SearchBrowseAboutContactDonate
Page Preview
Page 1086
Loading...
Download File
Download File
Page Text
________________ सूरमण्डल 1062 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल 318267, इदं च योजनराशिं षष्ट्या गुणयित्वा सवर्णिता मुहूर्तगतिरिति यथा व्यवयिते तथा प्रागुक्तम्, एतदेभिस्त्रिभिः शतैः सप्तष्ट्यऽधिकैर्गुण्यते जाता एकाश कोठ्योऽष्टषष्टिलक्षाश्चतुर्दश सहस्राणि नव शतानि / नयनवत्यधिकानि 116814666, एतस्य एकषष्ट्या गुणितया षष्ट्या 3660, भागो हियते लब्धान्येकत्रिंशत्सहस्राणि नव शतानि षोडशोत्त-- राणि 31616, शेषमुद्भरति चतुर्विंशतिशतानि एकोनचत्वारिंशदधिकानि 2436, न चातो योजनान्यायान्ति ततः षष्टिभागानयनार्थमेकषष्ट्या भागो ह्रियते लब्धाः एकोनचत्वारिंशत् षष्टिभागाः 36 एकस्य च षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः 60/61 अथ तृतीयं मण्डलम्'से पविसमाणे' इत्यादि। अथ प्रविशन्-जम्बूद्वीपाभिमुखं चरन् सूर्यः द्वितीयेऽहोरात्रे; उत्तरायणसत्के इत्यर्थः बाह्यतृतीयमण्डलमुपसंक्रम्य चारं चरित। तदा किमित्याह-- जया णं भंते ! सूरएिबाहिरतचं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइ खेत्तं गच्छद? गोअमा ! पञ्च पञ्च जोअणसहस्साई तिण्णि अ चउरुत्तरे जाअणसए इगुणालीसं च सट्ठिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मुणयस्स एगाहिएहिं बत्तीसाए जोअणसहस्सेहिं एगूणपण्णाए अ सहिभाएहिं जोअणस्स सहिभागं च एगसद्विधा छेत्ता तेवीसाए चुण्णिआमाएहिं सूरिए चक्खुप्फासं हव्वमाच्छइ त्ति, एवं खलु एएणं उवाएणं पविसमाणे, सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे अट्ठारस अट्ठारस सट्ठिभाए जोअणस्स एगमेगे मंडले मुहुत्तगई निवड्वेमाणे निवड्डेमाणे सातिरगाईपंचासीति पंचासीति जोअणाई पुरिसच्छायं अभिवद्धमाणे अभिवद्धेमाणे सव्वन्तरं मंडलं उवसंकमित्ता चारं चरइ, एस णं दोचे छम्मासे, एस णं दोचस्स छम्मासस्स पञ्जवसाणे, एस णं आइचे, संवच्छरे एस णं आइचस्स संवच्छरस्सपज्जवसाणे पण्णत्ते। (सू०-१३३+) 'जयाण' मित्यादि, यदा भगवन् ! सूर्यः बाह्यतृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा एकैकने मुहूर्तेन कियत् क्षेत्रं गच्छति ? भगवानाहगौतम ! पञ्च पञ्च योजनसहस्राणि त्रीणि चतुरुत्तराणि योजनशतानि एकोनचत्वारिंशतं च षष्टिभागान् योजनस्य 5304 36/60 / एकैकेन मुहूर्तेन गच्छति, तथाहि-अस्मिन् मण्डले परिरयपरिमाणं तिस्रो लक्षा अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके 318276 अस्य च षष्ट्या भागे हृते लब्धं यथोक्तमत्र मण्डले मुहूर्त्तगतिप्रमाणम्, अथात्र दृष्टिपथप्राप्तता-तदा इहगतस्य मनुष्यस्य एकाधिकैात्रिंशता सहौरेकोनपञ्चाशता च षष्टिभागैरेकं च षष्टिभागमेकषष्टिधाछित्त्वा तस्य सत्कैस्रयोविंशत्या चूर्णिकाभागैः ३२००१।३६/६०।२३/६१।सूर्यः चक्षुःस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले दिवसो द्वादशमुहूर्त- | प्रमाणश्चतुर्भिर्मुहूर्तकषष्टिभागैरधिकस्तस्यार्द्ध षट्मुहूर्त्ता द्वाभ्यामेकषष्टिभागाभ्यामधिकास्ततः सामस्त्येनैकषष्टिभागकरणार्थं षडपि मुहूर्ता एकषष्ट्या गुण्यन्ते गुणयित्वा च तत्र द्वावेकषष्टिभागौ प्रक्षिप्येते ततो जातानि त्रीणि शतानि अष्टषष्ट्यधिकानि एकषष्टिभागानाम् 368, ततोऽस्मिन् मण्डले यत्परिरयप्रमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके 318276 एतत् त्रीभिः शतैः अष्टषष्ट्यधिक मुंण्यते जाता एकादश कोटयः एकसप्ततिः शतसहस्राणि षड्विंशतिः सहस्राणि षट्शतानि द्विसप्तत्यधिकानि 117126672, अस्य एकषष्ट्या गुणितया षष्ट्या 3660 भागे लब्धानि द्वात्रिंशत्सहस्राणि एकोत्तराणि 32001 शेषं त्रीणि सहस्राणि द्वादशोत्तराणि 3012 तेषां षष्टिभागानयनार्थमेकषष्ट्या भागे हृते लब्धा एकोनपञ्चाशत् षष्टिभागाः 46/60 एकस्य षष्टिभागस्य सत्कास्त्रयोविंशतिश्चूर्णिकाभागाः 23/61 इति, समावायाने तु त्रसत्रिंशत्समवाये -'जया णं सूरिए बाहिराणंतरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं इहगयस्स पुरिसस्स तेत्तीसाए जोअणसहस्सेहिं किंचि विसेसूणेहिं चक्खुप्फासं हव्वमागच्छइ' त्ति, एतवृत्तौ च इह तु यदुक्तं त्रयस्त्रिंशत् किञ्चिन्न्यूनास्तत्र सातिरेकयोजनस्यापि न्यूनसहस्रता विवक्षितेति सम्भाव्यते इति, अथात्रापि चतुर्थमण्डलादिष्वतिदेशमाह-'एवं खलु' इत्यादि, एवमुक्तेन प्रकारेण खलु-निश्चितमेतेनोपायेन-शनैः शनैः तत्तदनन्तराभ्यन्तरमण्डलाधिमुखगमनरूपेणाभ्यन्तरं प्रविशन् सूर्यस्तदनन्तरान्मण्डलात् तदनन्तरं मण्डलं संक्रामन् २एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र द्वितीया पूर्ववत् २मुहूर्तगतिपरिमाणे अष्टादश अष्टादश षष्टिभागान् योजनम्य व्यवहारतः परिपूर्णान् निश्चयतः किञ्चिदूनान् निबबर्द्धयन् 2 हापयन्नित्यर्थः, पूर्वमण्डलात् अभ्यन्तराभ्यन्तरमण्डलस्य परिरयमधिकृत्याष्टादशयोजनहीनत्वात्, पुरुषच्छायामित्यत्रापि द्वितीया पूर्ववत्, ततोऽयमर्थःपुरुषच्छायायां दृष्टिपथप्राप्ततारूपायां नवमिः षष्टिभागैः षष्ट्या च चूर्णिकाभागैः सातिरेकाणि-समधिकानिपञ्चाशीतिपञ्चाशीति योजनान्यभिवर्द्धयन्नभिवर्द्धयन् प्रथमद्वितीयादिषु कतिपयेषु मण्डलेषु इयं वृद्धिÖया, सर्वमण्डलापेक्षया तु येनैव क्रमेण सर्वाभ्यन्तरान्मण्डलात्परतो दृष्टिपथप्राप्ततां हापयन्निर्गतस्तेनैव क्रमेण सर्वबाह्यान्भण्डलादर्वाक्तनेषु दृष्टिपथप्राप्ततामभिवर्द्धयन् प्रविशति, तत्र सर्वबाह्यमण्डलादर्वाक्तनद्वितीयमण्डलगतात् दृष्टिपथप्राप्ततापरिमाणात्सर्वबाह्ये मण्डले पञ्चाशीति योजनानि नव षष्टिभागान् योजनस्य एकं च षष्टिभागमेकषष्टिधामित्त्वा तस्य सत्कान् षष्टिभागान् हापयति, एतच्च प्रागेव भावितं तस्मात् सर्वबाह्यादाक्तने द्वितीये मण्डले प्रविशन् तावद्भूयोऽपि दृष्टिपथप्राप्ततापरिमाणेऽभिवर्द्धयति तच ध्रुवं, ततोऽक्तिनेषु मण्डलेषु यस्मिन् मण्डले दृष्टिपथप्राप्तया ज्ञातुमिष्यते, तृतीयमण्डलादारभ्य तत्तन्मण्डलसंख्यया षट्त्रिंशद् गुण्यते, तद्यथा-तृतीयमण्डलचिन्तायामेकेनचतुर्थमण्डलचिन्तायांद्वाभ्याम्एवं यावत्सर्वाभ्यन्तरमण्डलचिन्तायां
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy