध्यायो भवति, स च तेषामस्ति, उभयग्राहिणश्च सूत्रार्थग्राहिणस्तृतीय क्षेत्रमिच्छन्ति, आचार्यस्तु चतुर्थ क्षेत्रमिच्छति यतस्तत्र चतुर्थ्यामपि पौरुष्यां प्राघूर्णकादेः प्रायोग्यं लभ्यत इति, स एव प्रमाणम्' आचार्य एव सर्वेषां प्रमाणं भवति 'तत्थे' ति तत्र शिष्यगणमध्ये। किं पुनः कारणम् आचार्याश्चतुर्थमेव क्षेत्रमिच्छन्ति ? अत आहमोहब्भवो उबलिए, दुम्बलदेहो न साहए जोए। तो मज्झबला साहू, दुस्सेणेत्थ दिलुतो / / 162 / / प्रथमद्वितीययोः क्षेत्रयोः प्रचुरभक्तपानकेभ्यः सकाशादलवान् भवति, बलिनश्च मोहोद्भवो भवति-कामोद्भवो भवतीत्यर्थः / आह-एवं तर्हि यत्र भिक्षा न लभ्यते तत्र प्रयान्तु, उच्यते-दुर्बलदेहः कृशशरीरोनसाधयतिनाराधयति योगान्-व्यापारान् यतस्ततो मध्यमबलाः साधव इष्यन्ते। दुष्टाश्वेन चात्र दृष्टान्तः, दुष्टाश्वोगर्दभउच्यते, सयथा प्रचुरभक्षणाद्दर्पितः सन् कुम्भकारारोपितभाण्डकानि भनक्ति दर्पोत्सेकादुत्प्लुत्य, पुनस्तेनैव कुम्भकारेण निरुद्धाहारः सन्नतिदुर्बलत्वात्प्रस्खलितःसन् भनक्ति, स एव च गर्दभो मध्यमाहाराक्रियया सम्यग् भाण्डानि वहति, एवं साधवोऽपि संयमक्रियां मध्यमबला वहन्ति। पणपण्णगस्स हाणी, आरेणं जेण तेण वा धरइ। जइ तरुणा नीरोगा, वचंति चउत्थगं ताहे // 163 // अथ तस्मिन् गच्छे पञ्चपञ्चाशद्वर्षदेशीयाः त्रिंशद्वर्षा वा चत्वारिंशद्वर्षा वा भवन्ति,ततो गम्यते चतुर्थ क्षेत्रं, यतस्ते येन केनचिद् ध्रियतेयापयन्ति तथा यदि च तरुणा नीरोगाः-शक्ता भवन्ति ततश्चतुर्थमेव क्षेत्रं व्रजन्ति / अह पुण जुण्णा थेरा, रोगविमुक्काय साहुणो तरुणा। ते अणुकूलं खेत्तं, पेसंति न यावि खग्गूडे / / 164 // अथ पूनर्जूर्णाः (जीर्णाः) स्थविरा भवन्ति, रोगेण च-ज्वरादिना मुक्तमात्रास्तरुणाः, नाद्यापि येषां साम्यं भवति शरीरस्य, ततस्ताननुकूलं क्षेत्रं प्रेषयन्त्याचार्याः / 'न यावि खग्गूडे' त्ति 'खगूडा' अलसा निर्द्धर्मप्रायास्तान्न प्रेषयन्ति। कियता पुनः कालेन वृद्धादय आप्याय्यन्ते ?,उच्चते पञ्चमात्रैर्दिवसैः, यत उक्तं वैद्यकेएगपणअद्धमासं, सही सुणमणुयगोणहत्थीणं। राइंदिएण उ बलं, पणगं तो एक दो तिनि / / 165 / / एके न रात्रिन्दिवेन शुनो बलं भवति, पशभिर्दिनै मुनुजस्य बलं भवति, अर्द्धमासे न बलीवर्दस्य, षष्टि भिर्दिनै हस्तिनो बलं भवति / एवमेतद्यथासंख्यं योजनीयम् / 'पणगं तो एक