________________ सेयंबर 1148- अमिधानराजेन्द्रः - भाग 7 सेयंबर निरुवहयलिंगभेदे, गुरुगा कप्पंति कारणलाए। गेलण्णलोयरोगे, सरीरवेतावडियमादी / / 292 // टीका-निरुपहतो नाम नीरोगस्तस्य लिङ्गभेदं कुर्वतश्चतुर्गुरुकाः। अथवा-निरुपहतं नाम यथाजातलिङ्गं तस्य भेदे चतुर्गुरु बृ (व्याख्या 'अचेलग' शब्दे 1 भाग 188 पृष्ठे उक्ता।) पुनरपि तदेवाहजे भिक्खू वण्णमंतं विवण्णं करेइ करतं वा साइजइ। 10 / जं भिक्खू विवण्णं वण्णमंतं करेइ करतं वा साइजइ।११। जे भिक्खू णवए मे वत्थे (पुस्तकान्तरे 'पडिग्गहे' इति।) लद्ध त्ति कट्ट तेल्लेण वा घएण वा वसाए वा णवणीएण वा मंखेज वा मिलिंगेज वा मंखंतं वा भिलिंगंतं वा साइजइ। 12 जे भिक्खू णवए मे वत्थे लद्धे त्ति कट्ट लोद्धेण वा कोण वा ण्हाणेन वा चुण्णेण वा उल्लोलेज वा उव्वलेज्ज वा उल्लोलंतं वा उव्वलंतं वा साइजइ। 13 / जे मिक्खू णवए मे वत्थे लद्धे त्ति कहसीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज वा पधोएड वा उच्छोलतं वा पपोयतं वा साइजइ।।१४।। जे भिक्खू णवए मे वत्थे लद्धे त्ति कट्ट बहुदिवसिएण तेल्लेण वा धरण वा वसाए वा णवणीएण वा मंखेज वा मिलिंगेज वा मंखंत वा मिलिंगंतं वा साइजइ 15, 16, 17 / जेभिक्खू णवए मे वत्थे लद्धे त्ति कट्ट बहुदिवसिएण लोद्धेण वा कक्केण वा पउमेण वापउमचुण्णेण वा वण्णेण वा उल्लोलेज वा उव्वदृज्ज वा उल्लोलंतं वा उव्वटुंतं वा साइज्जइ॥१८॥ नि०चू०१४ उ०। (पुनरपि निशीथचूर्णी अष्टादशे उद्देशे तुर्दशोद्देशकवत् वस्त्रादिग्रहणविधिरित्युक्तम्।) "जो वत्थं किणति किणावेति कीयमाह दिन्जमाणं पडिगाहेति" इत्यादि सुत्ताणि पशुवीसं उचारेयव्वाणि जाव समत्तो उद्देसगो। एतेसिं अत्थो चोद्दसमे जहा, चोद्दसमे पादं भणितं तहा अट्ठारसमे वत्थं भाणियव्वं / नि० चू० 18 उ०। (इति तत्र 'पात्र' पदस्थाने वस्त्रपदोचारणपुरस्सरं सकलं सूत्रं पठितव्यम्, ततश्च पात्ररञ्जननिषेधाद् वस्त्ररञ्जननिषेधः प्रतिफलति।) पुनरपितदेवाहअचेलगो य जो धम्मो, जो इमो संतरुत्तरो। देसिओ वद्धमाणेण, पासेण स महायसा / / 26 // एककजपवन्नाणं, विसेसे किं नु कारणं / लिंगे दुविहे मेहावी, कहं विप्पचओ न ते // 30 // लक्ष्मीवल्लभ्यामपिवर्धमानेन-चतुर्विशतितमतीर्थकरेण यो धर्मोऽचेलकः, प्रमाणोपेतजीर्णप्रायधवलवस्त्रधारणात्मकः साध्वाचारो निर्दिष्टः / च-पुनः पार्श्वजिनेन महायशसा त्रयोविंशतितमतीर्थकरेण योऽयं धर्मः सान्तरुत्तरः-पञ्चवर्णः बहुमूल्यप्रमाणरहितवस्त्रधारणात्मकः साध्वाचारः प्रदर्शितः, हे मेधाविन्! एककार्यप्रतिपन्नयोः श्रीवीरपार्श्वयोविशेषे भेदेकिं कारणं-को हेतुः? हे गौतम ! द्विविधे लिने-द्विप्रकारके साधुवेषे 'ते'-तव कथं किं विप्रत्ययो न उत्पद्यते-कथं संदेहो न जायते / उभौ अपि तीर्थकरौ मोक्षसाधको कथं ताभ्यां वेषभेदः प्रकाशितः, इति कथं तवायं संशयो न भवति। उत्त०२३ अ०। (इत्युपक्रम्य महावीरसमयादनन्तरं साधूनां श्वेतवस्त्रधारणमेवोचितमिति अचेलकपदेन सूचयता ग्रन्थकारेण तदेव व्याचक्षाणेन टीकाकारेण च स्थिरीकृतम्।) आवश्यकवृत्तावपि-- अचेलकञ्चोक्तन्यायेन अविद्यमानचेलकः कुत्सितचेलको वा यो धर्मो वर्द्धमानेन देशित इत्यपेक्षते / तथा 'जो इमो त्ति' पूर्ववत् / यश्चायं सान्तराणि वर्धमानस्वामिसत्कयतिवस्त्रापेक्षया कस्यचित्कदाचिन्मानवर्णविशेषतः सविशेषाणि, उत्तराणि च महाधनमूल्यतया प्रधानानि प्रक्रमाद्वस्त्राणि यस्मिन्नसौ सान्तरुत्तरो धर्मः प्ररूपितः / (इत्यादिना स्फुटीकृतमेतन्महावीरदेशनाप्रवृत्तानां साधूनां श्वेतमानोपेतवस्त्रधारणमेवोचितामिति दिक्।) आव०। भगदतीसूत्रेऽपिलिंगंतरहिं 1 भ०। __ तद्वत्तावपिलिग साधुवेषस्तत्र च यदि मध्यमजिनैर्यथालब्धवस्वरूपं लिङ्गंसाधूनामुपदिष्ठं तदा किमिति प्रथमचरमजिनाभ्यां सप्रमाणधवलवसनरूपं तदेवोक्तं सर्वज्ञानामविरोधिवचनत्वादिति ? प्रश्ने ऋजुजडवक्रजङऋजुप्रज्ञशिष्यानाश्रित्य भगवतां तस्यापदेशस्तथैव तेषामुपकारसभवादिति। भ०। कल्पसूत्रेऽपि किरणावलीवृत्तौअचेलककल्पाधिकारे वीरजिनसाधूनां श्वेतमानाद्युपेतवस्त्राधारित्वे-- नाचेलकत्वमित्याधुक्तम्। पुनस्तत्रैव श्री ऋषभवीरतीर्थयतीनां च सर्वेषामपि श्वेतमानोपेतजीर्णप्रायवस्त्रधारित्वेनाचेलकत्वमेव। कल्पकिरणावलीवृत्तेः प्रशस्तौतेषां पट्टे संप्रति, विजयन्तो हीरविजयसूरीशाः। ये श्वेताम्बरयतिनां, सर्वेषामाधिपत्यभृतः / / 6 / / इतिजैनसाधूनां श्वेतवस्त्रमेवोपयुज्यते।। विनयविजयकृतकल्पसुवोधिकायामपिप्रथमकल्पे श्वेतमानोपेतवस्त्रधारित्वेन साधूनामचेलकत्वमपीति। तथा हेमविमलसूरिकृतटव्वाऽपरपण्डितोपाध्यायकृतकल्पसूत्रटव्वावालावबोधप्रमुखैषु बहुषु ग्रन्थेषु सर्वत्र अचेलकत्वं श्वेतमानोपेतवस्त्रधारित्वमिति स्थिरीकृतम्। विवेकविलासेऽपि अष्टमोल्लासेसरजोहरणा भैक्ष-भुजो लञ्चितमूर्धजाः। श्वताम्बराः क्षमाशीला, तिःसङ्गा जैनसाधवः। 1 / संबोधसत्तरीग्रन्थेऽपि"सेयंबरो य आसं बरो य बुद्धो य अहव अन्नो वा", इत्यादि