________________ सूरमण्डल 1055 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल राशिर्भवति तेन भागो ह्रियते, एकषष्ट्यां च षष्ट्या गुणितायां षट्त्रिंशच्छतानि षष्ट्यधिकानि भवन्ति 3660, तैभागे हृते लब्धं सप्तचत्वारिंशत्सहस्राणि शतमेकोनाशीत्यथिकं योजनानां, शेषमुरिति चतुस्त्रिंशच्छतानि पण्णवत्यधिकानि 3466, ततोऽस्माद् योजनानि नायान्तीति षष्टिभागानयनार्थं छेदराशिरेकषष्टिर्धियते, तेन भागे हृते लब्धाः सप्तपञ्चाशत्षष्टिभागाः एकस्य च पष्टिभागस्यसत्का एकोनविंशतिरेकषष्टिभागा इति। 'तयाण' मित्यादि, तदा सर्वाभ्यन्तरानन्तर द्वितीयमण्डलचारचरणकाले दिवसरात्री तथैव-प्रागिववक्तव्ये, ते चैवम्'तया णं अट्ठारसमुहुत्ते दिवसे हवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिया' इति से निक्खममाणे' इत्यादि, द्वितीयस्मादपि मण्डलात् ससूर्यः प्रागुक्तप्रकारेण निष्क्रामन् नवस्य संवत्सरस्य सत्के द्वितीयेऽहोरात्रे 'अभितरतचं ति-- सर्वाभ्यन्तरान्मण्डलात् तृतीयं मण्डलमुपसंक्रम्य चारं चरति, 'ता जया ण' मित्यादि तत्र यदा सर्वाभ्यन्तरान्मण्डलातृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा पञ्च पञ्च योजनसहस्राणि द्वे योजनशते द्विपञ्चाशे द्विपञ्चाशदधिके पञ्च च षष्टिभागान् योजनस्य 5252-4/60 एकैकेन मुहूर्तेन गच्छति, तथाहि-अस्मिन्मण्डले परिरयपरिमाणं त्रीणि योजनलक्षणानि पञ्चदशसहस्राणि शतमेकं पञ्चविंशत्यधिकम् 315125, ततोऽस्य प्रागुक्तयुक्तिवशात् षष्ट्या भागो हियते, लब्धं यथोक्तमत्र मण्डले मुहूर्त्तगतिपरिमाणम्, अथवा-पूर्वमण्डलमुहूर्तगतिपरिमाणादस्मिन् मण्डले मुहूर्त्तगतिपरिमाणचिन्ताया प्रागुक्तयुक्तिवशादष्टादश एकषष्टिभागा योजनस्याधिका प्राप्यन्ते, ततस्तत्प्रक्षेपे भवति यथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणम् / अत्रापिदृष्टिपथप्राप्तताविषयपरिमाणमाह- 'तया ण' मित्यादि, तदासर्वाभ्यन्तरानन्तरतृतीयमण्डलचारकाले इहगतस्य मनुष्यस्य- जातावेकवचनस्य भावादिहगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहरीः षण्णवत्या च योजनैस्त्रयस्त्रिंशता च षष्टिभागैर्योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्त्वा तस्य सत्काभ्यां द्वाभ्यां चूर्णिकाभागाभ्याम् 47066-33/60-2/61 सूर्यश्चक्षुस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले दिवसोऽष्टादशमुहूर्तप्रमाणश्चतुर्भिमुहूर्तकषष्टिभागैरूनस्तयार्द्ध नवमुहूर्ता द्वाभ्यां मुहूर्तकषष्टिभागाभ्यां हीनाः ततः सामस्त्येनैकषष्टिभागकरणार्थं नवापि मुहूर्त्ता एकषष्ट्यागुण्यन्ते, गुणयित्वा च द्वावेकषष्टिभागौ तेभ्योऽपनीयेते ततो जाता एकषष्टिभागाः पञ्चाशतानि सप्तचत्वारिंशताऽधिकानि 547, ततोऽस्य तृतीयमण्डलस्य यत्परिरयपरिमाणं त्रीणि योजनलक्षाणि पञ्चदशसहस्राणि शतमेकं पञ्चविंशत्यधिकमिति 215125, तत्पञ्चभिः शतैः सप्तचत्वारिंशदधिकैर्गुण्यते, जाताः सप्तदश कोटयस्त्रयोविंशतिः शत सहस्राणि त्रिसप्ततिः सहस्राणि त्रीणि शतानि पञ्च सप्तत्यधिकानि 172373375, एतेषामेकषष्ट्या षष्ट्या गुणितया 3660 भाग्मे हियते, लब्धानिसप्तच-त्वारिंशत्सहस्राणि षण्णवत्यधिकानि 47066, शेषमुद्रति विंशतिशतानि पञ्चदशोत्तराणि 2015, ततोस्माद्योजनानि नायान्तीति षष्टिभागानयनार्थं छेदशिरेकषष्टिधियते, तेन भागे हृते लब्धास्त्रयस्त्रिंशत्षष्टिभागाः 33/10 एकस्य च षष्टिभागस्य सत्कौ द्वाचेकषष्टिभागौ 2/51 'तया ण' मित्यादि, तदा सर्वाभ्यन्तरतृतीयमण्डलचारचरणकाले दिवसरात्री तथैव प्रागिय वेदितव्ये, ते चैवम्- 'तया णं' अट्ठार समुहुत्ते दिवसे हवइ, चउहिं एगविभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइचउहिं एगट्ठिभागमुहत्तेहि अहिया' इति, सम्प्रति चतुर्थादिषु मण्डलेष्वतिदेशमाह- ‘एवं खल्वि' त्यादि, एवम्-उक्तेन प्रकारेण खलु-निश्चितमेतेन-अनन्तरोदितेनोपायेन शनैः शनै-स्तद्वहिर्मण्डलाभिमुखगमनरूपेण निष्क्रामन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं प्रागुक्तप्रकारेण संक्रामन् संक्रामन् एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र सूत्रे द्वितीया सप्तम्यर्थे प्राकृतत्वाद् भवति प्राकृतलक्षणवशात् सप्तम्यर्थे द्वितीया, यथा- 'कत्तो रत्तिं मुद्धे ! पाणियसद्धासउणयाण' मित्यत्र ततोऽयमर्थः मुहूर्तगतौ अष्टादश अष्टादश षष्टिभागान् योजनस्य व्यवहारतः परिपूर्णान् निश्चयतः किञ्चिदूनानभिवर्द्धयमानः 2 'पुरिसच्छाय' मिति पुरुषस्य छाया यतो भवति सा पुरुषच्छाया सा चेह प्रस्तावात् प्रथमतः सूर्यस्योदयमानस्य दृष्टिपथप्राप्ताता, अत्रापि द्वितीयां सप्तम्यर्थे, ततोऽयमर्थः- तस्यामेकैकस्मिन् मण्डले चतुरशीतिः 2, 'सीयाई ति-शीतानि किञ्चिन्न्यूनानीत्यर्थः, योजनानि निर्वेष्टयन् निर्वेष्टयन्- हापयन्नित्यर्थः, इदं च स्थूशत उक्तं, परमार्थतः पुनरिदं द्रष्टव्यम् त्र्यशीतिर्योजनानित्रयोविंशतिश्च षष्टिभागा योजनस्य एकस्य षष्टिभागस्य एकषष्टिधा छिन्नस्य सत्का द्विचत्वारिंशद्भागाश्चेति दृष्टिपथप्राप्तताविषये विषयहानौ ध्रुवं, ततः सर्वाभ्यन्तरान्मण्डलातृतीयं यन्मण्डलं तत आरभ्य यस्मिन् यस्मिन् मण्डले दृष्टिपथप्राप्तता ज्ञातुमिष्यते तत्तन्मण्डलसंख्यया षट्त्रिंशद् गुण्यते, तद्यथा--सर्वाभ्यन्तरान्मण्डलात्तृतीये मण्डले एकेन चतुर्थे द्वाभ्यां पञ्चमे त्रिभिर्यावत् सर्वबाह्ये मण्डले द्व्यशीत्यधिकेन शतेन, गुणयित्वा च ध्रुवराशिमध्ये प्रक्षिप्यते, प्रक्षिप्ते सति यद्भवति तेन हीना पूर्वमण्डलगता दृष्टिपथप्राप्तता-यस्मिन् विवक्षिते मण्डले दृष्टिपथप्राप्तता द्रष्टव्याः, अथ त्र्यशीतियोजनानीत्यादिकस्य ध्रुवराशेः कथमुत्पत्तिः ? उच्यते-- इह सर्वाभ्यन्तरे मण्डले दृष्टिपथ प्राप्ततापरिमाणं सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्ट्यधिके योजनानामेकविंशतिश्च षष्टिभागा योजनस्य 47263-21/60, एतच नवमुहूर्तगम्यम्, तत एकस्मिन् मुहूर्तकषष्टिभागे किमागच्छतीति चिन्तायां नव मुहूर्ता एकषष्ट्या गुण्यन्ते, जातानि पञ्च शतान्येकोनपञ्चाशदधिकानि 546, तैर्भागो हियते, लब्धा षडशीयोजनानि पञ्च षष्टिभागा योजनस्य एकस्य च षष्टिभागस्य एकषष्टिधा छिन्नस्य सत्काश्चतुर्विशतिभागाः 86-5/60124/61 / पूर्वस्मात् पूर्वस्मात् च मण्डलादनन्तरानन्तरे मण्डले परिरयपरिमाणचिन्तायामष्टादश अष्टादशयोजनानिव्यवहारतः परिपूर्णानिवर्द्धन्ते, ततः पूर्वपूर्वमण्ड लगतमुहूर्तगतिपरिमाणादयन्तरानन्तरे मण्डले मुहूर्तगतिपरिमाणचिन्तायां प्रतिमुहूर्तमष्टादशाष्टादश षष्टिभागा योजनस्य प्रवर्द्धमाना द्रष्टव्याः, प्रतिमुहूर्तकषष्टिभागंचाष्टादश एकस्य षष्टिभागस्यसत्का एकषष्टिभागाःस