________________ सूरमण्डल 1061 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल कत्र्यशीतिचतुरशीतिपञ्चाशीतियोजनानां सम्भवेऽपि सूत्रेयचतुरशीतिग्रहणं तदेहलीप्रदीपन्यायेनोभयपार्श्ववर्तिन्योस्त्र्यशीतिपञ्चाशीत्योग्रहणार्थमिति। अथोक्ते एव मण्डलक्षेत्रे पश्चानुपूर्व्या सूर्यस्य मुहूर्तगत्याद्याहजया णं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरइ तयाणं एगमगेणं मुहुतेणं केवइखेत्तं गच्छइ ? गोयमा ! पंच पंच जोअणसहस्साइंतिण्णि अपंचुत्तरे जोयणसए पण्णरस य सहिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणुस्सस्स एगतीसाए जोअणसहस्सेहिं अट्ठहि अ एगतीसेहिं जोअणएहिं तीसाए असहिभाएहिं जोअणस्स सूरिए चक्खुप्फासं हव्वमागच्छद त्ति, एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पज्जपसाणे, से सूरिए दोचे छम्मासे अयमाणे पढमंसि अहोरतसि बाहिराणंतरं मंडलं उवसकमित्ता चारं चरइ।(सू०१३३४) "जया ण 'मित्यादि, यदा भगवन् ! सूर्यः सर्वबाह्यमण्डलमुपसक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियते क्षेत्रं पच्छति? गौतम! पञ्च पञ्च योजनसहस्राणि त्रीणि पञ्चोत्तराणि योजनशतानि पञ्चादश षष्टिभागान् योजनस्य 5305 15/60 एकैकेन मुहूर्तेन गच्छति, कथमिति चेत् ? उच्यते अस्मिन् मण्डले परिरयपरिमाणं तिस्रो लक्षा अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि 318315 ततोऽस्य प्रागुक्तयुक्तिवशात् षष्ट्या भक्ते लब्धं यथाक्रमत्र मण्डले मुहूर्तगतिपरिमाणमिति अत्र दृष्टिपथप्राप्ततापरिमाणमाह तदा सर्वबाह्यमण्डलचारचरणकाले इहगतस्य मनुष्यस्येतिप्राग्वत् एकत्रिंशता योजनसहस्रैरष्टभिश्चैकत्रिंशदधिकैर्योजनशतैस्त्रिंशता चषष्टिभागैर्योजनस्य 3183130/60 सूर्यः शीघ्रं चक्षु स्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्तप्रमाणो, दिवसस्यार्द्धन यावन्मात्रं क्षेत्र व्याप्यतेतावति स्थित उदयमानः सूर्यः उपलभ्यन्तेद्वादशानां च मुहूर्तानामर्द्ध षट् मुहूर्तास्ततो यदत्र मण्डले मुहूर्तगतिपरिमाणं पञ्च योजनसहस्राणि त्रीणि शतानि पञ्चोत्तराणि पञ्चदश च षष्टिभागा योजनस्य 5305 १५/६०तत्षड्भिगुण्यते, दिवसार्द्धगुणिताया एव मुहुर्तगतेदृष्टिपथप्राप्तताकरणत्वात्, ततो यथोक्तमत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, यद्यप्युपान्त्यमण्डलदृष्टिपथप्राप्ततापरिमाणात् पञ्चाशीतिर्योजनानिनवषष्टिभागायोजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः इत्येवं राशौ शोधिते इदमुपपद्यते एतच्च प्राग भावितं तथापि प्रस्तुतमण्डलस्योत्तरायणगतमण्डलानामवधिभूतत्वेनान्यमण्डलकरणनिरपेक्षतया करणान्तरमकारि इदं च सर्वाभ्यन्तरानन्तरमण्डलात् पूर्वामुपूर्व्या गण्यमानं त्र्यशीत्यधिकशततमम्, प्रतिमण्डलंचाहोरात्रगणनादहोरात्रोऽपित्र्यशीत्यधिकशतत मस्तेनाय दक्षिणायनस्य चरमो दिवस इत्याद्यभिधातुमाह 'एसणं पढमे छुम्मासे', 'एसण' मित्यादि,एष चदक्षिणायनसत्कत्र्यशीत्यधिकशतदिनरूपो राशिः प्रथमः षण्मासः-अयनरूपः कालविशेषः, षटसंख्याङ्काः मासाः पिण्डीभूता यत्रेति व्युत्पत्तेरिदं समाधेयम्, अन्यथा प्रथमः षण्मास इत्येकवचनानुपपतिरिति / अथवा-पात्र्यादिगणान्तः पाठात् स्त्रीत्वाभावे अदन्तद्विगुत्वेऽपिन डीप्रत्ययस्तेनैव तत्प्रथमं षण्मासम्, आर्षत्वात् पुंस्त्वम् एतच प्रथमस्य षण्मासम्य दक्षिणायनरूपस्य पर्यवसानम्, अथ सर्वबाह्यमण्डलचारानन्तरं सूर्यो द्वितीयं षण्मासं प्राप्नुवन् गृह्णन् इत्यर्थः, प्रथमे अहोरात्र उत्तरायणस्येति गम्यम् बाह्यानन्तरं पश्चानुपूर्ध्या द्वितीयं मण्डल-मुपसंक्रम्य चारं चरति। अथात्र गत्यादिपश्नार्थ सूत्रमाहजया णं भंते ! सूरिए बाहिराणंतरं मंडलं उवसंकभित्ता चारं चरइतयाणं एगमेगेणं मुहुत्तेणं केवइखेत्तं गच्छइ ? गोअमा! पंच पंच जोअणसहस्साई तिण्णि अ चउरुत्तरे जोअणसए सत्तावण्णं च सट्ठिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्समणुस्सरस एगत्तीसाए जोअणसहस्सेहि एवहि अ सोलसुत्तरेहिं जोअणसएहिं इगुणालीसाए अ सट्ठिभाएहिं जोअणस्स सट्ठिभागं च एगसहिधा छेत्ता सट्ठीए चुण्णिआभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइ त्ति, से पविसमाणे सूरिए दोचंसि अहोरत्तंसि बाहिरतचं मंडलं उवसंकभित्ता चारं चरइ। (सू०-१३३४) 'जया ण' मित्यादि, यदा भगवन् ! सूर्यः बाह्यानन्तरमाक्तनं द्वितीयं मण्डलमपुसंक्रम्य चारं चरति तदा भगवन् ! एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति? भगवानाह-गौतम! पञ्चपञ्चयोजनसहस्राणि त्रीणि च चतुरुत्तराणि योजनशतानि सप्तपञ्चाशतं च षष्टिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति 5304 57/60, तथाहि-अस्मिन् मण्डले परिरयपरिमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके योजनानाम् 318267, ततोऽस्य षष्ट्या भागे हृते लब्धं यथोक्तत्र मण्डले मुहूर्तगतिप्रमाणम्, अत्रापि दृष्टिपथप्राप्ततापरिमाणमाह-तदा इहगतस्य मनुष्यस्येति प्राग्वत् एकत्रिंशता योजनसहौः षोडशाधिकैः नवभिश्च योजनशतैरेकोनचत्वारिंशता च षष्टिभागैर्योजनस्य एक चषष्टिभागमकषष्टिधा छित्त्वा तस्य सत्कैः षष्ट्या चूर्णिकाभागैः 3161636/60 / 60/61 / सूर्यश्चक्षुःस्पर्शमागच्छति / तथाहि-अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्तप्रमाणो द्वाभ्यां मुहूर्त्तकषष्टिभागाभ्यामधिकः तेषां चाढ़ें षट्मुहूर्ताः एकेन मुहूर्त्तकषष्टिभागेनाभ्यधिकास्ततः सवर्णनार्थ षडपि मुहूर्ता एकषष्ट्या गुण्यन्ते ततएकः षष्टिभागस्तत्रीधिकः प्रक्षिप्यते, ततोजातानि श्रीणि शतानि सप्तषष्ट्याधिकानिएकषष्टिभागानां 367, ततः प्रस्तुतमण्डले यत्परिमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके