________________ सूरमण्डल 1074 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल व्याख्यानं प्रज्ञापनोपाङ्गगतैकादशभाषापदाष्टाविंशतितमाहारपदगतोधिस्तिर्यष्विषयनिर्वचनसूत्रव्याख्यानुसारेण कृतमिति बोध्यं, गमनं च क्रिया सा च बहुसामयिकत्वात् त्रिकालनिर्वर्तनीया स्यादित्यादिमध्यादिप्रश्नः, तद्भदन्त! किमादौ गच्छतः किंमध्ये उतपर्यवसाने / वा? भगवानाह-गौतम ! षष्टिमुहुर्तप्रमाणस्य मण्डलसंक्रमकालस्यादावपि मध्येऽपि पर्यवसानेऽपि गच्छतः उक्तप्रकारत्रयेण मण्डलकालसमापनात्, अथतद्भदन्त! स्वविषये-स्वोचितं क्षेत्रं गच्छतः उत अविषयं वा; स्वानुचितमित्यर्थः, गौतम ! स्वविषयं स्पृष्टावगाढनिरन्तरावगाढस्वरूपं गच्छतः न अविषयम्-अस्पृष्टानवगाढपरम्परावगाढक्षेत्राणां गमनायोग्यत्वात्, तद्भदन्त ! आनुपूर्याक्रमेण यथासन्नं गच्छतः उत अनानुपूर्वी क्रमेणाना-सन्नमित्यर्थः, सूत्रे द्वितीया तृतीयार्थे, गौतम! आनुपूर्व्या गच्छतः न अनानूपूर्व्या व्यवस्थाहानेः, प्रागृक्तमेव दिक्प्रश्नं व्यक्त्या आह-तद्भदन्त ! किमेकदिग्विषयकं क्षेत्रं गच्छतः यावत् षदिग्विषयकम् ? गौतम ! नियमात् षड्दिशि, तत्र पूर्वादिषु तिर्यदिक्षु उदितः सन् स्फुटमेव गच्छन् दृश्यते, ऊर्ध्वाधोदिग्मनं च यथोपपद्यते तथा प्राग्दर्शितम् / सम्प्रत्येतदतिदेशेनावभासनादिसूत्राण्याह-'एवं ओभासेंति' इत्यादि, 'एव' मिति-गमनसूत्र-प्रकारेण अवभासयतःईषदुद्योतयतः, यथा स्थूरतरमेव दृश्यते तमेव प्रकारमीषदर्शयतितद्भदन्त ! क्षेत्रं स्पृष्टसूर्यतेजसा व्याप्तम् अवभासयतः उताम्पृष्टम् ? भगवानाह-स्पृष्टम्, नास्पृष्टम्, दीपादिभास्वरद्रव्याणां प्रभाया गृहादिस्पर्शपूर्वकमेवाव-भासकत्वदर्शनात्, एवं-स्पृष्टापदरीत्या आहारपदानिचतुर्थोपाङ्गगताष्टा-विंशतितमपदे आहारग्रहणविषयकाणि पदानिद्वाराणि नेतव्यानि, तद्यथा-'पुट्ठो' इत्यादि, प्रथमतः स्पृष्टविषयं सूत्रम्, ततोऽधगाढसूत्रंततोऽगुणबादरसूत्रंततऊर्ध्वाधःप्रभृतिसूत्रम्, तत 'आई' इति उपलक्षणमेतत् आदिमध्यावसानसूत्रं ततो विषयसूत्रं तदनन्तरमानुपूर्वी सूत्रम्, ततो यावत् नियमात् षड्दिशीति सूत्रम्, अत्र यथासम्भवं विपक्षसूत्राण्युलक्षणाद्ज्ञेयानि, अत्र चोर्ध्वादिदिग्भावना सूत्रकृत् स्वयमेव वक्ष्यति, एवमुद्द्योतयतोभृशं प्रकाशयतः यथा स्थूलमेव दृश्यते, तापयतः-अपनी-तशीतं कुरुतः, यथा सूक्ष्म पिपीलिकादिदृश्यते तथा कृरुतः, प्रभासयतः-अतितापयोगादविशेषतोऽपनीतशीतं कुरुतः, यथा सूक्ष्मतरं दृश्यते उक्तमवार्थ शिष्यहिताय प्रकारान्तरेण प्रश्नयितुं द्वादशद्वारमाह-'जम्बुद्दीवेण' मित्यादि, जम्बूद्वीपे भदन्त ! द्वीपे द्वयोः सूर्ययोः किमतीते क्षेत्रे-पूर्वोक्तस्वरूपे क्रिया-अवभासनादिका क्रियते, कर्मकर्तरि प्रयोगोऽयं तेन भवतीत्यर्थः, प्रत्युत्पन्ने अनागते वा ? भगवानाह-गौतम! नो अतीती क्षेत्रे क्रिया क्रियते, प्रत्युत्पन्ने क्रियते, नो अनागते, व्याख्यानं प्राग्वत्, सा क्रिया भगवन् ! किं स्पृष्टा क्रियते ? उतास्पृष्टा क्रियते ? गौतम! स्पृष्टा तेजसा स्पर्शनं स्पृष्ट भावे क्तप्रत्ययविधानात् तद्योगाद्या सा स्पृष्टा उच्यते, कोऽर्थ? सूर्यतेजसा क्षेत्रस्पर्शनेऽवभासनमुद्योतनं तापनं प्रभासनं चत्यादिका क्रिया स्यादिति।। अथवा--स्पृष्टात्-स्पर्शना निति पञ्चमीपरतया व्याख्येयं न अस्पृष्टात् क्रियते, अत्र यावत्पदात् आहारपदानि ग्राह्याणि / तत्रयं सूत्रपद्धतिः"से णं भन्ते ! किं ओगाढा अणोगाढा ? ओगाढा णे, अणोगाढा।" अत्रापि भायेक्तप्रत्ययविधानादवगाढम्--अवगाहनं क्षेत्रे तेजःपुद्गलानामवस्थानं तद्योगाद्या साऽवगाढा क्रिया, एवमनन्तरावगाढ-परम्परावगाढसूत्रम्। 'साणं भन्ते! अण्णू किज्जइ ? बायरा किज्जइ ? गोअमा! अणू वि बायरा वित्ति-सा क्रिया अवभासनादिका किमणुर्या बादरा वा क्रियते गौतम! अणुरपि-सर्वाभ्यन्तरमण्डलक्षेत्रावभासनापेक्षया, बादराऽपिसर्वबाह्यमण्डलक्षेत्रावभासनापेक्षया, ऊधिस्तिर्यक्रसूत्रविभावनां सूत्रकृदनन्तरमेव करिष्यति'साणं भन्ते ! किं आई किज्जइमझे किजइ पज्जवसाणे किज्जइ ? गोयमा ! आई पि किज्जइ मज्झं विकिज्जइ पज्जवसाणे विकिजइ'त्ति गमनसूत्र इवात्रापि भावना। एवं विषयसूत्रमानुपूर्वीसूत्रं च ज्ञेयमिति। अथ त्रयोदशद्वारमाहजम्बूदीवेणं भन्ते ! दीवे सूरिआ केवइखेत्तं उद्धं तवयन्ति अहे तिरिअंच? गोयमा! एगंजोअणसयं उद्धंतवयन्ति अट्ठारससयजोअणाई अहे तवयन्ति सीआलीसं जोअणसहस्साई दोण्णि अ तेवढे जोअणसए एगवीसं च सद्विभाए जोअणस्स तिरिअं तवयन्ति त्ति 13 / (सू० 139) / अंतो णं मंते ! माणुसुत्तरस्स पव्वयस्सजे चंदिमसूरिअगहगणणक्खत्ततारारूवा णं भन्ते ! देवा किं उद्घोववण्णगा कप्पोववण्णगा विमाणोववण्णगां चारोववण्णगा चारद्विइआ गइरइआ गइसमावण्णगा? गोयमा ! अंतो णं माणुसुत्तरस्स पव्वयस्स जे चन्दिमसूरिअ जाव तारारूवे ते णं देवाणो उद्घोववण्णगाणो कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा णो चारविइआ गइरइआ गइसमावण्णगा उद्धीमुहकलंबुआपुप्फ संठाणसंठिएहिं जोअणसाहस्सिएहिं तावखेत्तेहिं साहिस्सिआहिं वेउविआहिं बाहिराहिं परिसाहिं महया हयणट्टगीअवाइअतंतीतलतालतुडि अघण-मुइंगपडुप्पवाइअरवेणं दिव्वाइं भोगभोगाई मुंजमाणा महया उक्किडिसीहणायबोलकलकलरवेणं अच्छं पव्वयरायं पयाहिणावत्तमण्डलचारं मेरं अणुपरिअट्टति 14 / (सू०१४०) 'जम्यूदीवेणं' मित्यादि प्रश्नसूत्र व्यक्तम्, उत्तरसूत्रे गौतम ऊर्ध्वमेकं योजनशतं तापयतः, स्वविमानस्योपरि योजनशतप्रमाणस्यैव तापक्षेत्रस्य भावात्, अष्टादशयातयोजनान्यधस्तापयतः कथं ? सूर्याभ्यामष्टासु योजनशतेष्वधोगतेषु भूतलम्, तस्माच योजनसहने अधोग्रामाः स्युस्तांश्च यावत्तापनात् सप्तचत्वारिंशद्योजनसहस्राणि इत्यादि प्रमाण क्षेत्र तिर्यक् तापयतः, एतच सर्वोत्कृष्टदिवस चक्षुःस्पर्शापेक्षया बोध्यम; तिर्यदिक्कथनेन पूर्वपश्चिमयोरेवेदं ग्राह्यम्, उत्तरस्तु 150 न्यून 45 योजनसहस्राणियाम्यतःपुनीपं 180 योजनानि, लवणे तुयोजनानि 33 सहस्राणि 3 शतानित्रयसिंशदधिकानियोजनविभागयुतानीति। अथ मनुष्यक्षेत्रवर्तिज्योतिष्कस्वरूपं प्रष्टुं चतुर्दशद्वारमाह'अंतो णं भन्ते !' इत्यादि, अन्तर्मध्ये भदन्त ! मानुषोत्तरस्य मनुष्ये