________________ हिंडग 1208 - अभिधानराजेन्द्रः - भाग 7 हिंडग किं प्रशस्ते प्रदेशे आहोश्विदंप्रशस्ते-सिंगखोडादियुक्ते इति, पत्तनमध्ये शालादि, तदभावे 'देउलिआ' देवकुलं शून्यं प्रत्युपेक्ष्यते 'सुन्नगेहमादीणि' शून्यगृहादीनि आदिशब्देन-सभा गृह्यते, तां च वसतिं लब्ध्वा | किं कर्तव्यम् ?-'पाउग्गमणुण्णवणा' प्रायोग्यानां तृणडगलकादीनां शय्यातरोऽनुज्ञापनां कार्यते-यथा उत्संकलय एतानि वस्तूनि। अथासौ प्रायोग्यानि न जानाति 'वियालणे ति विचारयति, प्रायोग्यं किमभिधीयते ? इति, एवंविधे विचारे तस्य शय्यातरस्य कथ्यते 'परिकहणा' यथाऽस्माकं तृणक्षारडगलादि उत्सकलयेत्। एतां नियुक्तिगाथा भाष्यकरो व्याख्यानयति, तत्ररुचित क्षेत्रेस्थण्डिलं परीक्ष्यते, तब बहुवक्तव्यत्वादुपरिष्टावक्ष्यति, वसतिस्तु कीदृशे स्थाने कर्त्तव्या कीदृशे च न कर्त्तव्येति व्याख्यानयन्नाहसिंगक्खोडे कलहो, ठाणं पुण नेव होइ चलणेसुं। अहिठाणि मोठरोगो, पुच्छम्मि अ फेडणं जाण 76 (भा०) मुहमूलम्मि अचारी, सिरे य कउहे य पूयसकारो। खंधे पट्ठी भरो, पोट्टम्मिय धायओ वसहो।। 77 // (भा०) तत्र वामपार्वोपविष्टपूर्वाभिमुखवृषभरूपं क्षेत्रं बुद्ध्या कल्पयित्वा तत इदमुच्यते-श्रृङ्गखोडे-श्रृङ्गप्रदेशे यदि वसतिं करोति ततः कलहो भवतीति क्रियां वक्ष्यति, स्थानम्-अवस्थिति स्ति चरणेषुपादप्रदेशेषु, अधिष्ठाने-अपानप्रदेशे वसतौ क्रियमाणायामुदररोगो भवतीति क्रिया सर्वत्र योजनीया। 'पुच्छे पुच्छप्रदेशे फेडणं' अपनयनं भवति वसत्याः। मुखमूले चारी भवति, शिरसि-श्रृङ्गयोर्मध्ये ककुदें च पूजासत्कारो भवति, स्कन्धे पृष्ठे च भारो भवति, साधुभिरागच्छद्भिराकुलो भवति, उदरप्रदेशे तु नित्यं तृप्त एव भवति क्षेत्रवृषभः। वसतिर्व्याख्यात, तद्व्याख्यानाच देवकुलशून्यगृहाद्यपि व्याख्यातमेव द्रष्टव्यम् / इयं च वृषभपरिकल्पना यावन्मात्रं वसतिनाऽऽक्रान्तं तस्मिन् नोपरिष्टात्, उपरिष्टात्तु तदनुसारेण कर्तव्या वसतिः। अधुना ‘पाउग्गअणुण्णवणे' त्यमुमेवावयवं व्याख्यानयन्नाह, तत्र प्रायोग्यानामनुज्ञापना कर्तव्या-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतःदव्वे तणडगलाई, अच्छणभाणाइधोवणा खेत्ते / काले उच्चाराई, भावेण गिलाणकूरुवमा // 78 // (भा०) द्रव्यतः-द्रव्यमङ्गीकृत्य तृणानां संस्तारकार्थं डगलानां च अधिष्ठानप्रोञ्छनार्थ लेष्ठूनामनुज्ञापना--क्रियते 'अच्छणं ति आस्या यत्राऽऽस्यते यथासुखेन स्वाध्यायपूर्वकं 'भाणादिधोवणा' भाजनादिधावनंक्षालनं पात्रकादेर्यत्र क्रियते सा क्षेत्रानुज्ञा / कालविषयाऽनुज्ञा दिवा रात्री वा उचारादिव्युत्सर्जनम्। भावविषयाऽनुज्ञापना ग्लानादेः साम्यकरणार्थनिवातप्रदेशाद्यनुज्ञापना क्रियते / इदानीं 'वियालणे तस्स परिकहण' त्ति अमुमवयवं-व्याख्यानयन्नाह-'कूरुवमा' यदा शय्यातर एवं ब्रूतेइयति प्रदेशे मयाऽवस्थानमनुज्ञातं भवतां नोपरिष्टात, तदा तस्य परिकथना क्रियते कूरदृष्टान्तेन / यो हि भोजनं कस्यचिद्ददाति स नियमेनैव भोजनोदकासेचनाद्यपि ददात्यनुक्तमपि सामर्थ्याक्षिप्तम्, एवं वसतिं प्रयच्छता उचारप्रश्रवणभूम्यादि सामाक्षिप्तं सर्वमेव दत्तं भवति / अथवा-इदमसौ शय्यातरो विचारयति-कियन्तं कालमत्र स्थास्यन्ति भवन्तः? अस्मिन् विचारे "तस्सपरिकहणा"जाव गुरूण य तुज्झ य, केवइया तत्थ सागरेणुवमा। केवइकालेणेहिह ?,सागार ठवंति अण्णे वि॥ 153 / / यावद् गुरूणां 'ते'-तव च प्रतिभाति तावदवस्थानं करिष्यामः, अथैवमसौ विचारयति-'वियालणा' यदुत 'कंवइआ' कियन्त इहावस्थास्यन्ते? 'तस्स परिकहणा' क्रियतेसागरेणोपमा, यथा हि सागरः वचित्काले प्रचुरसलिलो भवति क्वचित्पुनर्मर्यादावस्थ एव भवति, एवं गच्छोऽपि कदाचिद्रहुप्रव्रजितो भवति कदाचित्स्वल्पप्रव्रजित इति / अथासौ पुनरपि 'विआल' ति विचारयति यथा 'केवइ कालेणेहिह' त्ति कियता कालनागमिष्यथ? एवमुक्ताः सन्तः साधवः तत्र 'सागारठर्विति' सविकल्पं कुर्वन्तीत्यर्थः / कथं कुर्वन्ति ?-'अन्ने वि' अन्येऽपि साधवः क्षेत्रप्रत्युपेक्षणार्थं गता एव, ततश्च तदालोचनेनागमिष्याम इति। पुष्वद्दिढे इच्छइ, अहव भणिज्जा हवंतु एवइया। तत्थन कप्पइ वासो, असई खेत्ताणऽणुनाओ // 15 // यदा त्वसौ पूर्वद्दष्टानेवेच्छतियैः प्राग्मासकल्पः कृतःस्वभावेनेालुः स दृष्टप्रत्ययानिच्छति, नान्यान्, तत्र न कल्पते वासः। अथवा-भणेदसौ एतावन्त एवात्र तिष्ठन्तु, तत्र'नकल्पते वासः नयुज्यतेऽवस्थानं, यतः साधवः कदाचित्स्तोकाः कदाचिद्रहवो भवन्ति। अथान्यानि क्षेत्राणि न सन्ति तदा असति-क्षेत्राणामन्येषामभावे 'अणनाउ' त्ति तस्यामेव वसतावनुज्ञातो वासः। शेषक्षेत्राभावे सति तत्र च नियतपरिमितायां वसतौ यदि प्राधूर्णका आगच्छन्ति ततः को विधिरित्यत आहसकारो सम्माणो, भिक्खग्गहणं च होइ पाहुणए। जइजाणउ वसइतहिं, साहम्मिअवच्छलाऽऽणाई॥ 15 // सत्कारः-दन्दनाभ्युत्थानादिकः सन्मानः-पादप्रक्षालनादिकः भिक्षाग्रहणं-भिक्षानयनं च एतत्प्राघूर्णके आगते सति क्रियते / पुनश्च तस्य प्राघूर्णकस्य वसतिस्वरूपं कथ्यते यथा-परिमितैरेवैषा लब्धा, नान्यस्यावकाशः, ततश्च त्वयाऽन्यत्र वसितव्यम्। 'यदि जाणउ वसई तहिं ति एवमसावुक्तोज्ञोऽपि सन्-यदिजानन्नपि तत्र वसति ततः को दोषोऽत आह-'साहम्मिअवच्छलाऽऽणाई' साधर्मिकवात्सल्यं न कृतं भवति, यतोऽसौ शय्यातरो रुष्टस्तानपि निर्धाटयति, आज्ञाभङ्गश्च कृतः-आज्ञालोपश्चैवं कृतो भवति सूत्रस्य, आदिशब्दात्तद्रव्यान्यद्रव्यव्यवच्छेदः। इदानी ते क्षेत्रप्रत्युपेक्षका आचार्यसमीपमागच्छन्तः किं कुर्वन्तीत्यत आहजइ तिनि सव्वगमणं, एसुन एसु त्ति दोसु वि अ दोसा। अण्णपहेणऽसुणंता, निययावासोऽहमा गुरुणो / 156 // यदि ते क्षेत्रप्रत्युपेक्षकास्त्रय एव ततः सर्व एव गमनं कुर्व