________________ संजय 18 - अभिधानराजेन्द्रः - भाग 7 संजय - - उक्कोसेणं अट्ठारससागरोवपकोडाकीओ'त्ति किलोत्सपिण्यां चतुर्विशतितमजिनतीर्थे छेदोपस्थापनीयं प्रवर्तते, ततश्च सुषमदुष्पमादिसमात्रये क्रमेण द्वित्रिचतुः सागरोपमकोटीकोटीप्रमाणे अतीते अवसपिण्याचेकान्तसुषमादित्रये क्रमेण चतुरित्रद्विसागरोपमकोटीप्रमाणे अतीतप्राये प्रथमजिनतीर्थे छेदोपस्थापनीय प्रवर्तत इत्येवं यथोक्त छेदोपस्थापनीस्यान्तरं भवति। यच्चेह किञ्चिन्न पूर्यते यच पूर्वसूत्रऽतिरिच्यते तदल्पत्यान्न विवक्षितमिति। 'परिहारविसुद्धियस्से' त्यादि, परिहारविशुद्धिकसंयतस्यान्तरं जघन्यं चतुरशीतिवर्षसहस्राणि, कथम्? अवसपिण्या दुष्षमैकान्तदुष्पमयोरूत्सपिण्याश्चैकान्तदुष्षमादुष्षमयोः प्रत्येकमेकविंशतिवर्षसहस्रप्रमाणत्वेन चतुरशीतिवर्षसहसाणां भवति तत्र च परिहारविशद्धिकं न भवतीति कृत्वा जधन्यमन्तरं तस्य यथोक्तं स्यात्, यश्चेहान्तिमजिनानन्तरो दुष्षमायां परिहारविसुद्धिककालो यश्चोत्सर्पिण्यास्तृतीयसमायां परिहारविशुद्धिकप्रतिपत्तिकालात्पूर्वः कालो नासौ विवक्षितोऽल्पत्वादिति, 'उक्कोसेणा अट्ठारससागरोवमकोडाकोडीओ' त्ति छेदोपस्थापनीयोत्कृष्टान्तरवदस्य भावना कार्येति / परिणामद्वारे'छेदोवट्ठावणिये' इत्यादौ 'जहन्नेणं कोडीसयहुपुत्तं उक्कोसेण वि कोडीसयपुहुत्त'ति, इहोत्कृष्ट छेदोपस्थापनीयसंयतपरिमाणमादितीर्थकरतीर्थान्याश्रित्य संभवति, जघन्यं तु तत्सम्यग् नायगम्यते, यतो दुषमान्ते भरतादिषु दशसु क्षेत्रेषु प्रत्येकं तवयस्य भावाद्विशतिरेव तेषां श्रूयते। केचित्पुनराहुः-इदमप्यादितीर्थकराणा यस्तीर्थकालस्तदपेक्षयैव समवसेयम्, कोटीशतपृथक्त्वं च जघन्यमल्पतरमुत्कृष्ट च बहुतरमिति। अल्पबहुत्वद्वारे- 'सव्वत्थोवा सुहमसंपरामसंजय' त्ति स्तोकत्वात्तत्कालस्य निर्ग्रन्थतुल्यत्वेन च शतपृथक्त्वप्रमाणत्वात्तेषां, 'परिहारविशुद्धियसंजया संखेज्ज्गुण' त्ति तत्कालस्य बहुत्वात पुलाकतुल्यत्वेन च सहस्रपृथक्त्वमानत्वात्तेषाम्, 'अहक्खायसंजया संखेजगुण' त्ति कोटीपृथक्त्वमानत्वात्तेषा, छेदोवट्ठावणियसंजया संखेज्जगुण' त्ति कोटीशतपृथक्त्वमानतया तेषामुक्तत्वात्, 'सामाइयसंजया संखंजगुण' त्ति कषायकुशीलतुल्यतया कोटीसहस्रपृथक्त्वमानत्वेनोक्तित्वात्तेषामिति / भ० 25 श०७ उ०। जीवाणं भंते ! किं संजया, असंजया, संजयासंजया, नोसंज या, नोअसंजया, नोसंजयासंजया? गोयमा! जीवा संजया वि 1, असंजया वि 2, संजयासंजया वि३, नोसंजया, नोअसंजया, नोसंजयासंजया वि 4 / नेरझ्या णं भंते ! पुच्छा, गोयमा! नेरइया नो संजया असंजया नोसंजयासंजया नो नोसंजय नोअसंजयनोसंजया, एवं.जाव चउरिदियपंचिंदियतिरिक्खजोणियाणं पुच्छा,गोयमा! पंचिंदियतिरिक्खजोणिता नो संजता असंजता वि संजतासंजता वि नो नोसंजतनोअसंजतनोसंजतासंजता वि, मनुस्साणं पुच्छा, गोयमा ! मणूसा संजता वि असंजता वि संजतासंजता वि, नो-नोसंजतनोअसंजतनोसंजतासंजता, वाणमंतरजोतिसियवेमाणिया जहा | नेरझ्या सिद्धाणं पुच्छा, गोयमा ! सिद्धा नो संजता 1, नो असंजता 2, नो संजतासंजता 3, नो संजतनोअसंजतनोसंजतासंजता 4 / गाहा “संजयअसंजय मीसगा य जीवा तहेव मणुया य। संजतरहिया तिरिया, सेसा अस्संजता होंति||१||" (सू० 316) / संजयपयं समत्तं // 32 // 'जीवा ण भंते!' इत्यादि, संयच्छन्ति स्भसर्वसावधयोगेभ्यः सम्यगुपरमन्ति स्म अर्थात् निरवद्ययोगेषु चारित्रपरिणामस्फातिहेतुषु वर्तन्ते स्म इति संयताः 'गत्यर्थनित्याकर्मका' दिति कर्तरि क्तप्रत्ययः, हिंसादिपापस्थाननिवृत्ता इत्यर्थः / तद्विपरीता असंयताः / हिंसादीना देशतो निवृत्ताः संयतासयताः, त्रितयप्रतिषेधविषयाः सिद्धाः, कथमिति चेत्, उच्यते, उक्तमिह संयमो नाम निरवद्येतरयोमप्रवृत्तिनिवृत्तिरूपः, ततः संयतादिपर्यायो योगाऽऽश्रयः, सिद्धाश्च भगवन्तो योगाऽतीताः शरीरमनसोऽभावादतस्वितयप्रतिषेधविषयाः, एवं च सामान्यतो जीवपदे चतुष्टयमपि घटते। तथा चाह- 'गोयमे त्यादि, गौतम ! जीवाः संयता अपि साधूना संयतत्वात्, असंयता अपि नैरयिकादीनामसंयतत्वात्, संयतासंयता अपि पञ्चेन्द्रियतिरश्चां मनुष्याणां च देशतः संयमस्य भावात्, नोसंयतनोअसंयतनोसंयतासंयता अपि सिद्धानां त्रयस्यापि प्रतिषेधात्। चतुर्विशतिदण्डकसूत्राणि सुगमानि। अत्रैवं संग्रहणिगाथामाह-'संयते' त्यादि, संयता अंयता मिश्रकाश्चसंयतासंयता जी वास्तथैव मनुष्याश्च / किमुक्तं भवति? जीवपदे मनुष्यपदे च एतानि त्रीण्यपि पदानि घटन्ते नतुन घटन्ते इत्येवं परमेतत् सूत्रम्, अन्यथा जीवपदे त्रितयप्रतिषेधरूपं चतुर्थमपि पदंघटतएव, यथोक्तं प्राक्, तथा संयतरहिता उपलक्षणमेतत् त्रितयप्रतिषेधरहिताश्च तिर्यशा-तिर्यक् पञ्चेन्द्रियाः / आह-कथ संयतपदरहितास्तिर्यक्पञ्चेन्द्रियाः? यावता तेषामपि संयतत्वमुपपद्यते एव, तथाहि-संयतत्वं नाम निरवद्येतरयोगप्रवृत्तिनिवृत्त्यात्मक, ते च निरवद्येतरयोगेषु प्रवृत्तिनिवृत्ती तिरश्वामपि सम्भवतः, यतश्चरमकालेऽपि चतुर्विधस्याप्याहारस्य प्रत्याख्यानं कृत्वा शुभेषु योगेषु वर्तमाना दृश्यन्ते / अन्यच्च सिद्धान्ते तत्रतत्र प्रदेशे महाव्रतान्यप्यात्मन्यारोपयन्तः श्रूयन्ते, उक्तं च- 'तिरियाणं चारितं,निवारित तह य अह पुणो तेसिं। सुव्वइ बहुयाण चिय, महव्वयारोवणं समए / / 1 / / " तदेतदयुक्तं, सम्यग्वस्तुतत्त्वापरिज्ञानात्, संयतत्वमिह निरवद्येतरयोगप्रवृत्तिरूपमान्तरचारित्रपरिणामानुषक्तमवगन्तव्यं, नशेष, न च तेषां कृतचतुविधाहारप्रत्याख्यानानामपि महाव्रतान्यारोपयतां भवप्रत्ययादेव चरणपरिणाम उपजायते, स ह्यचिन्त्यचिन्तामणिकल्पे मनुष्यभव एव यदि परं कर्मक्षयोपशमाद् भवति, नान्यथा, अतएवायमतिदुर्लभो गीयते भगवद्भिः / अथ कथमवसीयतेन तिरश्चां तथा चेष्टमानानामप्यान्तरश्चारित्रपरिणामः? उच्यते, केवलज्ञानद्यश्रवणात्, यदिहि तिरश्चामपिचरणपरिणामरस-भवेत्, तत्वचित् कदाचित् कस्यचिदुत्कर्षतोभावतोमनः-पर्यायज्ञानं केवलज्ञान वा श्रूयते, तयोश्चारित्रपरिणामनिवन्धनत्वात्, नच श्रूयते, तस्मादवसीयतेनतेषां चारित्रपरिणामः। उक्तंच-"नमहव्वयसब्भावे, विचरण-परिणामसं