________________ सूरमण्डल 1073 - अमिधानराजेन्द्रः - भाग 7 सूरमण्डल खित्ते किरिआ कज्जइ, पडुप्पण्णे कजइ,णो अणागए, सा भन्ते ! किं पुट्ठा कज्जइ ? गोअमा ! पुट्ठाकज्जइ णो अणापुट्ठा कज्जइ जाव णिअमा छद्दिसिं ।(सू०१३८) जम्बूद्वीपे भदन्त ! सूर्यो उद्गगमनमुहूर्ते- उदयोपलक्षिते मुहूर्ते एवमस्तमनमुहूर्ते, सूत्रे यफारलोप आर्षत्वात्, दूरे च-द्रष्टस्थानापेक्षया विप्रकृष्ट मूले च द्रष्टप्रतीत्यपेक्षया आसन्ने दृश्यते, द्रष्टारो हि स्वरूपतः सप्तचत्वारिंशता योजनसहरौः समधिकैर्व्यवहितमुद्रमनास्तमनयोः सूर्य पश्यन्ति, आसन्नं पुनर्मन्यन्ते, विप्रकृष्ट सन्तमपि न प्रतिपद्यन्ते, मध्यान्तिकमुहूर्त इति-मध्यो-मध्यमोऽन्तो-विभागो गमनस्य दिवसस्य वा मध्यान्तः स यस्यमुहुर्त्तस्यास्ति स मध्यान्तिकः, सचासौ मुहूर्तश्चेति मध्यान्तिकोमध्याह्नमुहूर्त इत्यर्थः, तत्र मूले चासन्ने देशे द्रष्टस्थानापेक्षया दूरे च-विप्रकृष्टे देशे द्रष्टप्रतीत्यपेक्षया सूर्यो दृश्यते / द्रष्टा हि मध्यहि उदयास्तमयनदर्शनापेक्षया आसन्नं रविं पश्यति, योजनशताष्टके नै व तदाऽस्य व्यवहितत्वात् मन्यते पुनरुदयास्तमयनप्रतीत्यपेक्षया व्यवहितमिति, अत्र सर्वत्र काक्वा प्रश्नोऽवसेयः। अत्र भगवानाह-तदेव यद्भताऽनन्तरमेव प्रश्नविषयीकृतं तत्तथैवेत्यर्थः यावद् द्दश्यते इति, अत्र चर्मदशां जायमाना प्रतीतिर्मा ज्ञानद्दशां प्रतीत्या सह विसंवदत्विति संवादाय पुनीतमः पृच्छति 'जम्बूद्वीयेण' मित्यादि, जम्बूद्वीपे भदन्त ! द्वीपे उद्गमनमुहूर्ते च मध्यान्तिकमुहूर्ते च अस्तमयनमुहूर्ते च अत्र चशब्दावाशब्दार्थाःसूर्यो सर्वत्र-उक्तकालेषु समौ उच्चत्वेन, अत्रापि काकुपाठात् प्रश्नावगतिः, भगवानाह-तदेव यद्भवता मां प्रति पृष्टं यावदुच्चत्वेनेति, सर्वत्र-उगमनमुहूर्तादिषुसमौ समव्यवधानावुच्चत्वेन समभूतलापेक्षयाऽष्टौ योजनशतानीतिकृत्वा, न हि सती जनप्रतीति वयमपलपाम इति भगवदुक्तमेवानुवदन्नव विप्रतिपत्तिबीजं प्रष्टुमाह-'जइ ण' मित्यादि, प्रश्नसूत्रं स्पष्टम्, उत्तरसूत्रे गौतम! लेश्यायाः-सूयमण्डलगततेजसः प्रतिघातेन दूरतरत्वादुगमनदेशस्य तदपसरणेनेत्यर्थः उद्गमनमुहूर्ते दूरे च मूले च दृश्यते / लेश्याप्रतिघाते हि सुखदृश्यत्वेन स्वभावेन दूरस्थोऽपि सूर्य आसन्नप्रतीतिं जनयति, एवमस्तमयनमुहूर्तेऽपि व्याख्येयम्, द्वयोः समगमकत्वात्, मध्यान्तिकमुहूर्तेतुलेश्याया अभितापेन-प्रतापेन सर्वतस्तेजः प्रतापेनेत्यर्थः, मूले च दूरे च दृश्येते, मध्याह्ने ह्यासन्नोऽपि सूर्यस्तीव्रतेजसा दुर्दर्शत्वेन दूरप्रतीतिं जनयति एवमेवासन्नत्वेन दीप्तलेश्याकत्वं दिनवृद्धिधर्मादयो भावा हुर्रगतत्वने मन्दलेश्याकत्वं दिनहानिशीता-दयश्च वाच्याः, उगमनास्तमयनादीनि चज्योतिष्काणां गति प्रवृत्ततया जायन्ते इति। तेषां गमनप्रश्नायैकाद्वीपे सूर्या किमतीतं-गतिविषयीकृतं क्षेत्रं गच्छतः-अतिक्रामतः उत प्रत्युत्पन्नवर्तमानं गतिविषयीक्रियमाणं उत अनागतं गतिविषयीकरिष्यमाणम्, एतेन इह च यदाकाशखण्डं सूर्यः स्वतेजसा व्याप्नोति तत्क्षेत्रमुच्यते तेनाष्यातीतेत्यादिव्यवहारविषयत्वं नोपपद्यते अनादिनिघनत्वादिति शङ्का निरस्ता। भगवानाह-गौतम! नोशब्दस्य निषेधार्थत्वान्नातीतं क्षेत्रं गच्छतः, अतीतक्रियाविषयीकृते वर्तमानक्रियाया एवासम्भवात्, प्रत्युत्पन्नं गच्छतः वर्तमानक्रियाविषये वर्तमानक्रियायाः सम्भवात्, नो अनागतम् अनागतक्रियाविषयेऽपि तद्सम्भवात्, अत्र | प्रस्तावाद् गतिविषय क्षेत्र कीदृक् स्यादिति प्रष्टुमाह-- 'तं भन्ते ! किं पुढे' इत्यादि, अत्र यावत्पदसंग्रहोऽयम्- 'पुढे गच्छंति, गोअमा! पुढे गच्छंति, णो, अपुटुं गच्छन्ति, तं भन्ते! किं ओगाढं गच्छन्ति अणोगाढं गच्छन्ति ? गोअमा ! ओगाढं गच्छन्ति, णो अणोगाढं गच्छन्ति, तं भन्ते ! किं अणंतरोगाढं गच्छन्ति, परंपरोगाढं गच्छन्ति ? गोअमा ! अणंतरोगाढं गच्छन्ति णो परंपरोगाढं गच्छन्ति, तं भन्ते ! किं अणुं गच्छंति बायरं गच्छंति? गोयमा! अणुं पिगच्छंति बायरं पि गच्छंति, तं भन्ते ! किं उर्द्ध गच्छंति अहे गच्छंति तिरियं गच्छन्ति ? गोअमा! उर्द्ध पि गच्छन्ति तिरिपि गच्छंति अहे विगच्छंति, तं भन्ते ! किं आइं गच्छंति मज्झे वि गच्छंति पञ्जवसाणे गच्छंति ? गोअमा ! आई पि गच्छंति मज्झे वि गच्छंति पज्जवसाणे विगच्छंति,तंभन्ते! किं सविसयं गच्छंति, अविसयं गच्छंति? गोअमा! सविसयं गच्छंति, णो अविसयं गच्छंति, तं मन्ते ! किं आणुपुट्विं गच्छंति अणाणुपुट्विं गच्छंति ? गोयमा ! आणुपुट्विं गच्छंतिणो अणाणुपुट्विं गच्छंति, तं भन्ते ! किं एगदिसिंगच्छंति छतिसिंगच्छंति? गोयमा! नियमा छद्दिसिं गच्छति' त्ति, अत्र व्याख्या-तद् भदन्त ! क्षेत्रं किं स्पृष्टसूर्यबिम्होनसह स्पर्शमागतं गच्छतः-अतिक्रामतः उताऽस्पृष्टम्, अत्र पृच्छकस्यायमाशयः-गम्यमानं हि क्षेत्रं किञ्चित् स्पृष्टमतिक्रम्यते यथाऽपवरकक्षेत्रं किंचिचाऽस्पृष्टं यथा देहलीक्षेत्रमतोऽत्र कः प्रकार इति, भगवानाह-स्पृष्टम् गच्छतः नास्पृष्टम्, अत्र सूर्यबिम्बेन सह स्पर्शनं सूर्यबिम्बावगाहक्षेत्रागहिरपि सम्भवति स्पर्शनाया अवगाहनतोऽधिकविषयत्वात्, ततः प्रश्नयतितद्भदन्त ! स्पृष्ट क्षेत्रम् अवगाढं-सूर्यबिम्बेनाश्रयीकृतम्अधिष्ठितमित्यर्थः उतानवगाढं तेनानाश्रयीकृतं; नाधिष्ठितमित्यर्थः, भगवानाह-गौतम ! अवगाढं क्षेत्रं गच्छतः नानवगाढम्, आश्रितस्यैव त्यजनयोगात्, अथ यद्भदन्त ! अवगाद तदनन्तरावगाढम्-अव्यवधानेनाश्रयीकृतम्, उत परम्परावगाढव्यवधानेनाश्रयीकृतं? भगवानाह-गौतम! अनन्तरावगाढं नपुनः परम्परागाढम्, किमुक्तं भवति-यस्मिन्नाकाशखण्डे यो मण्डलावयवोऽव्यवधानेनावगाढः स मण्डलावयवस्तमेवाकाशखण्डं गच्छति न पुनरपमण्डलावयवावगाढं तस्य व्यवहितत्वेन परम्परावगाढत्वात् तचाल्पमनल्पमपि स्यादित्याह-तद्दन्त ! अणुं गच्छतः बादरं वा ? गौतम ! अण्वपि सवोभ्यन्तरमण्डलक्षेत्रापेक्षया बादरमपि सर्वबाह्यमण्डलक्षेत्रापेक्षया, तत्तचक्रवालक्षेत्रानुसारेण गमनसम्भवात्, गमनं ऊर्ध्वाधस्तिर्यग्गतित्रयेऽपि सम्भवेदिति प्रश्नयति-तद्भदन्त ! क्षेत्रमूर्ध्वमधस्तिर्यग्वा गच्छतः? गौतम ! ऊर्ध्वमपि तिर्यगप्यधोऽपि ऊवधिस्तिर्यक्त्वं च योजनैकषष्टिभागरूपचतुर्विशतिभाग-प्रमाणोत्सेधापेक्षया द्रष्टव्यम्, अन्यथा 'जाव नियमा छ दिसिं' इति चरमसूत्रेण सह विरोधः स्यात्, इदं च