________________ सूरमण्डल 1072- अभिधानराजेन्द्रः - भाग 7 सूरमण्डल मसोः सहावस्थायित्वविरोधात् समानकालीनत्वासंभवः तथापि अवशिष्टेषु चतुर्षु जम्बूद्वीपचक्रवालदशभागेषु सम्भावनया पृच्छत आशयान्नोक्तविरोधः, ननुआलोकामावरूपस्य तमसः संस्थानासंभवेन कुतस्तत्पृच्छौचितीमञ्चति ? उच्यते-नीलं शीतं बहलं तम इत्यादिपुद्गलधर्माणामभ्रान्तसार्वजनीनव्यवहार-सिद्धत्वेनास्य पौगलिकत्वे सिद्धे संस्थानस्यापि सिद्धेः, यथा चास्य पौद्गलिकत्वं तथाऽन्यत्र पूर्वाचार्यैः सुचर्चितत्वान्नात्र विस्तरभिया चर्च्यते इति, ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थिता अन्धकारसंस्थितिः प्रज्ञप्ता, अन्तः संकुचिता बहिर्विस्तृतेत्यादि तदेव-तापक्षेत्रसंस्थित्यधिकारोक्तमेव ग्राां, कियत्पर्यन्तमित्याह यावत्तस्याः अन्धकारसंस्थितेः सर्वाभ्यन्तरिका बाहा मन्दरपर्वतान्ते षड् योजनसहस्राणि त्रीणि चतुर्विशत्यधिकानि योजनशतानि षट् च दशभागान् योजनस्य परिक्षेपेण, अत्रोपपत्ति सूत्रकृदेवाह--' से ण' मिति, प्रश्नसूत्रं प्राग्वत्, उत्तरसूत्रे यो मेरुपरिक्षेपः सत्रयोविंशतिषट्शता-धिकैकत्रिंशद्योजनसहनमानस्तंपरिक्षेपंद्वाभ्यां गुणयित्वा, सर्वाभ्यन्तरमण्डलस्थे सूर्ये तापक्षेत्रसत्कानां त्रयाणां भागानामपान्तराले रजनिक्षेत्रस्य दशभागद्य 2 मानत्वात् दशभिर्विमज्यदशभिर्भागे ह्रियमाणे एष परिक्षेपविशेषे आख्यात इति वदेदेतद्भगवन् ! गौतमः स्वशिष्येभ्यः तथाहि 31623 एतद् द्वाभ्यां गुण्यते जातानि त्रिषष्टिसहस्राणि द्वे शते षट्चत्वारिंशदधिके 63246 एषां दशभिभागे लब्धं यथोक्तं मानम्। अथ बाहमिहि-तीसे ण' मित्यादि, तस्याः अन्धकारसंस्थितेः सर्वबाह्यबाहा पूर्वतोऽपरतश्च परमविष्कम्भो लवणसमुद्रान्ते त्रिषष्टिं योजनसहस्राणि द्वे च पञ्चचत्वारिंशदधिके योजनशते षट् च दशभागान् योजनस्य परिक्षेपेणेति, अत्रोपपत्तिं सूत्रकृदेवाह- 'से ण' मित्यादि, व्यक्तं, नवरं जम्बूद्वीपपरिक्षेपः 316228 तंपरिक्षेपं प्रागुक्तहेतुनाद्वाभ्यां गुणयित्वा दशभिभागे ह्रियमाणे एष परिक्षेपविशेष आख्यात इति वदेत् अथास्या अवस्थितबाहामाह'तया ण' मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारकाले अन्धकारं कियदायामेन प्रज्ञप्तम् ? गौतम ! अष्टसप्तति योजनसहस्राणि त्रीणि च त्रयस्त्रिंशदधिकानि योजनशतानि योजनविभागं चैकम, अवस्थिततापक्षेत्रसंस्थित्यायाम इवायमपि बोध्यः तेन मन्दरार्द्ध-सत्कपञ्चसहस्रयोजनान्यधिकानि मन्तव्यानि सूर्यप्रकाशाभाववति क्षेत्रे स्वत एवान्धकारप्रसरणात्, कन्दरादौ तथा प्रत्यक्षदर्शनात्, सूत्रेऽविवक्षितान्यपि व्याख्यातो विशेषप्रतिपत्तिरिति दर्शितानि / अथ पश्चानुपूर्त्या तापक्षेत्रसंस्थितिं पृच्छति-'जया ण' मित्यादि, यदा भगवन्। सूर्यः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा किंस्थान-संस्थिता तापक्षेत्रसंस्थितिः प्रज्ञप्ता ? गौतम! ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थिता प्रज्ञप्ता, तदेव अभ्यन्तरमण्डलगततापक्षेत्रसंस्थितिसत्कमेव सर्वमवस्थितानवस्थितबाहादिकं नेतव्यं, नवरमिदं नानात्वंविशेषः यदन्धकारसंस्थितेः पूर्व-सर्वाभ्यन्तर-मण्डलगतताप क्षेत्रसंस्थितिप्रकरणे वर्णितम् 632456/10 इत्येवंरूपं प्रमाणं तत्तापक्षेत्रसंस्थितेः प्रमाणं नेतव्यं, द्वीपपरिधिदशभागसत्कभागद्वय प्रमाणत्वात्, यत्तापक्षेत्रसंस्थितेः पूर्ववर्णितम् 48668 4/10 इत्येवंरूपं प्रमाण तदन्धकारसंस्थितेर्नेतव्यं द्वीपपरिधिदशभागसत्कभागत्रयप्रमाणत्वात्, यदत्र तापक्षेत्रस्याल्प तमसश्चानल्पत्वं तत्र मन्दलेश्याकत्वं हेतुरिति, एवं सर्वाभ्यन्तरमण्डलेऽभ्यन्तरबाहविष्कम्भे यत्तापक्षेत्रपरिमाणम्-६४८६६/६० इत्येवंरूपं तदत्रान्धकारसंस्थितेज्ञेयं, यच तत्रैव विष्कम्भेऽन्धकारसस्थितेः 63246/10 इत्येवं तापक्षेत्रस्यात्र मन्तव्यम्, ननु इदं सर्वबाह्यमण्डलसत्कतापक्षेत्रप्ररूपणं, यदि तन्मण्डलपरिधौ 318315 रूपे षष्टिभक्ते लब्धा 5305 रूपा मुहूर्तगतिः तदा च सर्वजघन्यो दिवसो द्वादशमुहूर्तप्रमाणोऽ तो द्वादशभिः सा गुण्यते तथा च कृते 63663 इत्येवंरूपो राशिः स्यात्, यदि वोक्तपरिधिर्द्विगुणितो दशभिर्भज्यते तदाप्यमेव राशिर्द्विधाकरणरीतिलब्धस्तत्किमेतस्मात् सूत्रोक्तराशिर्विभिद्यते ? उच्यते-सूत्रकारेण द्वीपपरिध्यपेक्षयैव करणरीतेर्दर्श्यमानत्वान्नत्रदोषः, अभ्यन्तरमण्डले परिधिर्यथा नन्यूनीक्रियते तथा बाह्यमण्डले नाधिकीक्रियते तत्र विवक्षैव हेतुरिति। सम्प्रति सूर्याधिकारादेतत्सम्बन्धिनं दूरासन्नादिदर्शनरूपं विचारं वक्तुं दशमं द्वारमाहजंबुद्दीवे णं भन्ते ! दीवे सूरिआ उग्गमणमुहुत्तयि दूरे अमूले अ दीसंति मज्झंतिअमुहुत्तं सि मूले अ दूरे अ दीसंति अस्थमणमुहुत्तंसि दूरे अमूले अदीसंति? हंता गोयमा ! तं चेव० जावदीसंति, जम्बुद्दीवेणं भन्ते ! सूरिआ उग्गमणमुहुत्तंसि अ मज्झंतिअमुहुत्तंसि अत्थमणमुहुत्तंसि अ सव्वत्थ समा उच्चत्तेणं, हंतातं चेव० जाव उच्चत्तेणं, जइणं भन्ते ! जम्बुद्दीवे दीवे सूरिआ उग्गमणमुहुत्तंसिअमज्झं० अत्थम० सव्वत्थ समा उच्चत्तेणं, कम्हा णं भन्ते ! जम्बुद्दीवे दीवे सूरिआ उग्गमणमुहुत्तंसि दूरे अमूले अदीसंति हन्ता ! गोयमा ! लेसापडिघाएणं उग्गमणमुहुत्तंसि दूरे अ मूले अ दीसंति इति लेसाहितावेणं मझंतिअमुहुत्तंसि मूले अ दूरे अ दीसंति लेसापडिघाएणं अत्थमणमुहुत्तंसि दूरे अमूले अदीसंति, एवं खलु गोअमा!तं चेव० जावदीसंति 10 / (सू०१३६) जम्बुद्दीवे णं भन्ते ! दीवे सूरिआ किं तीअं खेत्तं गच्छन्ति पडुप्पण्णं खेत्तं गच्छन्ति अणागयं खेत्तं गच्छन्ति ? गोयमा ! णो तीअं खेत्तं गच्छन्ति पड़प्पण्णं खेत्तं गच्छन्ति णो अणागयं खेत्तं गच्छन्ति ति, तं भन्ते ! किं पुढे गच्छन्ति० जाव नियमा छरिसिं ति, एवं ओभासेंति, तं भन्ते ! किं पुढे ओभासेंति? एवं आहारपयाई ऐअप्वाइं पुट्ठोगाढमणंतर-अणुमहआदिविसयाणुपुटवी अ जाव णिअमा छघिसिं, एवं उज्जोवेंति तवेंति पभासेंति 11 (सू० 137) जम्बुद्दीवे णं भन्ते ! दीवे सूरिआ णं किं तीते खित्ते किरिआकाइ पडुप्पण्णे० अणागए०? गोयमा! णो तीए