________________ हिंडग 1206 - अभिधानराजेन्द्रः - भाग 7 हिंडग दिशामुपद्रवादिसम्भवे तिसृषु यान्ति, तदभावे द्वयोर्दिशोर्यान्ति, तदभावेऽप्येकस्यां दिशि / तासु च दिक्षु व्रजन्तः कियन्तो व्रजन्त्यत आह–'सत्तग पणगं तिग जहण्णं' एकैकस्यां दिशि उत्कृष्टतः सप्त सप्त प्रयान्ति, सप्तानामभावे पञ्च पञ्च व्रजन्ति, पश्चानामभावे जघन्येन त्रयस्त्रयः प्रयान्तीति। अत्र च ये आभिग्रहिकास्ते प्रहेतव्याः तेषां त्वभावेअणभिग्गहिए वावा-रणा उ तत्थ उ इमे न वावारे। बालं वुड्डमगी, जोगिं वसहं तहाखमगं // 140 // 'अणभिग्गहिए' त्ति यैरभिगहो न गृहीतस्तान् व्यापारयेद्-गमनाय चोदयेदित्यर्थः। तत्रतुबालं वृद्धम् अगीतार्थं योगिनं वृषभं-वैयावृत्त्यकर तथा क्षपकं-मासक्षपकादिकम्, एतान्न व्यापारयेद्गमनाय। इदानीमेतामेव गाथां भाष्यकृद् व्याख्यानयन्नाहहीलेज व खेलेज व, कज्जाकजं न याणई बालो। सो वाऽणुकंपणिजो, न दिति वा किंचि बालस्स // 65 // बाले प्रेष्यमाणेऽयं दोषः-ह्रियते म्लेच्छादिना क्रीडेत वा बालस्वभावत्वात् कार्याकार्यं च कर्तव्याकर्तव्यं वा न जानाति बालः, स च बालः क्षेत्रप्रत्युपेक्षणार्थ प्रहितः सन् अनुकम्पया सर्वं लभते, आगत्य धाचार्याय कथयति यदुत सर्व लभ्यते, गतश्च तत्र गच्छो यावन्न किञ्चिल्लभते, चेल्लकस्यैवानुकम्पया स लाभ आसीत्, अथवा-- न ददाति वा किञ्चिद्वालाय परिभवेनातस्तं न व्यापारयेत्। वृद्धोऽपि न प्रेषणीयो, यतस्तत्रैते दोषाःवुड्डोऽणुकंपणिज्जो, चिरेण न य मग्गथंडिले पेहे। अहवावि बालवुड्डा, असमत्था गोयरतिअस्स। 66 / (भा०) वृद्धोऽनुकम्पनीयस्ततश्चासावेव लभते, नान्यः, तथा 'चिरेणे' ति चिरेण-प्रभूतेन कालेन गमनम् आगमनं च करोति, न च मार्ग-पन्थानं प्रत्युपेक्षितुं समर्थः, नापि स्थण्डिलानि प्रत्युपेक्षितुं समर्थः, इदानीं तु द्वयोरपि बालवृद्धयोस्तुल्यदोषोद्भावनार्थसाह-अथवा-बाला वृद्धाश्च असमर्थाः-अशक्ताः गोचरत्रिकस्य-त्रिकालभिक्षाटनस्येत्यर्थः / दारं। अगीतार्थेऽपि प्रेष्यमाणे एते दोषाःपंथं च मासवासं, उवस्सयं एचिरेण कालेणं। एहामो तिन याणइ, चउविहमणुण्ण ठाणं च / 70 / (भा०) पन्थानं-मार्ग न जानाति वक्ष्यमाणं 'मास' ति मासकल्पं न जानाति 'वासं' ति वर्षाकल्पं न जानाति, तथा उपाश्रयं-वसतिं परीक्षितुं न जानाति, तथा शय्यातरेण पृष्टः-कदा आगमिष्यथ ? ततश्च ब्रवीति'एचिरेण एहामो त्ति इयता कालेन-अर्द्धमासादिना एष्याम इत्येवं वदतो यो दोषः अविधिभाषणजनितस्तं न जानाति, यतः कदाचिदन्या दिक् शोभनतरा शुद्धा भवति तत्र गम्यते, अतो नैवं वक्तव्यम्-एतावता कालेनैष्यामः / तथा 'चउव्विहमणुण्ण' ति तत्रोपाश्रये शय्यातरश्चतुविधमनुज्ञाप्यते-द्रव्यतः क्षेत्रतः कालतो भावतश्चेति। तत्रद्रव्यतस्तृणडगलादि अनुज्ञाप्ये, क्षेत्रतः पात्रकप्रक्षालनभूमिरनुज्ञाप्यते, कालतो दिवा रात्रौ वा निस्सरमनुज्ञाप्यते, भावतो ग्लानस्य कस्यचिद्भावप्रणि धानार्थ कायिकासंज्ञादि निरूप्यते, एतां चतुर्विधामनुज्ञामनुज्ञापयितुं न जनाति। 'ठाणं च त्ति वसतिः कीदृशे प्रशस्ते स्थाने भवतीत्येतन्न जानाति। दारं। योगिनमपि न प्रेषयेत्, कस्मात् ? तूरंतो अण पेहे, पंथं पाठडिओ न चिर हिंडे। विगई पडिसेहेइ, तम्हा जोगिं न पेसेजा। 71 / / (भा०) त्वरमाण: सन्न प्रत्युपेक्षतेपन्थानं,तथा पाठार्थी सन्न चिरंभिक्षां हिण्डते, तथा लभ्यमाना विकृतीः-दध्यादिकाः प्रतिषेधयति, तस्माद्योगिनं न प्रेषयेत्। दारं। वृषभोऽपि न प्रेषणीयो यत एते दोषा भवन्तिठवणकुलाणि न साहे, सिट्ठाणि न देंति जा विराहणया। परितावणअणुकंपण, तिण्हऽसमत्थो भवे खमगो।७२॥ (भा०) वृषभो हि प्रेष्यमाणः कदाचिद्रुषा स्थापनाकुलानि 'न साहे' ति न कथयति, अथवा-"सिट्ठाणि न देंति' त्ति कथितान्यपितानि स्थापनाकुलानि न ददति अन्यस्य, तस्यैव तानि परिचितानि, 'जा विराहणय' त्ति ततश्च स्थापनाकुलेषु अलभ्यमानेषु या विराधना ग्लानादीनां सा सर्वा आचार्यस्य दोषेण कृता भवति। दारं। अथ क्षपकोऽपि न प्रेष्यते, यतः परितापना-दुःखासिका आतपादिना भवति क्षपकस्य, 'अणुकंपण' त्ति अनुकम्पया वा लोकः क्षपकस्यैव ददाति नान्यस्य, तथा "तिण्हऽसमत्थो भवे खमओ' त्रयोवारा यद्भिक्षाटनं तस्य-वारत्रयाटनस्यासमर्थःक्षपकः।दार--- यदा तु पुनः प्रेषणार्हा न भवन्तिएए चेव हवेजा, पडिलोमेणं तु पेसए विहिणा। अविही पेसिखंते, ते चेव तहिं तु पडिलोमं / / 141 // एतएवबालादयो भवेयुस्तदा किं कर्तव्यमित्याह-'पडिलोमेणं तुपेसए विहिणा' अनुलोमः-उत्सर्गस्तद्विपरीतः प्रतिलोमः-अपवादस्तं प्रतिलोमम्-अपवादमङ्गीकृत्य एतानेव बालादीन् प्रेषयेत्, कथम् ?विधिना-यतनया-वक्ष्यमाणया। यदा पुनस्त एव बालादयोऽविधिना प्रेष्यन्ते, तदाऽविधिना प्रेष्यमाणेषुत एव दोषाः, क्व ? 'तहिं तु तस्मिन् क्षेत्रे प्रेष्यमाणानां कथयन् ?-'पडिलोमं ति प्रतिलोमं अपवादमङ्गीकृत्य / अथवा--अविधिना प्रेष्यमाणेषु त एव दोषाः, तत्र 'पडिलोमं ति अविधिप्रतिलोमो विधिस्तेन अप्रतिलोमविधिना प्रेषयेत् / ओघ० / (हिण्डकसामाचारी 'सामायारी' शब्दे उक्ता।) इदानीं तेषां गमनविधि प्रतिपादयन्नाह - पंथुचारे उदए, ठाणे मिक्खंतराय वसहीओ। तेणा सावगबाला, पचावाया य जाणविही / / 153 / / 'पंथ' त्ति पन्थानं-मार्ग चतुर्विधया प्रत्युपेक्षणया निरूपयन्तो गच्छन्ति, 'उच्चारे' त्ति उच्चारप्रश्रवणभूमिं निरूपयन्तो व्रजन्ति, 'उदए' त्ति पानकस्थानानि निरूपयन्ति, येन बालादीनां पानीयमानीय दीयते, 'ठाणे' त्ति विश्रामस्थानं गच्छस्य निरूपयन्तो व्रजन्ति, 'भिक्खं ति भिक्षां निरूपयन्ति, येषु प्रदेशेषु लभ्यते येषु वा न लभ्यत इति / 'अंतरा य वसहीउ' त्ति अन्तराले वसतीश्च निरूपयन्तो