________________ हरिएस ११८६-अभिधानराजेन्द्रः - भाग 7 हरिएस रौद्राकारधारणिः "ठिय' त्ति स्थिताः अन्तरिक्षे-आकाशे असुराआसुरभावान्वितत्वात् त एव यक्षाः तस्मिन्-यज्ञवाटे तम्-उपसर्गकारिणं जनं-छात्रलोकं ताडयन्ति घ्नन्ति, ततस्तान् कुमारान् भिन्नाविदारिताः प्रक्रमाद्यक्षप्रहारैर्देहा:-शरीराणि येषां ते भिन्नदेहास्तान् रुधिरं-शोणितं वमतः-उद्रिरतः पासित्त'त्ति दृष्ट्वा भद्रा सैव कौशलिकराजदुहिता इदं वक्ष्यमाणम् 'आहुति वचनव्यत्ययेन आह-ब्रूते भूयः-पुनरिति सूत्रद्वयार्थः। किं तदित्याहगिरि नहेहिं खणह, अयं दंतेहिं खायह। जायतेयं पायेहि हणह, जे भिक्खं अवमन्नह / / 26 / / आसीविसो उगतवो महेसी, घोरवओ घोरपरकमो या अगणिं व पक्खंद पयंगसेणा, __ जे भिक्खु मत्तकाले वहेह // 27 // सीसेण एवं सरणं उवेह, समागया सव्वजणेण तुम्हे। जइ इच्छह जीवियं वा घणं वा, लोगं पि एसो कुविओ डहिजा // 28 // गिरि-पळतं नखैः-कररुहै: खनथ--विदारयथ हइ च मुख्यखननक्रियाद्यसम्भवादिवचनमन्तरेणाप्युपमार्थो गम्यतेततश्च खनथेवखनथ, अयो-लोहं दन्तैः-दशनैः खादथेव खादथ, जाततेजसम् अग्निं पादैःचरणैईथेव हथ; ताडयथेत्यर्थः, ये वयं किं कुर्मः इत्याह-ये यूयं भिक्षु प्रक्रमादेनम्, 'अवमन्नह' ति अवमन्यध्वे-अवधीरयथ, अनर्थफलत्वात् भिक्ष्वपमानस्येति भावः, कथमिदमित्याह-आस्यो-दंष्ट्रास्तासु विषमस्येत्यासीविषः आसीविषलब्धिमान; शापानुग्रहसमर्थ इत्यर्थः, यद्वाआसीविष इव आसीविषः, यथा हि-तमत्यन्तमवजानानो मृत्युमेवाप्नोति, एवमेनमपि मुनिमवमन्यमानानामवश्यं भावि मरणमित्याशयः, कुतः पुनरयमेवंविधो ? यतः-उग्रतपाः प्राग्वत्, 'महेसि' त्ति महान्बृहन् शेषस्वर्गाद्यपेक्षया मोक्षस्तमिच्छति-अभिलषतीति महदेषी महर्षिर्वा, घोरव्रतो घोरपराक्रमश्च पूर्ववत्, यतश्चैवमतः 'अगणिं वत्ति अग्निज्वलनं, वाशब्द इवार्थो, भिन्नक्रमश्च / ततः 'पक्खंद' त्ति प्रस्कन्दथेव-आक्रामथेव, केव ?-'पतंगसेण' त्ति उपमार्थस्य गम्यमानत्वात्पतङ्गाना- शलभाना सेनेवसेनामहती सन्ततिः पतङ्गसेना तद्वत्, तथा हि-असौ तत्र निपतत्याशु घातमाप्नोत्येवं भवन्तोऽपीति भावः, ये यूयमनुकम्पितं भिक्षु-भिक्षुकंभक्तकाले-भोजनसमये, तत्र दीनादेरवश्यं देयमिति शिष्टसमयो यूयं तु न केवलं न यच्छतः, किन्तु तत्रापि वधह' त्ति विध्यथताडयथ, अयमाशयो-यतोऽयमासीविषादिविशेषणान्वितो मुनिरतो गिरिनख-खननादिप्रायमेव यदेनं भक्तकालेऽपि भक्तार्थिनमित्थं विध्यथ / अथ स्वकृत्योपदेशमाह-शीर्षण-शिरसा एनं-मुनि शरणार्थ-रक्षणार्थ-माश्रयमुपेत-अभ्युपगच्छत, किमुक्तं भवति-शिरःप्रणामपूर्वक-मयमेवास्माकं शरणमिति प्रपद्यध्वं, समागताः-सम्मि लिताः सर्वजनेन-समस्तलोकेन, सहार्थे तृतीया, यूयं-भवन्तो, यदीच्छत-अभिलषतजीवितं-प्राणधारणात्मकं धनं वा द्रव्यं, न तस्मिन् कुपिते जीवितव्यादिरक्षाक्षममन्यच्छ रणमस्ति, किमित्येवमत आहलोकमपि-भुवनमप्येष कुपितः कुद्धो 'दहेद्' भस्मसात्कुर्यात्, तथा च वाचक:-"कल्पान्तोग्रानलवत्प्रज्वलनं तेजसैकतस्तेषाम् ' तथा लौकिका अप्याहुः "न तत् दूरं यदश्वेषु, यवाग्नौ यच्च मारुते। विषे च रुधिरप्राप्ते, साधौ च कृतनिश्चये // 1 // " इति सूत्रत्रयार्थः। सम्प्रति तत्पतिस्तान् यादृशान् ददर्श दृष्ट्वा चयदचेष्टत तदाहअवहेडियपिट्ठिसउत्तमंगे, पसारियाबाहुअकम्मचिठे। निन्भेरियच्छे रुहिरं वमंते, उजमहे निग्ग्यजीहनित्ते / / 26 / / ते पासिया खंडियकट्ठभूए, विमणो विन्नसो अह माहणो सो। इसिं पसाएइ सभारियाओ, हीलं च निंदं च खमाह भंते ! // 30 // 'अवे' ति अधो 'हेडिय' ति हेठितानि-'बाधितानि' किमुक्तं भवति ? अधोनामितानि, पठन्ति च-'आवडिए' त्ति तत्र सूत्रत्वादवकोटितानि अधस्तादामोटितानि, 'पट्टि ति पृष्ठं यावत् तदभिमुखं वा सन्ति शोभनान्युत्तमाङ्गानियेषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः अवकोटितपृष्ठसदुत्तमाङ्गा वा प्राग्वन्मध्यपदलोपी समासस्तान्, 'पसारियाबाहु अकम्मचिट्ठ' त्ति प्रसारिता विरलीकृता बाहवो भुजा यैर्येषां वा ते तथा, ततस्ते च ते अकर्मचेष्टाश्च अविद्यमानकर्महेतुव्यापारतया प्रसारित-- बाहुकर्मचेष्टास्तान्, यद्वाक्रियन्त इति कर्माणि अग्नौ समित्प्रक्षेपणादीनि तद्विषया चेष्टा कर्मचेष्टेहगृह्यते, 'निब्भेरिय'त्ति प्रसारितान्यक्षीणिलोचनानि येषां ते तथोक्तास्तान, रुधिरं वमतः-उद्रिरतः ‘उड्डेमुह' त्ति ऊर्ध्वमुखान्-उन्मुखीभूतवक्त्रान् अत एव निर्गतानि-निःसृतानि जिह्वाश्च प्रतीता नेत्राणि च-नयनानि जिह्वानेत्राणि येषां ते तथा तान्, 'तान्' इत्युक्तरूपान् दृष्ट्वा-अवलोक्य 'खंडिय'त्ति आर्षत्वात्सुपो लुकि खण्डिकान्-छात्रान् काष्ठभूतान्-अत्यन्तनिश्चेष्टतया काष्ठोपमान् विगतमिव विगतं मनः-चित्तमस्येति विमनाः, विषण्णः-कथममी प्रवणीभविष्यन्तीति चिन्तया व्याकुलितः 'अथे' त्ति दर्शनानन्तरं ब्राह्मणो-द्विजातिः 'स' इति सोमदेवनामा ऋषि--तमेव हरिकेशबलनामानं मुनि प्रसादयति-प्रसत्तिं ग्राहयति, सह भार्यया-पल्या तथैव भद्राभिधानया वर्तते इति सभार्यकः; कथमित्याह-हीलांच अवज्ञां निन्दा च दोषद्धट्टन',खमाह' त्ति क्षमस्व-सहस्व 'भंते ति सूत्रद्वयार्थः / पुनः स प्रसादनामेवाहबालेहि मूठेहिं अयाणएहिं, जं हीलिया तस्स खमाह मंते ! महप्पसाया इसिणो हवंति, नहू (हू) मुणि कोवपरा हवंति // 31 //