________________ सेयंबर 1147 - अमिधानराजेन्द्रः - भाग 7 सेयंबर उगच्छेत् / यतोऽसाववमचेलिको दुःसारवस्त्रधारीत्येतस्य भिक्षोर्वस्त्रधारिणः सामायं संपूर्णो भिक्षुभावोयदेवंभूतवस्त्रधारणमिति। एतच सूत्रं जिनकल्पिकोद्देशेन द्रष्टव्यं वस्त्रधारित्वविशेषणात्। एवं गच्छान्तर्गतेऽपि चाऽविरुद्धम्। आचा०२ श्रु०५ अ०२ उ०। (इतीह मूलटीकाकाराभ्यां सुस्पष्टमेव वसनरञ्जनधावनयोनिषेधो विहितः। अत्र वस्वधारित्वविशेषणादिदं सूत्रं जिनकल्पिकस्थविरकल्पिकोद्देशविषयकमिति द्रष्टव्यम्।) अन्यदपि आचाराङ्गेजे मिक्खू तिहिं वत्थेहिं परिउसिते पादचउत्थेहिं तस्स णं णो एवं भवति / चउत्थं वत्थं जाइस्सामि त्ति अहेसणिजाई वत्थाई जाएजा, अहापरिग्गहियाई वत्थाई धारेवाणो धोएडा णो रएज्जा, णो धोतरत्ताइं वत्थाई धारेज्जा / अपलिउंचमाणे गामंतरेसु ओमचेलिए। एतं खु वत्थधारिस्स सामग्गियं / टीकायामपि‘णो धोवेजा' नो धावेत्-प्रासुकोदकेनापिन प्रक्षालयेत्। गच्छवासिनो ह्यप्राप्तवर्षादौ ग्लानावस्थाया वा प्रासुकोदकेन यतनया धावनमनुज्ञातं नतु जिनकल्पिकस्येति / तथाहि-नच धौतरक्तानि वस्त्राणि धारयेत् पूर्व धौतानि पश्चाद्रक्तानि / तथा ग्रामान्तरेषु गच्छन् वस्त्राण्यगोपयन् व्रजेत् / एतदुक्तं भवति तथाभूतान्यसावन्तप्रान्तानि बिभर्ति यानि गोपनीयानि न भवन्ति / तदेवमसाववमचेलिकः। अवमं च तत् चेलं च अवमचेलम्, प्रमाणतः परिमाणतो मूल्यतश्च / तद्यथाऽस्यास्त्यसाववमचेलिक इति / एतत्पूर्वोक्तस्तुरवधारणे / एतदेव वस्त्रधारिणः सामग्यं भवति। आचा० 1 श्रु०५१०४ उ०। (इति मूलमनुसरता टीकाकारेण वस्त्ररञ्जनं प्रतिषिध्यते / किं बहुना अतथाभूतवस्त्राणामगोपनमिति वदता सूत्रकारेण तदेव व्याचक्षाणेन शीलङ्गाचार्येण चरञ्जितवस्त्राणां गोपनीयत्वप्रतिपादनाद्धारणस्यातिहेयत्वमिति स्फुटमेव व्यज्यते। इति प्रतिषिद्धरञ्जितवसनधारणस्पृहया प्रधानतमसूत्रमप्युत्थापयतो रञ्जितवसनधारिणो निहवेभ्यः किमतिरेकः स्यादिति सूक्ष्मदृशः सुधियो विभावयन्तु।) सूत्रकृताङ्गे नवमाध्ययनेऽपिधोअणं रयणं चेव, वत्थीकम्मविरेयणं / वमणंजणपलीमथं, तं विजं परिजाणिया॥ 12 // टीकायामपि'धोयण मित्यादि / धावनं-प्रक्षालनं हस्तपादवस्त्रादेः रञ्जनमपि तस्यैव / चकारः समुच्चयार्थः / एवकारोऽवधारणे / तथा वस्तिकर्मअनुवासनारूपम्, तथा विरेचननिरूहात्मकमधोविरेको वा, वमनमूर्ध्वविरेकः, तथा अञ्जनं नयनयोरित्येवमादिकमन्यदपि शरीरसंस्कारादिकं यत्संयमपलिमन्थकारिसंयमोपघातरूपं तदेव तद्विद्वान् स्वरूपतस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्षीत। सूत्र०१श्रु० अ०। (एवं च वस्त्राजनस्य संयमोपघातरूपतया वर्णनात्तत्करणे संयमोपघात एव संपद्यते।) | अन्यदपि सूत्रकृताङ्गे सप्तमाध्ययनेजे धम्मलद्धं विणिहाय मुंजे, वियडेण साहट्ट य जे सिणाई। जे धोवई लूसयई य वत्थं, अहाहु से णागहियस्स दूरे। 21 // [इत्यत्र प्रासुकोदकेनापि क्षारा (साक्नु) दिना वस्त्रधारावने साधूनां कुशीलित्वं टीकाकारेण भणितमिति स्वच्छन्दं तदाचरन्तः कुशीलिनः शुद्धजैनधर्मप्रतिकूला एवेत्यलं बहुना। गच्छाचारप्रकीर्णकेऽपि-- जत्थ य वारडियाणं, तत्तडिआणं च तह य परिभोगो। मुत्तुं सुकिल्लवत्थं, का मेरा तत्थ गच्छम्मि||६ तत्रैव टीकायामपियत्र गच्छे 'वारडियाणं ति' रक्तवस्त्राणाम् 'तत्तडियाणं' ति नीलपीतादिरजितवस्त्राणां च परिभोगः क्रियते। किं कृत्वेत्याह / मुक्त्वापरित्यज्य, किम् ? शुक्लवस्त्रं-यति-योग्याम्बरमित्यर्थः। तत्र का मेर त्ति का मर्यादा, न काचिदपीत्यर्थः / अन्यदपितत्रैवगणि ! गोतम ! जा अज्जा उचिअंसेयवत्थं विवजिउं। सेवए चित्तरूवाणि, न सा अज्जा विआहिआ।।११२॥ टीकाहे गणिन् ! गौतम ! या आर्या उचितं श्वेतवस्त्रं विवर्ण्य चित्ररूपाणिविविधवर्णानि विविधचित्राणि वा वस्त्राणि सेवते, उपलक्षणत्वात्पात्रदण्डाद्यपि चित्ररूपंसेवतेसा आर्या नव्याहृतान कथितेति विषमाक्षरेति गाथाच्छन्दः / ग०। स्थानाङ्गवृत्तावपिसरीरे उवगरणे वा, वओसियत्तं दुहा समक्खायं। सुकिल्लवत्थाणि धरे, देसे सव्वे सरीरम्मि॥ 4 // इति श्वेतवस्त्राणामेव धारणं सर्वथाऽनुज्ञाप्यते / इति पुनः सूत्रपाठमप्रमाणीकृत्य पीतपट परिदधतः श्वेताम्बरविरोधिनो जैनमार्गानुयायिनो विचारयन्तु सूत्रार्थतात्पर्यम्, त्यजन्तु स्वकीयाज्ञानताम्, स्वीकुर्वन्तु श्वेताम्बरत्वम्।) साधूनां सदचेलकत्वं तथा चोक्तं बृहत्कल्पेदुविहो होति अचेलो, संता चेलो असंतचेलोय। तित्थगरऽसंतचेला, संत चेला भवे सेसा / / 286 // अन्यदपि-सति चेले अचेलकत्वम् आगमे लोकेच रूढत्वात्। सदसंतचेलगोऽचे-लगो यजं लोगसमयसंसिद्धो। तेणाचेल मुणिओ, संतेहि जिणा असंतेहिं / / 260 // किंचपरिसुद्धजुनकुत्थी, जं थोवा निययभोगभोगेहिं / मुणिणो मुच्छारहिया, संतेहि अचेलया हॉति // 26 //