________________ सूरियाभ 1084 - अभिधानराजेन्द्रः - भाग 7 सूरियाम स्थलजं च तत् भास्वतरप्रभूतं च जलजस्थलजभास्वरप्रभूतं तस्य, पुनः कथम्भूतस्येत्याह--'विटट्ठाइस्स' वृन्तेन-अधोवर्तिना तिष्ठतीत्येवशीलं वृन्तस्थायि तस्य वृन्तस्थायनः, वृन्तमधोभागे उपरि पत्राणीत्येवं स्थानश्लस्यैत्यर्थ 'दसद्धवन्नस्स' दशानासर्द्ध पञ्च दशार्द्ध वर्णा यस्य | तद् दशार्द्धवर्ण तस्य पञ्चवर्णस्येति भावः, इत्थम्भूतस्य च कुसुमजातस्य वर्ष वर्षित्वा ततः योजनपरिमण्डलं क्षेत्रं दिव्यंप्रधानं सुरवराभिगमनयोग्यं कुरुत। कथम्भूत सत् कृत्वा सुरवराभिगमनयोग्यं करुतेत्यत आह–'कालागुरुपवरकुंदुरुक्कतुरुक्कधूक्मघमघंतगुंधुद्धयाभिराम' कालागुरुः प्रसिद्धः प्रवरः-प्रधानः कुन्दुरुक्क:-चीडा तुरुक्वंसिहकं कालागुरुश्च प्रवरकुन्दुरुक्कतुरुकौ च कालागुरु-प्रवरकुन्दुरुक्कतुरुक्काः तेषां धूपस्य यो मधमधाय-मानो गन्धः उद्धृतः-इतस्ततो विप्रसृतस्तेनाभिरामं रमणीयं कालागुरुप्रवरकुन्दुरुक्क-तुरुक्कधूपमघ-- मघायमानगन्धोद्भूताभिरामं तथा शोभनो गन्धो येषां ते सुगन्धास्तेच ते वरगन्धाश्चवासाः सुगन्धवरगन्धास्तेषां गन्धः सोऽस्यास्तीति सुगन्धवरगन्धिकम् 'अतोऽनेकस्वरादिति' इकप्रत्ययः अत एव गन्धिवर्तिभूतं, सौरभ्यातिशयात् गन्धगुटिकाकारिमिति भावः, न केवलं स्वयं कुरुत किन्त्वन्यैरपि कारयत, कृत्वा च कारयित्वा च एतां ममाज्ञप्तिकां क्षिप्रमेव शीघ्रमेव प्रत्यप्पयत, यथाक्तकार्यसम्पादनेन सफलां कृत्वा निवेदयत। तएणं ते आमियोगिया देवा सूरियाभेणं देवेणं एवं वुत्ता समाणा हद्वतुट्ठ० जाव हियया करयलपरिगहियं (दसनह) सिरसावत्तं मत्थए अंजलिं कट्ट एवं देवो तह त्ति आणाए विणएणं वयणं पडिसुणंति, एवं देवो तह त्ति आणाए विणएणं वयणं पडिसुणेत्ता उत्तरपुरच्छिमं दिसिभागं अवकमंति, उत्तरपुरच्छिमं पिसिभागं अवक्कमित्ता वेउध्वियसमुग्धाएणं समोहणंति २त्ता संखेसाई जोयणाई दंडं निस्सरन्ति, तंजहा-रयणाणं वयराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगब्भाणं पुग्लाणं सोगंधियाणं जोइरसाणं अंजणपुलगाणं अंजणाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले परिसाडंति अहा त्ता अहासुहुमे पुग्गले परियायंति २त्ता दोचं पि वेउदिव्यसमुग्घाएणं समोहणंति २त्ता उत्तरवेउव्वियाई रुवाइं विउव्वंति २त्ताताए उकिट्ठाए (पसत्था ए) तुरियाएचवलाए चंडाएजयणाए सिग्याए उद्धयाए दिव्वए देवगइए तिरियमसंखेज्जाणं दीवसमुदाणं मज्झं मज्झेणं वीईवयमाणे २जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्पा एयरी जेणेव अंबसालवणे चेतिएजेणेव समणे भगवं महावीरे तेणेव उवागच्छेति, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खु त्तो आयाहिंणपयाहिणं करेंति 2 त्ता वंदति नमसंति वंदित्ता नमंसित्ता एवं वदासी-अम्हे णं भंते ! सूरियाभस्स देवस्स अभियोगा देवा देवाणुप्पियाणं वंदामो णमसामो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पञ्जुवासामो। (सू०८) 'तए णमि' त्यादि, ततो णमिति पूर्ववत् ते अभियोगिका देवाः सूयाभेन देवन एवमुक्ताः सन्तो 'हट्टतुट्ठ जाव हियया' इति अत्र यावच्छब्दकरणात् 'हठ्ठ तुट्ठचित्तमाणं दिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इति द्रष्टव्यं,'करयलपरिग्गहिय मित्यादि द्वयोर्हस्तयोरन्योऽन्यान्तरिताङ्गुलिकयोः सम्पुटरूपतया यदेकर मीलन सा अञ्जलिस्तां करतलाभ्यां परिगृहीता निष्पादिता करतलपरिगृहीता तां दश नखा यस्याम् एकैकस्मिन् हस्तनखञ्चकसम्भवात् दशनखा तो तथा आवर्तनमावतः शिरम्यावर्तो यस्याः सा शिरस्यावर्ता कण्ठेकाल उरसिलोमे' त्यादिवत् अलुक्मासः, ताम्, अत एवाह-मस्तके कृत्वा विनयेन वचनं सूर्याभस्य देवस्य प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, कथम्भूतेन विनयेनेत्याह-'एवं देवो तह त्ति आणाए' इति हे देव ! एवंयथैव यूयमादिशत तथैवाज्ञया-भवदादेशेन कुम्म इत्येवरूपेण, 'देवो' इत्यत्रौकार आमन्त्रणे प्राकृतलक्षणवशात्, यथा 'अज्जो' इत्यत्र, प्रतिश्रुत्य वचनम् 'उत्तरपुरच्छिमं' उत्तरपूर्वदिग्भागम्, ईशानकोणमित्यर्थः, तस्यात्यन्तप्रशस्तत्वात्, अपक्रामन्ति गच्छन्ति, अपक्रम्य च वैक्रियसमुद्घातेन वैक्रियकरणाय प्रयत्नविशेषेण समोहनन्तिसमवहन्यन्ते; समवहता भवन्तीत्यर्थः, समवहताश्चात्मप्रदेशान् दूरतो विक्षिपन्ति, तथा चाह-'संखेज्जाणि जोयणाणि दंडं निसिरन्ति' दण्ड इव दण्ड:-ऊर्ध्वाधः आयतः शरीरबाहल्यो जीवप्रदेशसमूहस्तं शरीरादहिः सङ्ख्येयानि योजनानि यावन्निसृजन्ति-निष्काशयन्ति, निसृज्य तथाविधान् पुद्गलानाददते, एतदेव दर्शयति, तद्यथा-रत्नानां कतनादीनां 1 बज्राणां 2 वैडूर्याणा।३ लोहिताक्षाणां 4 मसारगल्लाणां 5 हंसगर्भाणां 6 पुद्गलानां 7 सुगन्धिकानां 8 ज्योतीरसानाम् / अञ्जनपुलकानाम् 10 अञ्जनानां 11 रजतानां 12 जातरूपाणाम् १३अङ्कानां 14 स्फटिकानां 15 रिष्ठानां 16 योग्यान् यथाबादरान्असारान् पुद्गलान् परिशायन्ति यथासूक्ष्मान् सारान् पुद्गलान् पर्याददते पर्यादाय चिकीर्षितरूपनिमाणार्थं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते, समवहत्य च यथोक्तानां रत्नादीनामयोग्यान् यथाबादरान् पुद्गलान् परिशातयन्ति यथासूक्ष्मानाददन्ते आदाय च ईप्सितानि उत्तरवैक्रियाणि विकुर्वन्तिा ननु रत्नादीनां प्रोयोग्याः पुद्गला औदारिका उत्तरवैक्रियरूपयोग्याश्च पुद्गला ग्राह्या वैक्रियास्तत् कथमेवं युक्तमिति ? उच्यत-इह रत्नादिग्रहणं सारतामात्रप्रतिपादनार्थं , ततो रत्नादीना-मिवेति द्रष्टव्यमिति न कश्चिद्दाषः; अथवा-औदारिका अपि तैः गृहीताः सन्तो वैक्रियतया परिणमन्ते, पुद्गलानां तत्तसामग्रीवशात् तथा) तथा-परिणमस्वभावत्वादतोऽपि न कश्चिद्दोषः, तत एवमुत्तरवैक्रियाणि रूपाणि कृत्वा तया देवजनप्रसिद्धया उत्कृष्टया प्रशस्तविहायोगतिनामोदया प्रशस्तया शीघ्रसञ्चर