________________ सूरमण्डल १०६०-अभिधानराजेन्द्रः - भाग 7 सूरमण्डल संक्रम्य चारं चरति, यचात्रोक्तम् 84 योजनानि किञ्चिन्न्यूनानि उत्तरोत्त- | रमण्डलसत्कपुरुषच्छायायां हीयन्ते इति तत्स्थूत उक्तम्, परमार्थतः पुनरिदं द्रष्टव्यम्-त्र्यशीतिर्योजनानि त्रयोविंशतिश्च षष्टिभागाः योजनस्य / एकस्य षष्टिभागस्य एकषष्टिधाच्छिन्नस्य सत्का द्विचत्वारिंशद्भागाश्चेति दृष्टिपथप्राप्तताविषये हानौः ध्रुवं, ततः सर्वाभ्यन्तरान्मण्डलात् तृतीयं यन्मण्डलं ततः आरभ्य यस्मिन् मण्डले, दृष्टिपथप्राप्तता ज्ञातुमिष्यते तत्तन्मण्डलसंख्यया षट्त्रिंशद् गुण्यते, तद्यथा-सर्वाभ्यन्तरान्मण्डलात्तृतीये मण्डले एकेन चतुर्थेद्वाभ्यां पञ्चमे त्रिभिर्यावत् सर्वबाह्यमण्डले, व्यशीताधिकशतेन गुणयित्वा ध्रुवराशिमध्ये प्रक्षिप्यते, प्रक्षिप्ते, सति यद्भवति तेन हीना पूर्वमण्डलसत्कदृष्टिपथप्राप्तता तस्मिन् विवक्षिते मण्डले दृष्टिपथप्राप्तता ज्ञातव्या, अथ त्र्यशी-तियोजनादिकस्य ध्रुवराशेः कथमुपपत्तिः ? उच्यते- सर्वाभ्यन्तरमण्डले दृष्टिपथप्राप्ततापरिमाणे सप्तचत्वारिंशत्सहस्राणि द्वेशते त्रिषष्ट्यधिके योजनानामेकविंशतिश्चषष्टिभागा योजनस्य 47263 / 21/61, एतच नवमुहूर्तगम्यं तत एकस्मिन् मुहूर्तेकषष्टिभागे किमागच्छतीति चिन्तायां नव मुहूर्ता एकषष्ट्यां गुण्यन्ते जतानि पञ्चशतान्येकोनपञ्चाशदधिकानि ५४६.तैर्भाग हृते लब्धानि षडशीतिर्योजनानि पञ्च षष्टिभागा योजनस्य एकस्य च षष्टिभागस्यैकषष्टिधाछिन्नस्य चतुर्विशतिर्भागाः 86 / 5/60 / 24/ 61 / इदं च सर्वाभ्यन्तरे मण्डले एकस्य मुहूर्तेकषष्टिभागस्य गम्यत्, अथ द्वितीयमण्डलपरिरयवृद्ध्यङ्कभजनाद्यल्लभ्यते मुहूर्त्तकषष्टिभागेन तच्छोधनार्थमुपक्रम्यते, पूर्वपूर्वमण्डलादनन्तरानन्तरे मण्डले परिरयपरिमाणचिन्तायामष्टादशाष्टादश योजनानि व्यवहारः परिपूर्णानि वर्धन्ते, ततः पूर्वपूर्वमण्डलगतमुहूर्त्तगतिपरिमाणादनन्तरानन्तरे मण्डले मुहूर्तगतिपरिमाणचिन्तायां प्रतिमुहूर्त्तमष्टादशप्रतिमुहूर्तमष्टादश षष्टिभागा योजनस्य वर्द्धन्ते, प्रतिमुहूर्तकषष्टिभागं चाष्टादशैकस्य षष्टिभागस्य सत्का एकषष्टिभागाः, सर्वाभ्यन्तरानन्तरेच द्वितीयमण्डले नवमुहूत्तरेकेन मुहूर्त्तकषष्टिभागेनोनैर्यावत् क्षेत्र व्यायते तावति स्थितः सूर्योदृष्टिपथप्राप्तो भवति ततो नव मुहूर्ता एकषष्ट्या गुण्यन्ते जातान्यष्टानवतिशतानि चतुषष्ठ्यधिकानि 1864, तेषां षष्टिभागानयनार्थमकषष्ट्या भागो हियते लब्धमेकषष्ट्यधिकं शतं षष्टिभागानां त्रिचत्वारिंशत् षष्टिभागस्य सत्का एकषष्टिभागाः 161 / 43/61, शेषा एकत्वारिंशत् षष्टिभागाः एकस्य च षष्टिभागस्य सत्कास्त्रिचत्वारिंशदेकषष्टिभागाः, एतच्च द्वेयजनेएकचत्वारिंशत्षष्टि-भागा योजनस्य एकस्य षष्टिभागस्य सत्कास्त्रिचत्वारिंशदेकषष्टिभागा इत्येवंरूपं प्रागुक्तात् षडशीतियोजनानि पञ्चषष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काश्चतुर्विशतिरेकषष्टिभागा इत्येतस्माच्छोध्यन्ते, शोधितेचतस्मिन् स्थितानि त्र्यीशीतियोजनानि त्रयोविंशतिः षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का द्विचत्वारिंशदेकषष्टिभागाः 83 / 32/60 / 42/61 / एतावच सर्वाभ्यन्तरमण्डलगत-दृष्टिपथप्राप्ततापरिमाणाद् द्वितीयमण्डलगतदृक्पथप्राप्तता परिमाणं हीनं स्यात्, एतचोत्तरोत्तरमण्डलदृष्टिपथप्राप्तताचिन्ताया हानौ ध्रुवम्, अत एव ध्रुवराशिरित्युच्यते, ततो द्वितीयस्मान् मण्डलादनन्तरे तृतीये मण्डले एष एव ध्रुवराशिरेकस्य षष्टिभागस्य सत्कैः षट्त्रिंशता भागभागैः सहितो यावान् राशिः स्यात्, तथाहि-त्र्यशीतिर्योजनानि चतुर्विशतिःषष्टिभागायोजनस्य सप्तदशचषष्टिभागस्यसत्का एकषष्टिभागा इति तावान् द्वितीयमण्उलगताद् दृष्टिपथप्राप्ततापरिमाणाच्छोध्यते, ततो भवति, यथोक्तमत्र मण्डले दृष्टिपथप्राप्ततापरिमाणम्, चतुर्थमण्डले स एव ध्रुवराशिसप्तत्या सहितः क्रियते, चतुर्थं हि मण्डलं तृतीयमण्डलापेक्षया द्वितीयम्, ततः षट्त्रिंशद्वाभ्यां गुणिता द्विसप्ततिः स्यात् तया सहित-स्त्रयशीतयादिको राशिः 83 / 24/60 / 53/61 / इत्येवं स्वरूपो जातः, अयं च तृतीयमण्डलगतात् दृष्टिपथप्राप्ततापरिमाणाच्छोध्यते ततो यथाविस्थतं तुर्य(४)- मण्उले दृक्पथ-- प्राप्तिमानम्, तचेदम् सप्तचत्वारिंशद्योजनसहस्राणि त्रयोदशोत्तराणि अष्टौ च षष्टिभागा योजनस्य एकस्य च षष्टिभागस्य सत्का दशैकषष्टिभागाः, सर्वान्तिमे तु मण्डले तृतीयमण्डलापेक्षया ट्यशीत्यधिकशततमे यदा दृष्टिपथप्राप्तिजिज्ञासा तदाषत्रिंशद्ह्यशीत्यधिकशतेन गुण्यतेजातानि पञ्चषष्टिशतानि द्विपञ्चाशदधिकानि 6552 ततः षष्टिभागानयनार्थमेकषट्या भागे लब्धं सप्तोत्तरं शतं षष्टिभागानां पञ्चविंशतिरवशिष्टा एतद् ध्रुवराशौ प्रक्षिप्यते जातं पञ्चाशीतिर्योजनाति एकादश षष्टिभागाः योजनस्य एकस्य षष्टिभागस्य सत्काः षडेकषष्टिभागाः 85 / 11/60 / 6/61 / इह षट्त्रिंशतएवमुत्पत्तिः- पूर्वस्मात् पूर्वस्मात् मण्डलादनन्तरे मण्डले दिवसो द्वाभ्यां द्वाभ्यां मुहूर्त कषष्टिभागाभ्यां हीनः स्यात्, प्रतिमुहूर्त्तकषष्टिभागं चाष्टादश एकस्य षष्टिभागस्य सत्का एकषष्टिभागं हीयन्ते, ततः उभयमीलने षट्त्रिंशत स्युः, ते चाष्टादश भागाः कलयाः न्यूनाः लभ्यन्तेन परिपूर्णाः परं व्यवहारतः पूर्व परिपूर्णा विवक्षिताः, तच्च कलया न्यूनत्वं प्रतिमण्डलं भवेत् यदा व्यशीत्यधिकशततममण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा अष्टाषष्टिरेकषष्टिभागास्तुट्यन्ति, एतदपि व्यवहारत उक्तं परमार्थतः पुनः किञ्चिदधिकमपि त्रुट्यदवसेयम्, ततोऽमीअष्टषष्टिरेकषष्टिभागा अपसार्यन्ते, तदपसारणे पञ्चाऽशीतियोजनानि नव षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः 85 / 6/60 / 60/61 / इति जातं सर्वबाह्यमण्डलानन्तरार्वाक्तनद्वितीयमण्डलगतदृष्टिपथप्राप्ततापरमाणादेकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि योजनानाम्, एकोनचत्वारिंशत्षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः 31916 : 36/60 / 60/61 / इत्येवं रूपाच्छोध्यते ततो यथोक्तं सर्वबाह्यमण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्चाग्रे स्वयमेव वक्ष्यति, तत एवं पुरुषच्छायायां दृष्टिपथप्राप्ततारूपायां द्वितीयादिषु केषुचिन्मण्डलेषु चतुरशीति किश्चिन्न्यूनानि उपरितनेषुमण्डलेष्वधिकान्यधिकतराणि उक्तप्रकारेणाभिवर्द्धयन् 2 तावदवसेयायावत्सवबाह्यमण्डलमुपसंक्रम्यचारं चरति, तत्र तु पञ्चाशीति योजनानि साधिकानि हापयतीत्यर्थः, साधि