________________ हरिएस ११९०-अभिधानराजेन्द्रः - भाग 7 हरिएस बालैः-शिशुभिर्मूः-कषायमोहनीयोदयाद्विचित्ततां गतैः अत एव चा :-- हिताहितविवेकविकलैः 'यद्रि' त्युपप्रदर्शने, हीलिताः-अवज्ञाताः 'तस्स' त्ति सूत्रत्वात् तत् 'खमाह' त्ति क्षमध्वं भदन्त ! अनेनैतदाहयतोऽमी शिशवो मूढा अज्ञानाश्च तत्किमेषामुपरि कोपेन ? यतोऽनुकम्पनीया एवामी, उक्तंचकेनचिद्-"आत्मद्रुहममर्याद, मूढमुज्झित- | सत्पथम् / सुतरामनुकम्पेत, नरकार्चिष्मदिन्धमन् // 1 // " किं चमहान् प्रसादः चिततप्रसत्तिरूपो येषां ते महाप्रसादा ऋषयः-साधवो भवन्ति, व्यतिरेकमाह--'न हुत्ति न पुनर्मुनयो-यतयः कोपपराःक्रोधवशगा भवन्ति, भिन्नवाक्यत्वाच मुनिग्रहणमदुष्टमेवेति सूत्रार्थः। मुनिराहपुट्विं च इम्हि च अणागयं च, मणप्पओसो न में अस्थि कोई। जक्खा हु वेयावडियं करिति, तम्हा हु एए निहया कुमारा // 32 // 'पुट्विं च' त्ति पूर्वं च पुरा इदानीं च-अस्मिन् काले 'अणागयं चे' ति अनागते च भविष्यत्काले मनःप्रद्वेषः-चित्तानुशयलक्षणो न 'मे' ममास्तीत्युपलक्षणत्वादासीद्भविष्यति च, कोऽपी' त्यल्योऽपि, इह च भाविनि प्रमाणाभावेऽपि 'अनागतं प्रत्याचक्षे' इति वचनादनागतस्यापि तस्य निषिद्धत्वाच्छुतज्ञानबलतः कालत्रयपरिज्ञानसम्भवाचैवमभिधानम्, पठन्ति च–'पुट्विं च पच्छा व तहेव मज्झे तत्रच पूर्ववापश्चाद्वेति विहेठनकालापेक्षं तथैव मध्ये विहेठनकाल एव, नचकुमारावहेठनादिदर्शनात्प्रत्यक्षविरुद्धता शङ्कनीया, यक्षा-देवविशेषा 'हु रिति यस्माद्वैयावृत्त्यं प्रत्यनीकप्रतिघातरूपं कुर्वन्ति-विदधति, 'तम्ह' त्ति तस्मात् हुरवधारणे, ततस्तस्मादेव हेतोरेतेपुरोवर्तिनो नितरां हताः-ताडिता कुमाराः, न तु मम मनःप्रद्वेषाऽत्र हेतुरिति भाव इति सूत्रार्थः। सम्प्रति तद्गुणाकृष्टचेतस उपाध्यायप्रमुखा इदमाहुःअत्थं च धम्मच वियाणमाणा, तुन्भे न वि कुप्पह भूइपन्ना। तुमं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे // 33 // अर्यत इत्यर्थो-ज्ञेयत्वात्सर्वमेव वस्तु, इह तु प्रक्रमाच्छुभाशुभकर्मविभागो रागद्वेषविपाको वा परिगृह्यते, यद्वाअर्थः-अभिधेयः स चार्थाच्छास्त्राणामेव तं, चशब्दस्तद्गतानेभेदसंसूचकः,धर्मः-सदाचारो दशविधो क यतिधर्मस्तं च 'वियाणमाणे' त्ति विशेषेण विविध वा जानन्तः-अवगच्छन्तो यूयं नापि-नैव कुप्यथ-क्रोधं कुरुध्वं, भूतिप्रज्ञा इति, भूतिभङ्गलं वृद्धी रक्षा चेति वृद्धवाः, प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा, ततश्च भूतिः-मङ्गलं सर्वमङ्गलोत्तमत्वेन वृद्धिर्वा वृद्धिविशिष्टत्वेन रक्षा वा प्राणिरक्षकत्वेन प्रज्ञा-वुद्धिरस्येति भूतिप्रज्ञः, अतश्च 'तुभंतु त्ति तुशब्दस्यैवकारार्थत्वात् युष्माकमेव पादौ-चरणौ शरणमुपमःउपगच्छामः समागताः-मिलिताः, केन सह-सर्वजनेन, वयमितिसूत्रार्थः / किंच अचेमु मे महाभागा ! न ते किंचन नाचिमो। मुंजाहि सालिमं कूर, नाणावंजणसंजुयं // 34 // अर्चयामः-पूजयामः 'ते'-तव सम्बन्धि सर्वमपीति गम्यते, प्रविश पिण्डिमित्युक्ते यथा गृहमिति भक्षयेति च / महाभाग ! अतिशयाचिन्त्यशक्तियुक्तत्वनेति, नैव'ते' तव किश्चिदिति चरणरेवादिकमपि नार्चयामो-न पूजयामः, अपि तु सर्वमचंयामः, अस्य च पूर्वेणैव गतार्थत्वे पुनरभिधानमन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सुखावगमो भवतीति कृत्वा। अथवा अर्चयामस्ते इति सुब्ब्यत्ययात्त्वाम्, अनेन स्वतस्तस्य पूज्यत्वमुक्तम्, उत्तरेण तु तत्स्वामित्वमपि पूज्यताहेतुरिति, तथा भुक्ष्वेतो गृहीत्वेति गम्यते 'सालिम' तिशालिमयं, कोऽर्थः ? शालिनिष्पन्न कूरम् ओदनं नानाव्यञ्जनैः-अनेकप्रकारैर्दध्यादिभिः संयुतंसम्मिश्रं नानाव्यञ्जनसंयुतं,नत्वेकमेवेतिसूत्रार्थः। अन्यचइगं च मे अत्थिपभूयमन्नं, तं मुंजसू अम्ह अणुग्गहट्ठा। वाढंतिपडिच्छइ भत्तपाणं, मासस्स ऊपारणए महप्पा / / 35 // 'इदं च' प्रत्यक्षत एव परिदृश्यमानं 'मे' ममास्ति-विद्यते प्रभूतंप्रचुरमन्नं मण्डकखण्डखाद्यादिसमस्तमपि भोजनं, यत्प्राक्पृथगोदनग्रहण तत्तस्य सन्निप्रधानत्वख्यापनार्थं , तद्भुङक्ष्वास्माकमनुग्रहार्थवयमनुगृहीता भवाम इति हेतोः। एवं च तनोक्ते मुनिराह-'वाढम्' एवं कुर्मा इतीत्येवं बुवाण इति शेषः, प्रतीच्छति-द्रव्यादितः शुद्धमिति गृह्णाति, भक्तपानमुक्तरूपं, 'मासस्स उत्ति मासादेव, यद्वाअन्तइत्यध्याहियते, ततश्च मासस्यैवान्ते यत्पार्यते-पर्यन्तः क्रियते गृहीतनियमस्यानेनेति पारणं तदेव पारणके, भोजनमित्युक्तं भवति, तस्मिन्तन्निमित्तं, 'निमित्तात्कर्मयोगे सप्तमीति' (पा० 2-3-36 वार्तिकम्) सप्तमी, महात्मेति प्राग्वत् इति सूत्रार्थः / तदा च तत्र यदभूत्तदाहतहियं गंधोदयपुप्फवासं, दिव्वा तहिं वसुहारा य वुट्ठा। पहया दुंदुहीओ सुरेहिं, आगासे आहो दाणं च घुटुं // 36 // "तहियं ति तस्मिन् मुनौ भक्तपानं प्रतीच्छति यज्ञवाटे वा गन्धआमोदस्तत्प्रधानमुदकं-जलं गन्धोदकं तय पुष्पाणि च-कुसुमानि तेषां वर्ष-वर्षणं गन्धोदकपुष्पवर्ष; तच्च पुष्पाणि च कुसुमानि तेषां वर्ष -- वर्षणं गन्धोदकपुष्पवर्ण; सुरैरिति सम्बन्धात् कृतमिति गम्यते, दिव्याश्रेष्ठा, यदिवा-दिति- गगने भवा दिव्या 'तहिं ति तस्मिन्नेव अनेन कथमियता-मेकत्र कल्याणानां मीलक इत्यन्यत्रैवान्यतरकल्याणान्तरं भविष्यतीत्याशङ्का निराकृता / वसु-द्रवय तस्य धारासततपातजनिता सन्ततिर्व-सुधारा सा च 'वृष्टे' ति पातिता 'सुरैरित्यत्रापि सम्बध्यते' तथा प्रकर्षेण हताः-ताडिताः प्रहताः के ते? "दुन्दुभया 'देवानकाः,उपलक्षणत्वा-च्छेषातोद्यानिचा कैः? सुरैः-देवैः, तैरेव, तथा तैरेवे आकाशेनभसि 'अहो 'इति विस्मये, विस्मयनीयमिदं दानं कोऽ