________________ सूरमण्डल 1067 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल भवति? हंता गोयमा ! जाव राती भवति / (सू०१७७) 'जयाण' मित्यादि, इह सूर्यद्वयभावादेकदैव दिग्द्वये दिवस उक्तः, इह च यद्यपि दक्षिणार्धे तथोत्तरार्द्ध इत्युक्तं तथाऽपि दक्षिणभागे उत्तरभागे चेति बोद्धव्यम्-अर्द्धशब्दस्य भागमात्रार्थत्वात्, यतो यदि दक्षिणार्द्ध उत्तरार्द्धच समग्र एव दिवसः स्यात्तदा कथं पूर्वेण अपरेण च रात्रिः स्यादिति वक्तुं युज्येत, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात्, इतश्च दक्षिणाििदशब्देन दक्षिणादिदिग्भागमात्रमेवाक्सेयं न त्वर्द्धम् अतो यदाऽपि दक्षिणोत्तरयोः सर्वोत्कृष्टो दिवसो भवति तदाऽपि जम्बूद्वीपस्य दशभागअयप्रमाणमेव तापक्षेत्रं तयोः प्रत्येकं स्याद्, दशभागद्वयमानंच पूर्वपश्चिमयोः प्रत्येक रात्रिक्षेत्र स्यात्, तथाहि षष्ट्या मुहूर्तः किल सूर्यो मण्डलं पूरयति उत्कृष्टदिनं चाष्टादशभिर्मुहूर्तरुक्तम् अष्टादश च षष्ट र्दश भागवितयरूपा भवन्ति, तथा यदाऽष्टादशमुहूर्तो दिवसो भवति तदा रात्रिीदशमुहूर्ता भवति, द्वादश च षष्टदशभागद्वयरूपा भवन्तीति, तत्र च मेरुं प्रति नव योजनसहस्राणि चत्वारि शतानि षडशीत्यधिकानि नव च दशभागा योजनस्येत्येतत्सर्वोत्कृष्टदिवसे दशभागत्रयरूपं तापक्षेत्रप्रमाणं भवति 64866/10 कथम् ? मन्दरपरिक्षेपस्य किश्चिन् न्यूनत्रयोविंशत्युत्तरषट्शताधिकैकत्रिंशद्योजनसहस्रमानस्य 316-23 दशभिर्भागे हृते यल्लब्धं 3162 3/10 तस्य त्रिगुणितत्वे एतस्य भावादिति। तथा लवणसमुद्रं प्रति चतुर्नवतिर्योजनानां सहस्राणि अष्टौ शतान्यष्टषष्टद्यधिकानि चत्वारश्च दश भागा योजनस्येत्येतदृत्कृष्टदिने तापक्षेत्रप्रमाणं भवति 64868 4/10, कथम् ? जम्बूद्वीपपरिधेः किञ्चिन्न्यूनाष्टाविंशत्युत्तरशतद्वयाधिकषोडशसहस्रोपेतयोजनलक्षत्रयमानस्य 316228 दशभिर्भागे हृते यल्लब्धं तस्य त्रिगुणितत्वे एतस्य भावादिति / जघन्यरात्रिक्षेत्रप्रमाणं चाप्येवमेव, नवरं परिधेर्दशभागो द्विगुणः कार्यः तत्राद्यं षड्योजनानां सहस्राणि त्रीणि शतानि चतुर्विशत्यधिकानि षट् च दश भागा योजनस्य 6324 6/10 द्वितीयं तु त्रिषष्टिः सहस्त्राणि द्वे पञ्च चत्वारिंशदधिके योजनानां शते षट् च दशभागा योजनस्य 632456/10 सर्वलघौ च दिवसे तापक्षेतमनन्तरोक्तरात्रितुल्यं रात्रिक्षेत्रं त्वन्तरोक्ततापक्षेत्रतुल्यमिति, आयामतस्तु तापक्षेत्र जम्बूद्वीपमध्ये पश्चचत्वारिंशद्योजनानां सहस्राणीति, लवणे च त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि त्रिभागश्च योजनस्य 33333 1/3 उभयमीलने त्वष्टसप्ततिः सहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि योजनत्रिभागश्चेति 78333 1/3 / "उक्कोसए अट्ठारसमुहुत्ते दिवस भवइत्ति। इह किल सूर्यस्य चतुरशीत्यधिक मण्डलशतं भवति तत्र किल जम्बूद्वीपमध्ये पञ्चषष्टिमण्डलानि भवन्ति एकोनविंशत्यधिकं च तेषां शतं लवणसमुद्रस्य मध्ये भवति, तत्र च सर्वाभ्यन्तरे मण्डले यदा वर्त्तते सूर्यस्तदाऽष्टदशमुहूर्तो दिवसो भवति, कथम् ? यदा सर्ववाह्य मण्डले वर्त्ततेऽसौ तदा सर्वजधन्यो द्वादशमुहूर्तो दिवसो भवति, ततश्च द्वितीयसण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहूर्त्तकषष्टिभागाभ्यां दिनस्य वृद्धौ त्र्यशीत्यधिकशततमे मण्डले षड् मुहूर्त्ता वर्द्धन्त इत्येवमष्टादशमुहूर्तोदिवसो भवति, अत एव द्वादशमुर्ता रात्रिर्भवति, त्रिंशन्मुहूर्तत्वादहोरात्रस्य। 'अट्ठारसमुहुत्ताणंतरे ति यदा सर्वाभ्यन्तर मण्डलानन्तरे मण्डले वर्त्तते सूर्यस्तदा मुहूर्तकषष्टिभागद्वयहीनाष्टादशमुहूर्तो दिवसो भवति, स चाष्टादशमुहूर्तादिवसादनन्तरोऽष्टादशमुहूर्त्तानन्तरमिति व्यपदिष्टः, 'सातिरेगा दुवालसमुहुत्ता राइ'तिद्वाभ्यां मुहूर्तकषष्टिभागाभ्यामधिका द्वादशमुहूर्त्ता 'राई भवइ' त्तिरात्रिप्रमाणं भवतीत्यर्थः, यावता भागेन दिन हीयते तावता रात्रिर्वद्धते, त्रिंशन्मुहूर्तत्वादहोरात्रस्येति। एवं एएणं कमेणं एवमित्युपसंहारे, एतेनअनन्तरोक्तेन 'जया णं भंते ! जंबूदीवे दीवे दाहिणड्डे इत्यनेनेत्यर्थः, 'ओसारेयव्वं त्ति-दिनमानं ह्रस्वीकार्य, तदेव दर्शयति-'सत्तरसे' त्यादि, तत्र सर्वाभ्यन्तरमण्डलानन्तरमण्डलादारभ्यैक-त्रिंशत्तममण्डलार्द्ध यदा सूर्यस्तदा सप्तदशमुहूर्तो दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्ताच रात्रिरिति। 'सत्तरसमुहुत्ताणंतरे त्ति-मुहूर्तकषष्टिभागद्वयहीनसप्तदशमुहूर्तप्रमाणो दिवसः, अयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डलार्द्ध भवति, एवमनन्तरत्वमनयत्राप्यूह्यम्-'साइरेगतेरसमुहुत्ता राइ' त्तिमुहूर्त्तक षष्टिभागद्वयेन सातिरेकत्वम्, एवं सर्वत्र 'सोलहसमुहुत्ते दिवसे' त्ति-द्वितीयादारभ्यैकषष्टितममण्डले षोडशमुहूर्तो दिवसो भवति, 'पन्नरसमुहुत्ते दिवसे' त्ति-द्विनवतितममण्डलार्द्ध वर्तमाने सूर्ये, 'चोद्दसमुहुत्ते दिवसे ति द्वाविंशत्युत्तरशततमे मण्डले, 'तेरसमुहत्ते दिवसे' त्तिसार्द्धद्विपञ्चाशदुत्तरशततमे मण्डले, 'बारसमुहत्ते दिवसे' त्ति-त्र्यशीत्यधिकशततमे मण्डले, सर्वबाह्य इत्यर्थः। कालाधिकारादिदमाहजया णं भंते ! जंबूदीवे दीवे दाहिणड्डे वासाणं पढमे समए पडिवज्जइ तया णं उत्तरले वि वासाणं पढमे समए पडिवज्जइ जया णं उत्तरड्ड वि वासाणं पढमे समए पडिबज्जइ-तया णं जंबूदीवे दीवे मंदरस्स पटवयस्स पुरच्छिमपचत्थिमे णं अणंतरपुरक्खडसमयंसि वासाणं पढमे समए पडिवजह? हता गोयमा ! जया णं जंबुद्दीवे दीवे दाहिणड्डे वासाणं पढमे समए पडिवजह तह चेव० जाव पडिवाइ। जया णं मंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमेण वासाणं पढमे समए पडिवज्जइ तयाणं पचत्थिमेण विवासाणं पढमे समए पडिवाइ, जया णं पचत्थिमेणं वि वासाणं पढमे समए पडिवजइ तया णं जाव मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडसमयंसिवासाणं पढमे समएपडिवन्ने भवति? हंता गोयमा! जया णं जंबूदीवेमंदरस्सपव्वयस्स पुरच्छिमेणं, एवं चेव उच्चारेयव्वं० जावपडिवन्ने भवति एवं जहासमएण अभिलावो भणिओवासाणं तहा आवलियाए वि 2, भाणियव्वो, आणापाणूण वि 3, थो