________________ सूरमण्डल 1063 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल व्यशीत्यधिकेन शतेन, इत्थं च गुणयित्वा यल्लभ्यते तद् वराशेरपनीय शेषेण धुवंराशिना सहितं पूर्वपूर्वमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं तत्र मण्डले द्रष्टव्यम्, यथा तृतीये मण्डले षट्त्रिंशदेकेन गुण्यते, 'एकेन च गुणित तदेव भवतीति' जाता षट्त्रिंशदेव सा ध्रुवराशेरपनीयते, जातं शेषमिदं-पञ्चाशीतिर्योजनानि नव षष्टिभागा योजनस्य एकस्य य षष्टिभागस्य सत्काश्चतुर्विंशतिरेकषष्टिभागाः 85 6/601 24/61 एतेन पूर्वमण्डलगतं दृष्टिपथप्राप्ततापरिमाणम् एकत्रिंशत् सहस्राणि नव शतानि षोडशोत्तराणि योजनानामेकोचत्वारिंशदेकषष्टिभागा योजनस्य | एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः 31916 इत्येवंरूपसहितं क्रियते, कृते च तृतीये मण्डले यथोक्तं दृष्टिपथप्राप्ततापरिमाणं भवति तच प्रागेव प्रदर्शितं, चतुर्थे मण्डले षट्रत्रिंशद्वाभ्यां गुण्यते गुणयित्वा ध्रुवराशेरपनीय शेषेण ध्रुवराशिना तृतीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सहितं क्रियते, तत इदं तत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति-द्वात्रिंशत्सहस्राणि षडशीत्यधिकानि योजनानामष्टपञ्चाशत् षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः एकादशैकषष्टिभागाः 32086 58/60 / 11/61 / एवं शेषेष्वपि मण्डलेषुभावनीयम्, यदा तु सर्वाभ्यन्तरेमण्डले दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तदा षट्त्रिंशद् यशीत्यधिकेन शतेन गुण्यते, तृतीयमण्डलादारभ्य सर्वाभ्यन्तरस्य मण्डलस्य व्यशीत्यधिकशततमत्वात्, ततो जातानि पञ्चषष्टिः शतानि द्विपचाशदधिकानि 6552, तेषामेकषष्ट्या भागे हते लब्धं सप्तोत्तरं शतं षष्टिभागानां शेषाः पञ्चविंशतिः 107/60 / 25/61 / एतत्पञ्चाशीतिर्यो | जनानि नव षष्टि भागा योजनस्य एकस्य षष्टि भागस्य सत्काः षष्टिरेकषष्टिभागाः 859/60 / 61/61 / इत्येवंरूपाध्रुवराशेः शोध्यते, जातानि पश्चाद् त्र्यशीतिर्योजनानि द्वाविंशतिः षष्टिभागाः योजनस्य | एक स्य षष्टिभागस्य सत्काः पशत्रिंशदेकषष्टिभागाः, इह षत्रिंशदेकषष्टिभागाः कलया न्यूनाः परमार्थतो लभ्यन्ते, एतच्च प्रागेवोपदर्शितम्, तद्य कलया न्यूनत्वं प्रतिमण्डलं भवत् यदा द्वयशीत्यधिकशतममण्डले एकत्र पिण्डितं सचिन्त्यते तदा अष्टषष्टिरेकषष्टिभागा लभ्यन्ते ततस्ते भूयः प्रक्षिप्यन्ते ततो जातमिदं त्र्यशीतियों जनानि त्रयोविंशतिः षष्टिभागाः योजनस्य एकस्य षष्टिभागस्य सत्का द्विचत्वारिंशदेकषष्टिभागाः 8323/60 / 42/61 / एतेन सर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहस्राणि शतमेकोनाशीत्यधिकं योजनानां सप्तपञ्चाशत्वष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का एकोनविशतिरेकषष्टिभागाः 47176 57/60 / 16/61 / इत्येवंरूपसहितं क्रियते, ततो यथोक्तं सर्वाभ्यन्तर मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति तच सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्ट्यधिके योजनानामेकविंशतिश्च | षष्टिभागा योजनस्य ६७२६३६०/६०एवं दृष्टिपथप्राप्ततायां कतिपयेषु / मण्डलेषु सातिरेकाणि पञ्चाशीति 2 योजनानि अग्रेतनेषु चतुरशीति 2, पर्यन्ते यथोक्ताधिकसहितानि त्र्यशीति योजनानि अभिवर्द्धयन् अभिवर्द्धयन् तावद् वक्तव्यो यावत् सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति, इदं च सर्वाभ्यन्तरमण्डलं सर्वबाह्यनन्तरात्मण्डलात् पश्चानुपूर्व्या गण्वमानं त्र्यशीत्यधिकशततमं, प्रतिमण्डलं चाहोरात्रगणनादहोरात्रोऽपि त्र्यशीत्यधिकशततमस्तेनायमुत्तरायणस्य चरमो दिवस इत्याद्यभिधातुमाह-'एस णं दोचे छम्मासे' इत्यादि एष द्वितीयः षण्मासः-प्रागृतयुक्त्या अयनवियशेषो ज्ञातव्यः, एतद् द्वितीयस्य षण्मासस्य पर्यवसानंत्र्यशीत्यधिकशतत-माहोरात्रत्वात्, एष आदित्यः संवत्सरः-आदित्यचारोपलक्षितः संवत्सरं इति, इत्यनेन नक्षत्रादिसंवत्सरव्युदासः, एतच्चादित्यस्य संवत्सरस्य पर्यवसानं चरमायनचरमदिवसत्वात् इति समाप्तं मुहूर्तगतिद्वारम्, तत्सम्बन्धाच दृष्टिपथवक्तव्यताऽपि / जं०७ वक्ष०। स०। जंबुद्दीवे णं दीवे असीउत्तरं जोयणसयं ओगाहेत्ता सूरिए उत्तरकट्ठोवगए पढमं उदयं करेइ। (सू० 80+) ___ 'जंबुद्दीवे ण 'मित्यादि, 'ओगाहित्त' त्ति-प्रविश्य 'उत्तरकट्ठोवगय' त्ति-उत्तरां काष्ठां दिशमुपगतः उत्तरकाष्ठोपगतः प्रथममुदयं करोति, सर्वाभ्यन्तरमण्डले उदेतीत्यर्थः / स०८० सम०। अथाष्टमं दिनरात्रिवृद्धिहानिद्वारं निरूप्यते- / जया णं भंते ! सूरिए सव्वब्मंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं केमहालए दिवसे के महालिया राई भवइ? गोअमा ! तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालमुहुत्ता राई भवइ, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पमंसि अहोरत्तंसि अम्मतराणंतरं मंडलं उवसंकमित्ता चारं चरइ। (सू०-१३४४) 'जयाण मित्यादि यदा भगवन् ! सूर्यः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा को महान् आलयोव्याप्तक्षेत्ररूपः आश्रयो यस्यासौ किंमहालयः कियानित्यर्थः दिवसो भवति, किंमहालया-कियती रात्रिर्भवति ? भगवानाह-गौतम ! तदा उत्तमकाष्ठां प्राप्तः-उत्तमावस्था प्राप्तः आदित्यसंवत्सरसत्कषट्षष्ट्यधिकत्रिशतदिवसमध्ये; यतो नापरः कश्चिदधिक इत्यर्थः अत एवोत्कर्षकः / उत्कृष्ट हत्यर्थः अष्टादशमुहूर्तप्रमाणो दिवसो भवति, यत्र मण्डले यावत्प्रमाणो दिवसस्तत्र तदपेक्षया (शेषा) अहोरात्रप्रमाणा रात्रिरितिजघन्यिका द्वादशमुहूर्ता रात्रिः सर्वस्मिन् क्षेत्रे काले वा अहोरात्रस्य त्रिंशन्महूर्तसंख्याकत्वस्य नैयत्याद, ननु यदा भरतेऽष्टादशमुहूर्तप्रमाणो दिवसस्तदा विदेहेषूजघन्या द्वादशमुहूर्तप्रमाणा रात्रिस्तर्हि द्वादशमुहूर्तेभ्यः परं रात्रेरतिक्रान्तत्वेन षट्मुहूर्तान् यावत्केन कालेन भाव्यम? एवं भरतेऽपि वाच्यम्, उच्यते अत्रषमुहूर्तगम्यक्षेत्रेऽवशिष्ट सति तत्र सूर्यस्योदयमानत्वेन दिवसेनेति, तच्च सूर्यादयास्तान्तरविचारणेन तन्मण्डलगतदृष्टिपथ-प्राप्तताविचारणेन च सूपपन्नम्, आह-एवं सतिसूर्योदयास्तमयने अनियतेआपन्ने भवतुनाम, न चैतदनार्थम्, यदुक्तम्