________________ सूरासूरीया १०७८-अभिधानराजेन्द्रः - भाग 7 सूरासूरीया स्त्री० (शूराशूरीया) भोजनेऽयं शूरोऽयञ्च शूरो भुक्तां यथेष्टमित्येवंभूतायां परिवेषणक्रियायाम, ज्ञा० 1 श्रु०५अ०। सूरिपुं० (सूरिन) सदाचार्ये, ग०१अधि०।"अनुयोगभृतां पादान, वन्दे श्रीगौतमादिसूरीणाम् / निष्कारणबन्धूनां, विशेषतो धर्मदातृणाम् // 1 // " अनु०॥"तीआणागयकाले, केई होहिंति गोअमा सूरी जेसिं नामग्गहणे, नियमेणं होइ पच्छित्तं // 1 // " सेन०३ उल्ला०। गुरुगुणानाहसम्मत्तनाणचरणा, पत्तेयं अट्ठ अट्ठ भेइल्ला। बारसमेओ य तेवो, सूरिगुणा हुँति छत्तीसं / / 552 / / सम्यक्त्वस्य दर्शनाचारस्य निःशङ्कितादयः, ज्ञानस्य ज्ञानाचारस्य कालविनयादयः, चरणस्य चारित्राचारस्य ईसिमित्यादयः प्रत्येकमष्टावष्टौ भेदा मिलिताश्चतुर्विंशतिः, तपसश्च बाह्याभ्यन्तरभेदभिन्नस्य प्रत्येकं षड्विधत्वेन अनशनादयो द्वादश भेदाः, सर्वमीलने चषट्त्रिंशद्भवन्ति। अथ भग्यन्तरेणापि गुरोः षट्त्रिंशद्गुणानाहआयाराई अट्ठ उ, तहेव य दसविहो य ठियकप्पो। बारस तव छावस्सग, सूरिगुणा हुँति छत्तीसं / / 553 / / आचाराः श्रुतादयः प्राग्व्यावर्णितस्वरूपा अविवक्षितस्वस्वभेदा अष्टौ गणिसंपदः, तथा"आचेलुक्कु 1 देसिय २-सिजायर 3 रायपिंड 4 किइकम्मे 5 / वय 6 जेट्ट७पडिकम्मणे 8, मासंह पज्जोसवणकप्पो 10 // 1 // " इत्येवं वक्ष्यमाणस्वरूपो दशविधः स्थितकल्पः, तथा द्वादशविधं तपेः प्रागुक्तस्वरूपं तथा षडावश्यकानि सामायिकचतुर्विंशतिस्तववन्दनकप्रतिक्रमणकायोत्सर्गप्रत्याख्यानलक्षणानि, एतानि सर्वाण्यपि मिलितानि षट्त्रिंशत्सूरिगुणा भवन्ति, इह चैवमन्या अपि षट्त्रिंशिकाः संभवन्ति, तास्तु विस्तरभयानाभिधीयन्ते, केवलं किंचित्सोपयोगत्वात् सुप्रतीतत्वाच्च"देसकुलजाइरूवे, संघयणं धिईजुओ अणासंसि। अविकत्थणो अमायी, थिरपरिवाडी गहियवक्को // 1 // जियपरिसो जियनिद्दो, मज्झत्थो देसकालभावन्नू। आसन्नलद्धपइभो, नाणाविहदेसभावन्नू // 2 // पंचविहे आयारे, जुत्तो सुत्तत्थतदुभयविहिन्नू। आहरण हेउ कारण-नयनिउणोगाहणाकुसलो / / 3 / / ससमयपरसमयविऊ, गंभीरो दित्तिमं सिवो सोमो। गुणसयकलिओ एसो, पवयणसारंपरिकहेइ॥ 4 // इति गाथाचतुष्टयभणिताः सूरिगुणाः षट्त्रिंशद् दृश्यन्ते तत्र युतशब्दः प्रत्येकमभिसंबध्यते देशयुतकुलयुत इत्यादि-तत्र यो मध्यदेशे जातो यश्चार्धषट्विंशतिषु जनपदेषु सदेशयुतः, स ह्यार्यदेशभणितं जानाति, ततः सुखेन तस्य समीपे शिष्याः सर्वेऽप्यधीयन्ते इति तदुपादानम् 1, कुलं पैतृकं, तथा च लोकव्यवहारः-इक्ष्वाकुकुलजोऽयमित्यादि, तेन युतः प्रतिपन्नार्थनिर्वाहको भवति 2, जातिर्मातृकी, तया युतो विनयादिगुणवान् भवति 3, रूपयुतो लोकानां गुणविषयबहुमानभाग् | जायते, 'यत्राकृतिस्तत्र गुणा वसन्ती' तिप्रवादात्, कुरूपस्य अनादेयत्वादिप्रसङ्गाच 4, संहननेन विशिष्टशारीरसामर्थ्यरूपेण युतो व्याख्यायां न श्राम्यति 5, धृतिविशिष्टमानसावष्टम्भलक्षणा, तया युतो नातिगहनेष्वप्यर्थेषु भ्रममुपयाति 6, अनाशंसीश्रोतृभ्यो वस्त्राद्यनाकाङ्क्षी 7, अविकत्थनोनातिबहुभाषी, यथा स्वल्पेऽपि केनचिदपराद्धे पुनस्तदुत्कीर्तनं विकत्थनं तद्रहितः 8, अमायी शायरहितः 6, स्थिरा अतिशयेन निरन्तराभ्यासतः स्थैर्यमापन्ना, अनुप्रयोगपरिपाट्यो यस्य स स्थिरपरिपाटिः, तस्य हि सूत्रमर्थो वा न मनागपि गलति 10, गृहीतवाक्य-उपादेयवचनः, तस्य हि स्वल्पमपि वचनं महार्थमिव प्रतिभाति 11, जितपर्षत्, न महत्यामपि पर्षदि क्षोभमुपयाति 12, जितनिद्रोऽल्पनिद्रः स हि रात्रौ सूत्रमर्थं वा परिभावनयन्न निद्रया बाध्यते 13, मध्यस्थ:-सर्वेषु शिष्येषु समचित्तः 14, देशं कालं च भावं च जानातीति देशकालभावज्ञः, स हि देशं कालं भावं च लोकानां ज्ञात्वा सुखेन विहरति, शिष्याणां वा अभिप्रायान् ज्ञात्वा तान् सुखेनानुवर्तयति 15, 16, 17, आसन्ना तत्क्षणादेव लब्धा कर्मक्षयोपशमेनाविभूता प्रतिभा परतीर्थिकादीनामुत्तरप्रदानशक्तिर्यस्य स असान्नलब्धप्रतिभः 18, नानाविधानां देशानां भाषां जानातीति नानाविधदेशभाषाज्ञः, स हि नानादेशीयान् शिष्यान् सुखेन शास्त्राणि ग्राहयति, तत्र देशजांश्च जनान् तत्तद्भाषयां धर्ममार्गेऽवतारयति 16, पञ्चविध आचारो ज्ञानाचारादिरूपस्तस्मिन् युक्त उद्युक्तः, स्वयमाचारेष्वस्थितस्यान्यानाचारेषु प्रवर्तयितुमशक्यत्वात् 24, सूत्रार्थग्रहणेन चतुर्भङ्गी सूचिता, एकस्य सूत्रं नार्थः, द्वितीयस्यार्थो न सूत्र, तृतीयस्य सूत्रमप्यर्थोऽपि चतुर्थस्य न सूत्रं, तत्र तृतीयभङ्गग्रहणार्थ तदुभयग्रहणं, ततः सूत्रार्थतदुभयविधीन् जानातीति सूत्रार्थतदुभयविधिज्ञः 25, आहरणं दृष्ठान्तः हेतुर्द्विविधः कारको, ज्ञापकश्च / तत्र कारको यथा घटस्य कर्ता कुम्भकारः, ज्ञापकोयथा तमसि घटादीनामभिव्यञ्जकः प्रदीपः, उपनयः-उपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः-'कारण तिपाठेतु कारणं-निमित्तं नया नैगमादयः, एतेषु निपुणः आहरणहेतूपनयनयनिपुणः स हि श्रोतारमपेक्ष्य तत्प्रतिपत्त्यनुरोधतः क्वचिद् दृष्टान्तोपन्यासम् 26, क्वचिद्धेतूपन्यासं करोति, 27, उपसंहारनिपुणतया सम्यगधिकृतमर्थमुपसंहरति 28, नयनिपुणतया स सम्यगधिकृतनयवक्तव्यतावसरे सम्यक्सप्रपञ्चवैविक्त्येन नयानभिधत्ते 26, ग्राहणाकुशल:-प्रतिपादनशक्तियुक्तः 30, स्वसमयम् 31 परसमयम् 32 वेत्तीति स्वसमयपरसमयवित्, स हि परेणाक्षिप्तः सुखेन स्वपक्षं परपक्षं च निहियति। गम्भीरः अतुच्छस्वभावः 33, दीप्तिमान्परवादिनामनुद्धर्षणीयः 34, शिवः-अकोपनो, यदिवा यत्रतत्र वा विहरन् कल्याणकरः 35, सोमः-शान्तदृष्टिः३६ इतिषट्त्रिंशद्गुणोपेतोगुरुर्विज्ञेयः, उपलक्षणत्वाचामीषां गुणानामपरैरपि गुणैरौदार्यस्थैर्यादिभिः शशधरकर निकरकमनीयैरलङ्कृतः प्रवचनोपदेशको गुरुर्भवति, तथा चाह"गुणसयकलिओ जुत्तो, पवयणसारं परिकहेइ ति // यद्वा-गुणा मूलगुणा, उत्तरगुणाश्च, तेषां शतानि तैः कलितो युक्तः समीचीन-प्रवचनस्यद्वादशाङ्गस्यसारमर्थकथयितुम्, यदुक्तम्-गुणसुट्टियस्सवयणं, घयपरिसित्तो