________________ सूरमण्डल 1075 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल भ्यः उत्तरः-अग्रवर्ती एनमवधीकृत्य मनुष्याणामुत्पत्तिविपत्तिसिद्धि- | सम्पत्तिप्रभृतिभावात् / अथवा-मनुष्याणामुत्तरोविद्यादिशक्त्यभावेऽनुल्लननीयो मानुषोत्तरस्तस्य पर्वतस्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपज्योतिष्काः ते भदन्त ! अत्रैकस्मिन्नेव प्रश्ने यद्भदन्तेति भगवत्सम्बोधनं पुनश्चक्रे तत्पृच्छकस्य भगवन्नामोच्चारेऽतिप्रीतिमत्त्वात् देवाः किमूर्योपपन्नाः-सौधर्मादिभ्यो द्वादशभ्यः कल्पेभ्यः ऊर्ध्वं ग्रैवेयकानुत्तरविमानेषूपपन्नाः-उत्पन्नाः कल्पातीता इत्यर्थः, कल्पोपन्नाःसौधर्मादिदेवलोकोत्पन्नाः विमानेषुज्योतिःसम्बन्धिषु उपपन्नाः-चारोमण्डलगत्या परिभ्रमणं तमुपपन्नाआश्रितवन्तः उत चारस्ययथोक्तस्वरूपस्य स्थितिः-अभावो येषांतेचारस्थितिका; अपगतचारा इत्यर्थः, गतौ रतिः-आसक्तिः प्रीतिर्येषां ते गतिरतिकाः, अनेन गतौरतिमात्रमुक्तं, सम्प्रति साक्षाद् गतिप्रश्नयति-गतिसम्पन्नाः-गतियुक्ताः? भगवानाहगौतम ! अन्तरमानुषोत्तरस्य पर्वतस्य ये चन्द्र सूर्यग्रहणगणनतारारूपज्योतिष्कास्ते देवा नोोपपन्नाः नो कल्पोपपन्नाः विमानोपपन्नाः चारोपपन्नाः नो चारस्थितिकाः अत एव गतिरतिकाः गतिसमायुक्ताः, ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थितैरिति प्राग्वत्, योजनसाहत्रिकैः अनेकयोजनसहस्रप्रमाणैस्तापक्षेत्रः, अत्रेत्थंभावे तृतीया, तेनेत्थंभूतैस्तैस्तैर्मेसें परिवर्तन्त इति क्रियायोगः, कोऽर्थः ?-उक्तस्वरूपाणि तापक्षेत्राणि कुर्वन्तो जम्बूद्वीपगतं मे परितो भ्रमन्ति, तापक्षेत्रविशेषणं चन्द्रसूर्याणामेव, नतु नक्षत्रादीनां, यथासम्भवं विशेषणानां नियोज्यत्वात्, अथैतान् साधारण्येन विशेषयन्नाहसाहिरकाभिः अनेकसहस्रसङ्ख्याकाभिः वैकुर्विकाभिः-विकुर्वितनानारूपधारिणीभिर्बाह्याभिः-आभियोगिककर्मकारिणीभिः, नाट्यगानवादनादिकर्मप्रवणत्वात्न तुतृतीयपर्षदूपाभिः, पर्षद्भिः-देवसमूहरूपाभिः कर्तृभूताभिः, बहुगमनं चात्र नाट्यादिगणापेक्षया, महता प्रकारेणाऽऽहतानिभृश ताडितानि नाट्ये गीते वादित्रे च-वादनरूपे त्रिविधेऽपि सङ्गीते इत्यर्थः, तन्त्रीतलतालरूपत्रुटितानिशेष प्राग्वत्, तथा स्वभावतो गतिरतिकैः बाह्यपर्षदन्तर्गतैर्देवैर्वेगेन गच्छत्सु विमानेषूत्कृष्टो यः सिंहनादो मुच्यते यौ च बोलकलकलौ क्रियेते, तत्र बोलो नाम मुखे हस्तं दत्त्वा महता शब्देन पूत्करणं, कलकलश्च-व्याकुलशब्दसमूहस्तद्रवेण महता महता समुद्ररवभूतमिव कुर्वाणा मेरुमिति योगः, किंविशिष्टमित्याह-अच्छम्-अतीव निर्मलं जाम्बूनदमयत्वात् रत्नबहुलत्वाच पर्वतराज-पर्वतेन्द्रं प्रदक्षिणावर्तमण्डलचार' मिति प्रकर्षण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरूर्भवति यस्मिन्नावर्तन-मण्डलपरिभ्रमणरूपेस प्रदक्षिणः; प्रदक्षिणः आवर्तो येषां मण्डलानां तानि तथा तेषु यथा चारो भवति तथा क्रियाविशेषणं तेन प्रदक्षिणावर्त्तमण्डलं चारं यथा स्यात्तथा मेरुं परिवर्तन्ते इति योज्यम्, अयमर्थः-चन्द्रादयः सर्वेऽपि समयक्षेत्रवर्त्तिनो मेरु परितः प्रदक्षिणावर्तमण्डलचारेण भ्रमन्तीति। अथ पञ्चदशं द्वारमाह तेसि णं भन्ते ! देवाणं जाहे इंदे चुए भवइ से कहमियाणि पकरेंति ? गोयमा ! ताहे चत्तारि पंच वा सामाणिआ देवा तं ठाणं उवसंपजित्ता णं विहरंतिजाव तत्थ अण्णे इंदे उववण्णे भवइ / इंदट्ठाणे णं भंते ! केवइ कालं उववाएणं विरहिए? गोयमा ! जहण्णेणं एग समयं उकोसेणं छम्मासे उववाएणं विरहिए। बहिआ णं भन्ते ! माणुसुत्तरस्स पय्वयस्स जे चंदिम जाव तारारूवा तं चेव णेअव्वं णाणत्तं विमाणोववण्णगा णो चारोववण्णगा चारद्विइआ णो गइरइआ णो गइसमावण्णगा पक्किट्ठगसंठाणसंठिएहिं जोअणसयसाहस्सिएहिं तावखित्तेहिं सयसाहस्सिआहिं वेउव्विआहिं बाहिराहिं परिसाहिं महया हयणट्ठ ०जाव भुंजमाणा सुहलेसा मन्दलेसा मन्दातवलेसा चित्तंतरलेसा अण्णोण्णसमोगाढाहिं लेसाहिं कूडाविवठाणहिआ सव्वओ समन्ता ते पएसे ओभासंति उनोवें ति पभासेन्ति त्ति। तेसि णं भन्ते ! देवाणं जाहे इंदे चुए से कहमियाणिं पकरेन्ति जाव जहण्णेणं एक्कं समयं, उक्कोसेणं छम्मासा इति 15 / (सू०१४१) 'तेसिण' मित्यादि, तेषा भदन्त ! ज्योतिष्कदेवानां यदा इन्द्रश्च्यवते तदा ते देवा इदानीम् इन्द्रविरहकाले कथं प्रकुर्वन्ति ? भगवानाहगौतम ! तदा चत्वारः पञ्च वा सामानिका देवाः संभूय एकबुद्धितया भूत्वेत्यर्थः तत्स्थानम् इन्द्रस्थानमुपसम्पद्य विहरन्तितदिन्द्रस्थानं परिपालयन्ति, कियन्त कालमिति चेदत आह-यावदन्यस्तत्र इन्द्रउपपन्नः-उत्पन्नो भवति। इदानीमिन्द्रविरहकालं प्रश्नयन्नाह 'इंदट्ठाणे ण' मित्यादि, इन्द्रस्थानं भदन्त ! कियन्तं कालमुपपातेन-इन्द्रोत्पादेन विरहितं प्रज्ञप्तम् ? भगवानाह-गौतम ? जघन्येनैकं समयं यावत् उत्कर्षेण षण्मासान् यावत्ततः परमवश्यमन्यस्येन्द्रस्योत्पाद-सम्भवात् इति। सम्प्रति समयक्षेत्रबहिर्वतिज्योतिष्काणां स्वरूपं पृच्छति-'बहिआ ण' मित्यादि, बहिस्ताद, भगवन् ! मानुषोत्तरस्य पर्वतस्य ये चन्द्रादयो देवास्ते किमूोपपन्नाः, इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्रे तु नोवोपपन्नाः, नापि कल्पोपपन्नाः, किन्तु विमानोपपन्नाः तथा नो चारोपपन्नांनो चारयुक्ताः, किन्तुचारस्थितिकाः, अतएव नो गतिरतयो नापि गतिसमापन्नकाः, पक्वेष्टकासंस्थानसंस्थितैोजनशतसाहसिकैस्तापक्षेत्रैस्तान् प्रदेशान् अवभासयन्तीत्यादिक्रियायोगः, पक्वेष्टकासंस्थानं चात्र यथा पक्वेष्टका आयामतो दीर्घा भवति विस्तरस्तु स्तोका चतुरस्रा च, तेषामपि मनुष्यक्षेत्राद्वहिर्वतिनां चन्द्रसूर्याणामातपक्षेत्राणि आयामतोऽनेकयोजनलक्षप्रमाणानि / इयमत्र भावनामानुषोत्तरपर्यतात् योजनलक्षाद्धतिक्रमे करणविभावनोक्तकरणानुसारेण प्रथमा चन्द्रसूर्यपङ्क्तिस्ततो योजनलक्षानिक्रमे द्वितीया पक्तिम्तेन प्रथमपङ्क्तिगतचन्द्रसूर्याणामेतावांस्ताक्षेत्रस्यायामः विस्तारश्च, एकसूर्यादपरः सूर्यो लक्षयेजनातिक्रमे तेन लक्षयोजनप्रमाणः, इयं च भावना प्रथमपड्क्त्य पेक्षया बोद्धव्या, एवमग्रेऽपि भाव्यम, 'सयसाहस्सिएहि'