________________ संजय EL - अभिधानराजेन्द्रः - भाग 7 संजय भवो तेसिं / न बहुगुणाणं पिजओ, केवलसंभूइपरिणामो।।१।।" तद्भावाऽभावात् संयमपदरहिताः, शेषाः संसारस्था असंयताःअसंयतपदसहिता भवन्ति, न शेषपदसहिताः / प्रज्ञा० 32 पद / संयमाश्चतुर्द्धा, असंविग्नाः गीतार्थाः,संविग्नाःगीतार्थाः गीतार्थाः संविग्नाः,असंविग्नाः अगीतार्याश्च / बृ०१ उ० 2 प्रक० / वीरेण सह प्रव्रजिते स्वनामख्याते राजपुत्रे, स्था०८ ठा०३ उ० / स्वनामख्याते काम्पिल्यराजे, ती० 25 कल्प। उत्त० / सञ्जयशब्दनिक्षेपायाह नियुक्तिकृत्निक्खेवो संजइज्ज-म्मि चउविहे दुविहे उ होइ दव्वम्मि। आगम नोआगमतो, नोआगमओ य सो तिविहो // 262 / / जाणगसरीरभविए, तव्वइरित्ते य से पुणो तिविहो। एगभवियबद्धाउय, अभिमुहओ नामगोए य / / 363 / / संजयनाम गोयं, वेयंतो भावसंजओ होइ। तत्तो समुट्टियमिणं, अज्झयणं संजइज्जं ति।।३६४|| गाथात्रयं व्याख्यातप्रायम्, नवरं 'णिक्रोवो संजइज्जम्मि'त्ति निक्षेपःन्यासःसञ्जयीयाध्ययने अर्थात-सञ्जयस्येति गम्यते। तथा च तृतीयगाथायां 'संजयनाम गोयं वेयंतो' इत्युक्त 'तत' इति सञ्जयादभिधेयभूतात् समुत्थितम्-उत्पन्नम् इदम् अध्ययनं सञ्जयीयमिति, तस्माद्धेतोरूच्यत इति गाथात्रयार्थः / इत्युक्तो नामनिष्पन्ननिक्षेपः / सम्प्रति सूत्रालापकनिष्पन्नस्यावसरः, सच सूत्रे सति भव त्यतः सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् - कंपिल्ले नयरे राया, उदिन्नबलवाहणे। नामेणं संजओ नाम, मिगव्वं उवनिग्गए।।१।। काम्पिल्ये नगरे राजा नृपतिरूद्दीर्णम्-उदयप्राप्तं बलं-चतुरङ्ग वाहनं | च-गिल्लिथिल्ल्यादिरूप यस्य सोऽयमुदीर्णबलवाहनः / यद्वा बलंशरीरसामर्थ्य बाहन-गजाश्वादि पदात्युपलक्षणं चैतत्, स च नाम्नाअभिधानेन सञ्जयः नाम इति प्राकाश्ये, ततोऽयमर्थः-संजयः इति नाम्ना प्रसिद्धो, मृगव्यांमृगयां प्रतीति-शेषः, उपसामीप्येन निर्गतो निष्क्रान्त उपनिर्गतस्तत एव नगरादिति शेषः / इति सूत्रार्थः। सच कीदृग विनिर्गतः,किश्च कृतवानित्याहहयाणीए गयाणीए,रहाणीए तहेव य।। पायत्ताणीए महया, सव्वओ परिवारिए।।२।। मिए छुमित्ता हयगओ, कंपिल्लुजाणकेसरे। भीए संते मिए तत्थ, वहेइरसमुच्छिए / / 3 / / पाठसिद्धम्, नवरं पदातीनां समूहः पादातं तस्यानीकंकटकं पा- | दातानीकं तेन, सुब्यत्ययः प्राग्वत्, एवं पूर्वेष्वपि, महता-बृहत्प्रमाणेन मृगान् क्षिप्त्वा 'कंपिल्लुजाणकेसरि' त्ति तस्यैव काम्पिल्यस्य नगरस्य सम्बन्धिनि केशरनाम्न्युद्याने भीतान्-त्रस्तान् सतो मितान्-परमितान् तत्र-तेषु मृगेषु मध्ये 'वहेइ' त्ति व्यथति-हन्तिवा, शरैरिति गम्यते, रसःतत्पिशितास्वादस्तत्र मूर्छितो-गृद्धो रसमूर्छित इति सूत्रद्वयार्थः / अमुमेवार्थ सूत्रस्पर्शिकनियुक्त्या स्पष्टयितुमाहकंपिल्लपुरवरिम्मि अ, नामेणं संजओ नरवरिंदो। सो सेणाए सहिओ, नासीरं निग्गओ कयाइ॥३६५।। हयमारूढो राया, मिए छुहित्ताण केसरूजाणे / ते तत्थ उ उत्तत्थे, वहेइ रसमुच्छिओ संतो॥३६६|| गाथाद्वयं प्रतीतमेव, नवरमिह नासीरं-मृगयां प्रति उत्त्रस्तानअतिभीतानिति गाथाद्वयार्थः / अत्रान्तरे यदभूत्तदाह सूत्रकृत्अह केसरम्मि उज्जाणे, अणगारे तवोधणे! सज्झायझाणजुत्तो, धम्मज्झाणं झियायइ |4|| अप्फोवमंडवम्मी, झायई झवियासवे / तस्सागए मिए पासं, वहेई से नराऽहिवे // 5 // अथ-अनन्तर केशरे उद्यानेऽनगारस्तपोधनः स्वाध्यायः-अनुप्रेक्षणादिानधर्मध्यानादि ताभ्यां युक्तो-यथाकालं तदासेवकतया सहितः स्वाध्यायध्यानयुक्तोऽत एव धर्मध्यानम्-आज्ञाविजयादि 'झियायइ' त्तिध्यायति चिन्तयति, क्व? 'अप्फोवमंडवम्मि' त्ति वृक्षाद्याकीर्णे, तथा च वृद्धाः- 'अप्फोव' इति / किमुक्तं भवति ? आस्तीर्णे, वृक्षगुच्छगुल्मलतासंछन्न इत्यर्थः, मण्डपेनागवल्ल्यादिसम्बन्धिनि ध्यायति धर्मध्यानमिति गम्यते, पुनरभिधानमतिशयख्यापकम् 'झविय' त्ति क्षपिता निर्मलिता आश्रवाः कर्मबन्धहेतवो हिंसादयो येन स तथा, तस्यइत्युक्तविशेष्णाविन्वतस्यानगारस्य पाश्चसमीपमिति सम्बन्धः, आगतान प्राप्तान मृगान् 'वहेइ'त्ति विध्यति हन्ति वा स इति-सञ्जयनामा नराधिपः-राजेति सूत्रद्वयार्थः। अमुमेवार्थ सविशेषमाह नियुक्तिकृत्अह केसरमुजाणे, नामेणं गद्दभालि अणगारो। अप्फोवमंडवम्मि अ, झायइ झाणं झविअदोसो // 367|| 'अहे' ति गाथा व्याख्यातप्रायैव / नवरं नाम्ना अभिधानेन गर्दभालिनामेत्यर्थः, 'झविय' त्ति क्षपिता दोषाः कर्माश्रवहेतुभूता हिंसादयो येन स तथा। पुनस्तत्र यदभूत्तदाहअह आसगओ राया, खिप्पमागम्म सो तहिं। हए मिए उपासित्ता, अणगारं तत्थ पासइ / / 6 / / अथ-अनन्तरम् अश्वगतः-तुरगारूढो राजा क्षिप्रं-शीघ्रमागत्य 'स' इति-सञ्जयनामा तस्मिन-यत्र मण्डपे स भगवान् ध्यायति, हतान्विनाशितान् मृगान तुशब्द एवकारार्थस्ततो मृगानेव, न पुनरनगारमित्यर्थः 'पासित' त्ति दृष्ट्वा अनगारं-साधं तत्र इति-तस्मिन्नेव स्थाने पश्यतीति सूत्रार्थः।