________________ सूरमण्डल 1065 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल "जह जह सभए समए, पुरओ संचरइ भक्खरो गयणे। तह तह इओ वि नियमा, जायइ रयणीइ भावत्थो॥१॥ एवं च सइ नराणं, उदयत्थमणाइँ होतऽनिययाई। सइ देसकालभेए, कस्सइ किंची य दिस्सए नियमा॥२॥ सइचेव य निद्दिहो, रुद्दमुहुत्तो कमेण सव्वेसिं। केसिंचीदाणिं पि अ, विसयपमाणो रखी जेसिं // 3 // '' ति। यत्तु सूर्यप्रज्ञप्तिवृत्तौ सूर्यमण्डलसंस्थित्यधिकारे समचतुरस्रसंस्थितिवर्णनायां युगादौ एकः सूर्यो दक्षिणपूर्वस्याम् एकश्चन्द्रो दक्षिणापरस्यां द्वितीयः सूर्यः पश्चिमोत्तरस्यां द्वितीयश्चन्द्र उत्तरपूर्वस्यामित्युक्तं तत्तु दक्षिणादिभागेषु मूलोदयापेक्षया इति बोध्यम्, अयं च सर्वोत्कृष्टो दिवसः पूर्वसंवत्सरस्य चरमो दिवस इति वक्तुमाह-'से णिक्खममाणे' इत्यादि, अथ निष्क्रामन् सूर्यः नवं संवत्सर मयमानः-प्राप्नुचन्नाददान इत्यर्थः, प्रथमे अहोरात्रेऽभ्यन्तरानन्तरं द्वितीयमण्डलमुपसंक्रम्य चारंचरति इति। अथ दिनरात्रिवृद्ध्यपवृद्ध्यर्थमाहजया णं भंते ! सूरिए अब्भतराणतरं मंडलं उवसंकमित्ता चारं चरइ तयाणं केमहालए दिवसे केमहालिया राई भवइ? गोयमा! तया णं अट्ठारसमुहुत्ते दिवसे भवइ, दोहिं एगहिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइ दोहि अ एगढिमागमुहुत्तेहिं अहिअ त्ति, से णिक्खममाणे सूरिए दोघंसि अहोरत्तंसि० जाव चारं चरइ तया णं केमहालए दिवसे केमहालिया राई भवइ ? गोयमा ! तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगद्विभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई मवइ चउहिं एगसहिभागमुहुत्तेहिं अहिअत्ति, एवं खलु एएणं उवाएणं निक्खममाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे दो दो एगट्टि भागहुत्तेहिं मंडले दिवसखित्तस्स निव्वुद्धेमाणे 2 रयणिखित्तस्स अभिवद्धमाणे 2 सव्वबाहिरं मंडलं उवसंकमित्ताचारं चरइत्ति। (सू०१३४४) "जया ण' मित्यादि, यदा भगवन् ! सूर्यः अभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा भगवन् ! किंमहालयः-किंप्रमाणो दिवसः, किंमहालया-किं प्रमाणा रात्रिः ? भगवानाह-गौतम ! तदा अष्टादशमुहूर्तप्रमाणो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूनो दिवसो भवति, अत्र सूत्रे प्राकृत्वात्पदव्यत्ययः, द्वादशमुहूर्तप्रमाणाद्वाभ्यां मुहूर्त्तकषष्टिभागाभ्यामधिकारात्रिर्भवति अवोपपत्तिर्यथा अष्टादशमुहूर्ते दिवसेद्वादश ध्रुवमुहूर्ताः षट् चरमुहूर्ताः, तेच मण्डलानांत्र्यशीत्यधिकशतेन वर्द्धन्ते चापवर्द्धन्ते, ततोऽत्र त्रैराशिकावतार:-यदि मण्डलानां त्र्यशीत्यधिकशतेन षट् मुहूर्ताः वर्द्धन्ते चापवर्द्धन्ते तदा एकेन मण्डलेन किं वर्द्धते चापवर्द्धते? स्थापना यथा 183161 / अत्रान्त्य राशिनाएककलक्षणेन मध्यराशिः षट्कलक्षणो गुण्यते गुणितेच 'एकेन गुणितं तदेव भवतीति षडेव स्थितास्ते चादिराशिना भज्यन्ते अल्पत्वा भागंन प्रयच्छन्तीति / भाज्यभाजकराश्योस्विकेणापवर्त्तना कार्या, जात उपरितनो राशिकिरूपः अधस्तन एकषष्टिरूपः 1/61 आगतं द्वावेकषष्टिभागौ मुहूर्तस्य अतो दिवसेऽवर्द्धते रात्रीचवर्द्धते इति, एवमग्रेऽपि करणभावना कार्या। अथागेतनमण्डलगते दिनरात्रिवृद्धिहानी पृच्छन्नाह-' से णिक्खममाणे' इत्यादि, अथ निष्कामन् सूर्यो दक्षिणायनसत्के द्वितीये अहोरात्रे अत्र यावच्छब्दात् 'अब्भंतरतचं मंडलं उवसंकमित्ता' इति ज्ञेयम्, सर्वाभ्यन्तरमण्डलापेक्षया तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा किंप्रमाणो दिवसः किप्रमाणा रात्रिर्भवति ? गौतम ! तदा अष्टादशमुहूर्तप्रमाणो द्वाभ्यां पूर्वमण्डलसत्काभ्याम् द्वाभ्यां प्रस्तुतमण्डलसत्काभ्यामित्येवं चतुभिर्मुहूर्तकषष्टि, भागैरूनो दिवसो भवति, द्वादशमुहूर्ता उक्तप्रकारेणैव चतुर्भिर्मुहूर्त्तकषाष्टभागैरधिका रात्रिर्भवति, उक्तातिरिक्लमण्डलेष्वतिदेशमाह-'एवं खलु एएण' मित्यादि, एवं मण्डलत्रयदर्शितरीत्या खलुनिश्चितमेतेन-अनन्तरोक्तेनोपाये न प्रतिमण्डलं दिवसरात्रिसत्कमुहूर्तकषष्टिभागद्वयवृद्धिहानिरूपेण निष्क्रामन्-दक्षिणाभिमुखं गच्छन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरेमण्डले संक्रामन् द्वौ द्वौ मुहूर्त्तकषष्टिभागावेककस्मिन् मण्डले दिवसक्षेत्रस्य निवर्द्धयन् निवर्द्धयन्-हापयन् 2 रजनिक्षेत्रस्य तावेवाभिवर्द्धयन् 2, कोऽर्थः ? -मुहूर्तकषष्टिभागद्वयगम्यं क्षेत्रं दिवसक्षेत्रे हापयन् तावदेव रजनिक्षेत्रे अभिवर्द्धयन्निति सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, प्रतिमण्डल भागद्रयहानिवृद्धी उक्ते। जं०७ वक्ष०। उत्तरायणनिट्टेणं सूरिए पढमाओ मंडलाओ एगूणचत्तालीसइमे मंडले अट्ठहत्तरि एगसट्ठिभाए दिवसक्खेत्तस्स निवुझेत्ता रयणिखेत्तस्स अभिनिवुडेत्ता णं चारं चरइ / एवं दक्खिणायणनियट्टे वि। (सू०७८४) "उत्तरायणनियट्टे णं' ति-उत्तरायणाद् -उत्तरदिग्गमना' निवृत्तः उतरायणनिवृत्तः, प्रारब्धदक्षिणायन इत्यर्थः 'सूरिए त्ति-- आदित्यः 'पढमाओ मंडलाओ' त्ति-दक्षिण दिशं गच्छतो रवेर्यत्प्रथमं तस्मात् न तु सर्वाभ्यन्तरसूर्यमार्गात् ‘एगूणचत्तालीसइमेत्ति-एकोनचत्वारिंशत्तमे मण्डले दक्षिणायनप्रथममण्डलापेक्षया सर्वाभ्यन्तरभमण्डलापेक्षया तु चत्वारिंशे,अट्टहत्तरि तिअष्टसप्ततिः ‘एगसट्ठिभाए' त्ति-मुहूर्त्तस्यैकषष्टिभागान्' दिक्सखेत्तस्स' ति-दिवसलक्षणस्य क्षेत्रस्य दिवसस्यैवैत्यर्थः "निवुड्डेत' ति निबऱ्या हापयित्वेत्यर्थः, तथा 'रयणिखेत्तस्स' त्ति-रजन्या एव 'अभिनिवुड्ढेत' ति-अभिनिवद्ध्यं च; वर्द्धयित्वेत्यर्थः, 'चारं चरति' त्ति भ्राम्यतीत्यर्थः, भावार्थोऽस्यैव चन्द्रप्रज्ञप्तिवाक्यैरुपदर्श्यते-जम्बूद्वीपे यदेतीसूर्यौसर्वाभ्यन्तरमण्डलमुपसक्रम्यचारंचरतस्तदा नवनवतियोजनसहस्राणि षट्चत्वारिंशदधिकानि योजनशतोन्यन्योऽन्यमन्तरं कृत्वा चरतः, एतच जम्बूद्वीपेऽशीत्युत्तरंयोजनशतंप्राविश्याभ्यन्तरंमण्डलं भवति एतस्मिंश्चद्वीगुणे जम्बूद्वीप-प्रमाणादपकर्पितेयथोक्तमन्तरंभवतीति, तथा तत्र तयोश्चरलोरुत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति, जघन्यका च द्वादशमुहूर्ता रात्रिभवति, ततोऽभ्यन्तरमण्डलान्निष्क्रम्य प्रथमेऽहोरात्रे,