________________ सूरियाभ 1123 - अभिधानराजेन्द्रः - भाग 7 सूरियाम त, तेषां प्रेक्षागृहमण्डपानां पुरतः प्रत्येकं 2 मणिपीठिका प्रज्ञप्ता, ताश्य मणिपीठिकाः प्रत्येकं षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्येन सर्वात्मना मणिमयाः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत्, तासां च मणिपीठिकानामुपरि प्रत्येकं 2 चैत्यस्तूपः प्रज्ञप्तः, ते च चैत्यस्तूपाः षोडशयोजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्यूर्ध्वमुचैस्त्वेन 'संखंके' त्यादि तद्वर्णनं सुगम, तेषां च चैत्यस्तूपानामुपर्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि 'जाव सहस्सपत्तहत्थया' इति यावत्कारणात् 'तेसिं चेइयथूभाणं उप्पिं बहवे किण्हचामरज्झया जाव सुकिलचामरज्झया अच्छा सण्हा सप्पषट्टवइरदंडा जमलजामलगंधी सुरूवा पासाइया जाव पडिरूवा, तेसिं चेइयथूमाणं उप्पिं बहवे छत्ताइच्छत्ता पड़ागा घंटाजुगला उप्पलहत्थगा जाव सयसहस्सपत्तहत्थगा सव्दारयणामया ०जाव पडिरूवा' इतिद्ध एतच समस्तं प्राग्वत् / 'तेसि ण' मित्यादि, तेषां चैत्य-तूपानां प्रत्येकं 2 'चउद्विसि सि चतुर्दिसि-चतसृषु दिक्षु एकैकस्यां दिसि एकैकमणिपीठिकाभावेन चतस्रो मणिपीठिकाः प्रज्ञप्ताः अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारियोजनानि बाहल्येन सर्वात्मना मणिमया 'अच्छा' इत्यादि प्राग्वत्, तासांच मणिपीठिकानामुपरि एकैकप्रतिमाभावेनचतम्रो जिनप्रतिमा जिनोत्सेधप्रमाणमात्राः, जिनोत्सेध उत्कर्षतः पञ्च धनुःशतानि जघन्यतः सप्त हस्ताः, इह तु पञ्च धनुःशतानि संभाव्यन्ते, "पलियंकसंनिसन्नाउ' इति पर्यङ्कासन-सन्निषण्णाः, स्तूपाभिमुख्यः संनिक्षिप्ताः, तथा जगत्स्थितिस्वाभाव्येन सम्यग्निवेशितास्तिष्ठन्ति, तद्यथा-ऋषभावर्द्धमाना चन्द्रानना वारिषेणा इति, 'तेसिण' मित्यादि, तेषां चैत्यस्तूपानां पुरतः प्रत्येकं 2 मणिपीठिकाः प्रज्ञप्ताःताश्च मणिपीठिकाःषोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्यतः 'सव्वमणिमईओ' इत्यादि प्राग्वत्, तासांच मणिपीठिकानामुपरि प्रत्येक 2 चैत्यवृक्षा अष्टौ योजनान्यूज़-मुस्त्वेनाद्धयोजनमुद्वेधेन-उण्डत्वेन द्वे योजने उचैस्त्वेन स्कन्धः स एवार्द्ध योजनं विष्कम्भतया बहुमध्यदेशभागे विडिमा-उज़ विनिर्गताशाखा साऊर्ध्वमुच्चैस्त्वेन षड्योजनानि अष्टौ योजनानि विष्कम्भेन सर्वाग्रेण सातिरेकेणाष्टौ योजनानि प्रज्ञप्तास्तेषां चैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तस्तथा 'वइरामयमूला रययसुपइष्ठियविडिमा वज्राणि-वज्रमयानि मूलानियेषां ते वज्रमयमूला रजते सुप्रतिष्टिता विडिमा बहुमध्यदेशभागे ऊर्ध्व विनिर्गता शाखा येषां ते रजतसु-प्रतिष्ठितविडिमास्ततः पूर्वपदेन कर्मधारयः समासः, 'रिहामयकंदे वेरुलियरुइलखंधे' रिष्ठमयो रिष्ठरत्नमयः कन्दो येषां ते रिष्ठमयकन्दाः, तथा वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा ततः पूर्वपदेन कर्मधारयः, 'सुजायवरजायरूवपढमगविसालसाला' सुजातंमूलद्रव्यशुद्धं वरं-प्रधानं यत् जातरूपं तदात्मकाः प्रथमका-मूलभूता विशालाः शाखा येषां ते सुजातवरजातरूपप्रथमकविशालशालाः शाखा येषां ते सुजातवरजातरूपप्रथमकविशालशालाः 'नानामणिरयणविविहसाहप्पसाहवेरूलियपत्ततवणिज्जपत्तबिंटा' इति नानामणिरत्ना त्मिका विविधाः शाखाः प्रशाखा येषां ते तथा वैडर्याणि-वैडूर्यमयानि पत्राणि येषां ते तथा तपनीयमयानिपत्रवृन्तानि येषां तेतथा, ततः पूर्ववत् पदद्वय 2 मीलनेन कर्मधारयः, 'जंबूणयरत्तमउयसुकुमालपवालपल्लवरंकुरधरा' जाम्बूनदा-जाम्बूनदसुवर्णविशेषमया रक्तारक्तवर्णा मृदवः-मनोज्ञाः सुकुमारा-सुकुमारस्पर्शाः प्रवाला-ईषदुन्मीलितपत्रभावाः पल्लवाः-- संजातपरिपूर्णप्रथमपत्रभावरूपा वराकुराःप्रथममुद्विद्यमाना अड्कुरास्तान् धरन्तीति जाम्बूनदरक्तमृदुसुकुमारप्रवालपल्लवाकुरधराः 'विचित्तमणिरयणसुरभिकुसुमफलभरेण नमियसाला' इति विचित्रमणिरत्नमयानि यानि सुरभीणिं कुसुमानि फलानि च तेषां भरेण नमिताःशाला:-शाखायेषां तेतथा, तथा सतीशोभना छाया येषां ते सच्छायाः, सती–शोभना प्रभाकान्तिर्येषां ते. सत्प्रभाः, अत एव सश्रीकाः, तथा सह उद्द्योतेन वर्त्तन्ते मणिरत्नानामुद्द्योतभावात् सोयोताः, अधिकं नयनमनोनिवृतिकरा अमृतरससमरसानि फलानि येषां ते तथा, 'पासाईया' इत्यादिविशेषणचतुष्टयं प्राग्वत्। एते च चैत्यवृक्षा अन्यैर्बहुभिस्तिलकलवकच्छत्रौप-गशिरीषसप्तपर्णदधिपर्णलुब्धकधवलचन्दननीपकुटजपनसतालतमालप्रियालप्रियड्गुपारापत-राजवृक्षनन्दिवृक्षैः सर्वतः-समन्तात् संपरिक्षिप्ताः, ते च तिलका यावन्नन्दिवृक्षा मूलमन्तः कन्दमन्त इत्यादि सर्वमशोकपादपवर्णनायामिव तावद्वक्तव्यं यावत् परिपूर्ण लातवर्णनं, 'तेसि ण' मित्यादि, तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णधामरध्वजा इत्यादि चैत्यस्तूप इव तावद्वक्तव्यं यावद् बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया यावत् प्रतिरूपका इति, 'तेसि ण' मित्यादि, तेषां च चैत्यवृक्षाणां पुरतः प्रत्येक मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि, बाहल्यतः 'सव्वरयणामईओ' इत्यादिप्राग्वत्, तासांच मणिपीठिकानामुपरि प्रत्येकं महेन्द्रध्वजाः प्रज्ञप्ताः, ते च महेन्द्रध्वजाः षष्टियोजनान्यूर्ध्वमुचैस्त्वेन अर्द्धक्रोशम्-अर्द्धगव्यूतमुद्वेधेन-उण्डत्वेन अर्द्धक्रोश विष्कम्भतः 'वइरामयवट्टलट्ठसंठिय-सुसिलिट्ठपरिघट्टमट्ठ-सुपइढ़िया' इति वज्रमया वज्ररत्नमया तथा वृत्तं-वर्तुलंलष्ट मनोज्ञंसंस्थित--संस्थानं येषां ते वृत्तलष्टसंस्थितास्तथा सुश्लिष्टा यथा भवन्ति एवं परिघृष्टा इव खरशाणया पाषाणप्रतिमेव सुश्लिष्टपरिघृष्टाः मृष्टाः सुकुमारशाणया पाषाणप्रतिमावत् सुप्रतिष्ठिता मनागपि चलनासंभवात्, ततो विशेषणसमासः, 'अणेगवरपंचवन्नकुडभीसहस्सपरिमंडियाभिरामा वाउद्धृयविजय-वेजयंतीपडागा छत्ताइच्छत्तकलिया तुंगा गगनतलमभिलंघमाणसिहरा पासांईया जावपडिरूवा' इति प्राग्वत्, 'तेसिण' मित्यादि, तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानिबहवः कृष्णचामरध्वजा इत्यादि तोरणवत् सर्वं वक्तव्यं, तेषां च महेन्द्रध्वजानां पुरतः प्रत्येकं नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, एकंयोजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः द्वासप्ततियोजनान्युद्वेधेन-उण्डत्येन; तासांचनन्दापुष्करिणीनाम् अच्छाआ सहाओ रययामयकूलाओ' इत्यादि वर्णनं प्राग्वत्, ताश्च नन्दापुष्करिण्यः प्रत्येकं 2 पद्मवरवेदिकया प्रत्येक 2 वनखण्डन परिक्षिप्ताः, तासां च नन्दा