________________ हरिएस 1161 - अभिधानराजेन्द्रः - भाग 7 हरिएस न्यः किलैवं शक्नोति दातुम् ? एवं दत्तं सुदत्तमिति च घुष्टंसंशब्दितमिति सूत्रार्थः। तेऽपि ब्राह्मणा विस्मितमनस इदमाहुःसक्खं खुदीसइतवोविसेसो, नदीसई जाइविसेसों कोई। सोवागपुत्तं हरिएससाहु, - जस्सेरिसा इड्डिमहाणुभागा॥३७॥ साक्षात्-प्रत्यक्षं 'खु' रिति निश्चित अवधारणेवा तःसाक्षादेव दृश्यतेअवलोक्यते, कोऽसौ ?-तपो-लोकप्रसिद्ध्या व्रतमुपवासादिर्वा तस्य विशेष-विशिष्टत्वमाहात्म्यमिति यावत्तपोविशेषो, 'न' नैव दृश्यते जातिविशेषोजातिमाहात्म्यलक्षणः कोऽपी' ति स्वल्पोऽपि किमित्येवमत आह-यतः स्वपाकपुत्रः-चाण्डालसुतो हरिकेशश्चासौ मातङ्गत्वन प्रसिद्धत्वात् साधुश्च यतित्वाद्धरिकेशसाधुः, पठ्यते च-'सोवागपुत्तं हरिएससाहुति अत्र च पश्यतेतिशेषः, कदाचिदन्यएव कश्चिदत आहयस्येदृशी-दृश्यमानरूपा ऋद्धिः-देवसन्निधानात्मिका सम्पत् महानुभागा सातिशयमाहात्म्या, जातिविशेषे हि सति सर्वोत्तमत्वाद् ब्राह्मणजातेस्तद्वतामस्माकमेव देवा वैयावृत्त्यं कुर्युरिति भाव इति सूत्रार्थः / साम्प्रतं स एव मुनिस्तापशान्तमिथ्यात्वमोहनीयोदया निव पश्यन्निदमाहकिं माहणा! जोइसमारभंता, उदएण सोहिं बहिया विमग्गहा। जं मग्गहा बाहिरियं विसोहिं, नतं सुदिलु कुसला वयंति॥३८॥ 'कि' मिति क्षेपे, ततो न युक्तमिदं, यत् माहना-ब्राह्मणा ज्योतिः- | अग्निं समारभमाणाः-प्रस्तावाद्यागकरणतः प्रवर्त्तमानाः; यागं कुर्वन्त इत्यर्थः, उदकेन जलेन 'सोहिं तिशुद्धिं निर्मलतां 'बाहिय'त्ति बाह्यां, कोऽर्थो ? बाह्यहेतुकां, यागं हि समारभमाणैर्जलेन या शुद्धिार्यते तत्र यागस्नाने एव तत्त्वतो हेतुत्वेनेष्ट, तेच भवदभिमते बाह्येएवेति विमार्गयथ-। विशेषेणान्वेषयथ, किमेवमुपदिश्यत इत्याह-यद्यूयं मार्गयथ बाह्यांबाह्यहे तुकां विशद्धिं, नतत् सुदृष्ट सुष्ठ प्रेक्षितं कुशलाः-तत्त्वविचारं प्रति निपुणा वदन्ति-प्रतिपादयन्तीति सूत्रार्थः। यथा चैतत् सुदृष्ट न भवति तथा स्वत एवाहकुसं च जूवं तणकट्ठमग्गिं, सायं च पायं उदयं फुसंता। पाणाई भूयाई विहेडयंतो, भुज्जोऽवि मंदा ! पकरेह पावं // 39 // कुशं च-दर्भ च यूपं-प्रतीतमेव तृणं च-वीरणादि काष्ठ-समिदादि तृणकाष्ठम् अग्निं प्रतीतं सर्वत्र परिगृह्णन्त इति शेषः सायं-सन्ध्यायां; चशब्दो भिन्नक्रमस्ततः 'पाय' तिप्रातश्च प्रभाते उदक-जलं स्पृशन्तः- / आचमनादिषु परामृशन्तः ‘पाणाई' ति प्राणयोगात् प्राणिनो, यद्वा-- प्रकर्षणानन्तीति वसन्तीति प्राणाः द्वीन्द्रियादयः, सम्भवन्ति हि जले पूतरकादिरूपास्त इति, 'भूयाई' इति भूतान्-तरून् 'भूताश्च तरवः स्मृता' इति वचनात्, पृथिव्यायेकेन्द्रियोपलक्षणं चैतत् 'विहेडयंति' त्ति विहेटयन्तो-विशेषेण विविधं वा बोधमानाः; विनाशयन्त इत्यर्थः, किमित्याह भूयोऽपि-पुनरपि, न केवलं पुरा किन्तु विशुद्धिकालेऽपि जलानलादिजीवोपमईतो मन्दा:-जड़ाः प्रकुरुथ--प्रकर्षणोपचिनथुयूयं, किंतत् ? पापम् अशुभकर्म, अयमाशयः-कुशला हि कर्ममलविलयात्मिकां तात्त्विकीमेव शुद्धिं मन्यन्ते, भवदभिमतयागस्नानेचयूपादिपरिग्रहजलस्पर्शाविनाभावित्वेन भूतोपमईहेतुतया प्रत्युत कम्ममलोपचयनिबन्धने एवेति नातः तस्सम्भवइति कथं तद्धेतुकशुद्धिमार्गणं सुदृष्ट ते वदेयुः? तथा च वाचक:-"शौचमाध्यात्मिकं त्यक्त्या, भावशुद्ध्यात्मकं शुभम्। जलादिशौचं यत्रेष्ट, मूढविस्मापकं हि तत्॥१॥" इति सूत्रार्थः / इत्थं तद्वचनतः समुत्पन्नशङ्कास्ते यागंप्रति तावदेवं पप्रच्छु:कहं चरे भिक्खु ! वयं यजामो? पावाई कम्माई पणुल्लयामो। अक्खाहिणे संजय जक्खपूइआ, कहं सुइट्ठ कुसला वयंति? ||40 // कथं-केन प्रकारेण 'चरित्ति"विभाषा कथमि लिङ्च" इति (पा० 3-3-143) लिङि वचनव्यत्ययाचरेमाहियागार्थ प्रवर्तेमहि, हे भिक्षो ! मुने! वयमित्यात्मनिर्देशः, तथा यजामोयांग कुर्मः, कथमिति योगः? पापानि अशुभानि कर्माणि पुरोपचिताऽविद्यारूपाणि 'पणुल्लयामो' त्ति प्रणुदामः-प्रेरयामो येनेति गम्यते, आख्याहि-कथय न:-अस्माकं संयतः-पापस्थानेभ्यः सम्यगपुरतः यक्षपूजित ! यक्षार्चित ! किमुक्तं भवति? योह्यस्मद्विदितः कर्मप्रणोदनोपायत्वेन यागः सयुष्माभिर्दूषित इति भवन्त एवापरं यागमुपदिशन्तु, कदाचितविशिष्टमेव यजनमुपदिशेदित्याशङ्कयाह-कथं-केन प्रकारेणे स्विष्टंशोभनं यजनं कुशलाउक्तरूपा वदन्ति प्रतिपादयन्ति, न तं 'सुदिट्ठ कुसला वयंति' त्ति कुशलमुखेनैव मुनिनादूषितमिति तैरपि पृष्टमिति सूत्रार्थः। मुनिराहछज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा। परिग्गहं इत्थिउमाण मायं, एवं परिनायं चरंति दंता॥४१॥ षड्जीवकायान्-पृथिव्यादीन् 'असमारभमाणा' अनुपमईयन्तः 'मोसं' ति मृषा अलीकभाषणम् 'अदत्तं चेत्यदत्तादानं चानासेवमानाः अनाचरन्तः परिग्रहं मूच्छा स्त्रियो-योषितो 'माणा' त्ति मानम्अहङ्कार माया परवञ्चनात्मिकां तत्सहचारित्वात्कोपलोभौ च, एतद्अनन्तरोक्तं परिग्रहादि परिज्ञाय-ज्ञपरिज्ञया सर्वप्रकारं ज्ञात्वा