________________ हिंडग 1205 - अभिधानराजेन्द्रः - भाग 7 हिंडग तस्मात्पूर्वमेव प्रत्युपेक्ष्य-निरूप्य पश्चाद् विधिना-यतनया संक्रमणं कर्तव्यम्। इदानीं यदुपन्यस्तम् 'आमंतणा ये' त्यवयवेनतंव्याख्यानयन्नाह-'पेसेति जइ अणापुच्छिउं गणं प्रेषयति क्षेत्रप्रत्युपेक्षकान् यदि गणमनापृच्छ्य तत्रेमे दोषाः वक्ष्यमाणलक्षणाः। अइरेगोवहिपडिले-हणाए कत्थ वि गय त्ति तो पुच्छे। खेत्ते पडिलेहेळं, अमुगत्थ गय त्ति तं दुई / / 131 // यदा क्षेत्रप्रत्युपेक्षकाः शेषप्रव्रजिताननापृच्छ्य गतास्तदा कथं ज्ञायन्ते ? अत आह-अतिरिक्तोपधिप्रत्युपेक्षणायां सत्यां ते पृच्छन्तिकुत्र गतास्त इत्येवं पृच्छन्ति। आचार्याऽप्याह-क्षेत्रं प्रत्युपेक्षितुममुकत्र क्षेत्रे गता इति, तेऽप्याहुः-'तंदुटुं' तत्-क्षेत्रं न शोभनम्। यतस्तत्र गच्छतामतेणा सावय मसगा, ओमऽसिवे सेह इत्थिपडिणीए। थंडिल्लअगणि उट्ठा-ण एवमाई भवे दोसा / / 132 // स्तेनाः अर्द्धपथे स्वापदानि-व्याघ्रादीनि मशका वाऽतिदुष्टाः ओमंदुर्भिक्षम् 'असिवं' देवताकृत उपद्रवो, यदि वा 'सेह' त्ति अभिनवप्रव्रजितस्य स्वजना विद्यन्ते, ते चोत्प्रव्राजयन्ति, 'इत्थि त्ति स्त्रियो वा मोहप्रचुराः, 'पडिणीए' त्ति प्रत्यनीकोपद्रवश्च, 'थंडिल्ल' ति स्थण्डिलानि वा न तत्र विद्यन्ते, 'अगणि' त्ति अग्निना वा दग्धःसदेशः, 'उहाणे' त्ति उत्थितः-उदसितः प्रदेशो वाऽपान्तराले इत्येवमादयो दोषा भवन्ति। तत्रापि प्राप्तस्यैते दोषाःपञ्चंतितावसीओ, सावयदुभिक्खतेणपउराइं। णियगपदुट्ठाणे, फेडणहरियाइपण्णीए / / स हि प्रत्यन्तदेशः म्लेच्छाधुपद्रवोपेतः तापस्यः-तापसप्रवाजिकाः ताश्च प्रचुरमोहाः संयमाझंशयन्तिस्वापदभयदुर्भिक्षभयस्तेनप्रचुराणि वा क्षेत्राणि 'नियग' त्ति अभिनवप्रव्रजितस्य निजः-स्वजनादिः स चोत्प्रव्राजयति पदुट्ट' त्ति प्रद्विष्टो वा तत्र कश्चित् 'उठाणे ति उत्थितःउदसितः स कदाचिद्देशो भवेत् 'फेडण' ति प्राक् तत्र वसतिरासीत् इदानीं तु कदाचिदपनीता भवेत्। (हरि) हरितपण्णीय त्ति हरितं तत्र शाकादि बाहुल्येन भक्ष्यते, तच्च साधूनां न कल्पते दुर्भिक्षप्रायं वा 'हरितपर्णी ति तत्र देशे केषुचिद् गृहेषु राज्ञो दण्डं दत्त्वा देवतायै बल्यर्थ पुरुषो मार्यते, से च प्रव्रजितादिर्भिक्षा प्रविष्टः सन्, तत्र गृहस्योपरि आर्द्रा वृक्षशाखा चिह्न क्रियते, तच गृहीतसङ्केतो दूरत एव परिहरति, अगृहीतसङ्केतश्च विनश्यति, तस्मागणं पृष्ट्वा गन्तव्यमिति। अथवा अन्यकर्तृकीयं गाथा, ततश्च न पुनरुक्तदोषः। इदानींस आचार्यः क्षेत्रप्रत्युपेक्षकान् प्रेषयन् सर्वं गणमालोचयति, अथ तु विशेष्यं कश्चिदेकमालोचयति शिष्यादिकं ततश्चैते दोषा भवन्ति-- सीसे जइ आमंतइ, पडिच्छगा तेण बाहिरं भाव / जइ इयरा तो सीसा, ते वि समत्तम्मि गच्छति॥१३॥ शिष्यान विशिष्य केवलान् यद्यामन्त्रयति ततश्च को दोषः ? 'पडिच्छ' त्ति सूत्रार्थग्रहणार्थं ये आयाताः साधवस्ते प्रतीच्छकाः 'तेण' त्ति तेन अनालोचनेन 'बाहिरं भावं' ति बहिर्भाव चिन्तयन्ति, बाह्या वयमत्र / अथेतरान्-प्रतीच्छकानालोचयति ततः शिष्या बहिवं मन्यन्ते, प्रतीच्छकाश्च सूत्रार्थग्रहणसमाप्तौ गच्छन्ति ततश्चाचार्य एकाकी संजायत इत्येवं दोषस्तावत्। अथवृद्धान् पृच्छतिततःतरुणा बाहिरभावं,न य पडिलेहोवहीन किइकम्मं / मूलयपत्तसरिसया, परिभूया वच्चिमो थेरा।। 135 // वृद्धानालोचयति तरुणा बहिर्भावं मन्यन्ते, ततश्च ते तरुणाः किं कुर्वन्त्यत आह-'नय पडिलेहोवही' उपधेः प्रत्युपेक्षणां न कुर्वन्ति, नच कृतिकर्म-पादप्रक्षालनादि कुर्वन्ति / अथ तरुणानेव पृच्छति ततः को दोषः ? वृद्धा एवं चिन्तयन्ति-'मूलयपत्तसरिसया मूलम्-आद्यं यत्पूर्ण निस्सारं परिपक्वप्रायं तत्तुल्या वयमत एव च परिभूतास्ततश्च व्रजामः इत्येवं स्थविराश्चिन्तयन्ति, यदिवा-'मूलयपत्तसरिसया' मूलकपत्रतुल्याः -शाकपत्रप्राया वयम्, अथ मतं स्थविरा न प्रष्टव्या एव, ततुन, यत, आहजुण्णमएहि विहूणं, जंजूहं होइ सुद वि महल्लं / तं तरुणरहसपोईय-मयगुम्मइ सुहं हंतुं / / 136 // जीर्णमृगैर्विहीनं यूद्यथं भवति सृथ्वपि महत्तथं तरुणरभसे-रागे पोतितं-निमग्नं मदेन गुल्मयितं-मूढं सुखं हन्तुं विनाशयितुं-सुखेन तद्व्यापाद्यते। यस्मादेतदेवं तस्मात्सर्व एव मिलिताः सन्तः प्रष्टव्याः, कथम्? थुइमंगलमामंतण, नागच्छद जो य पुच्छिओ न कहे। तस्सुवरि ते दोसा, तम्हा मिलिएसु पुच्छेज्जा / / 137 / / स्तुतिमङ्गलं कृत्वा-प्रतिक्रमणस्यान्ते स्तुतित्रयं पठित्वा ततश्चामन्त्रयति आकारिते च दूरस्थो यदि नागच्छति कश्चिद्यो वा पृष्टः सन्न कथयति ततस्योपरि ते दोषाः, तस्मान्मिलितेषु प्रच्छनीयमेक-त्रीभूतेषु। केई भणति पुवं, पडिलेहिअ एवमेव गंतव्वं / तं च न जुज्जइ वसही, फेडण आगंतु पडिणीए // 138 / / केचनाचार्या एवं ब्रुक्ते प्राक् प्रत्युपक्षिते यस्मिन् क्षेत्रे प्रागपि स्थिता आसन्तस्मिन् पुनरप्रत्युपेक्ष्य गम्यते, तच्चनयुज्यते, यस्मात्तत्र कदाचित् 'वसही फेडण' ति सा प्राक्तनी वसतिरपनीता, आगन्तुको वा प्रत्यनीकः संजातः, अत एव दोषभयात्पूर्वदृष्टाऽपि वसतिः प्रत्युपेक्षणीया। इदं च ते प्रष्टव्याःकयरी दिसा पसत्था ? अमुई सवेसि अणुमई गमणं / चउदिसि ति दुएगं वा, सत्तग पणगं तिगजहण्णं // 136 / / कतरा दिक् प्रशस्ता-शोभना ? सुक्षेमपथेत्यर्थः तेऽप्याहुः 'अमुई' अमुका दिक् सुक्षेमेति / एवं सर्वेषां यदा अनुमता-अभिरुचिता भवति, दिगित्यर्थः, तदा गमनं कर्तव्यम् / तत्र चतसृष्वति दिक्षु पूर्वदक्षिणपश्चितोत्तरासु प्रत्युपेक्षकाः प्रयान्ति, अथवा-चतसृणां