________________ सूरमण्डल 1054 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल योजनसहस्राणि गच्छन्ति, तत उभयमीलने द्वादश योजनसहस्राणि भवन्ति 12000, सर्वाभ्यन्तरं मुहूर्त्तमात्रगम्यं तापक्षेत्रं मुक्त्वा शेषे मध्यमे तापक्षेत्रे नवमुहूर्तगम्यप्रमाणे पञ्च पञ्च योजनसहस्राणि एकैकेन मुहूर्तेन गच्छति, ततः पञ्चानां योजनसहस्राणां नवभिर्गुणने पञ्चचत्वारिंशद्योपजनसहस्राणि भवन्ति 45000, सर्वाभ्यन्तरेतुमुहूर्तमात्रगम्ये तापक्षेत्रे चत्वारियोजनसहस्राणि 4000, गच्छति, सर्वमीलनेएकषष्टिर्योजनसहस्राणि, न चैतान्यन्यथोपपद्यन्ते, ततः 'तया णं' मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारकाले सर्वबाह्यमण्डलचारकाले चोक्तप्रकारेण षडपि पञ्चापि चत्वार्यपि योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति, अत्रैवोपसंहारः- 'एगे एवमाहंसु'एके चतुर्था वादिन एवम्-अनन्तरोक्तेन प्रकारेणाऽऽहुः // तदेवं परतीर्थिक प्रतिपत्तीरुपदर्य सम्प्रति स्वमतमुपदर्शयति- 'वयं पुण' इत्यादि, वयं पुनरुत्पन्नकेवलज्ञानाः केवलज्ञानेन यथावस्थितं वस्तूपलभ्य एवं-वक्ष्यमाणप्रकारेण वदामः। तमेव प्रकारमाह-- 'ता साइरेगाई' इत्यादि, 'ता' इति पूर्ववत् सातिरेकाणि-समधिकानि पञ्च पञ्चयोजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति, इह क्वापि मण्डले कियताऽधिकेन पञ्च पञ्च योजनसहस्राणि गच्छति, ततः सर्वमण्डलप्राप्तिमपेक्ष्य सामान्यत उक्तं सातिरेकाणीति, एवमुक्ते भगवान् गौतमस्वामी स्वशिष्याणां स्पष्टावबोधनाय भूयः पृच्छति-'तत्थे त्यादि, तत्र एवंविधायामनन्तरोदितायां वस्तुव्यवस्थानां को हेतुः- का उपपत्तिरिति वदेत्, भगवान् वर्द्धमानस्वामी आह'ता अयण्ण' मित्यादि, इदं च जम्बूद्वीपवाक्यं पूर्ववत्स्वयं परिपूर्णे परिभावनीयम्, 'ता जया ण' मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा पञ्च पञ्च योजनसहस्राणि द्वे द्वे योजनशते एकपञ्चाशदधिकएकोनत्रिंशतंचषष्टिभागान् योजनस्य 5251 26/60 एकैकेन मुहूर्तेन गच्छति, कथमेतदवसीयते इति चेत्, उच्यतेइह द्वाभ्यां सूर्याभ्यामेकं मण्डलमेके नाहोरात्रेण परिसमाप्यते, अहोरात्रश्च त्रिंशन्मुहूर्त-प्रमाणः / प्रतिसूर्य चाहोरात्रगणने परमार्थतो द्वाभ्यामहोरात्राभ्यां मण्डलं परिभ्रमणतः परिसमाप्यते, द्वयोश्चाहोरात्रप्रमाणयोर्मुहूर्ताः षष्टिर्भवन्ति, ततो मण्डलपरिरयस्य षष्ट्या भाग हारयेत्, भागलब्धं भवति तन्मुहूर्तगतिप्रमाणं, तत्र सर्वाभ्यन्तरे मण्डले परिरयप्रमाणं त्रीणि लक्षाणि पञ्चदशसहस्राणि नवाशीत्यधिकानि 315086 अस्य षष्ट्या भागे हृते लब्धं यथोक्तं मुहूर्तगति-परिमाणमिति। अत्रास्मिन् सर्वाभ्यन्तरे मण्डले कियति क्षेत्रे व्यवस्थित उदयमानः सूर्य इहगतानां मनुष्याणां चक्षुर्गो-चरमायातीति प्रश्नावकाशमाशङ्कयाह- 'तया ण' मित्यादि, तदा-सर्वाभ्यन्तरमण्डलचारचरणकाले उदयमानः सूर्य इहगतस्य मनुष्यस्य, अत्र जातावेकवचनं, ततोऽयमर्थः-इहगतानाम्भरतक्षेत्रगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहस्राभ्यां त्रिषष्टाभ्यांत्रि षष्ट्यधिकाभ्यां योजनशताभ्यामेकविंशत्या च षष्टिभागयोजनस्य चक्षुःस्पर्श 'हव्वं' ति-शीघ्रमागच्छति, का अत्रोपपत्तिरिति चेत्, उच्यते-इह दिवसस्यार्द्धन यावन्मानं क्षेत्रं व्याप्यते तावति / व्यवस्थित उदयमानः सूर्यः उपलभ्यते, सर्वाभ्यन्तरे च मण्डले दिवसोऽष्टादशमुहुर्तप्रमाणस्तेषाम॰ नव मुहूर्ताः, एकैकस्मिश्च मुहुर्ते सवाभ्यन्तरे मण्डले चार चरन्पञ्चपञ्च योजनसहस्राणि द्वेचयोजनशते एकपञ्चाशदधिकएकोन-त्रिंशतं च षष्टिभागान योजनस्य गच्छति, तत एतावन्मुहुर्त-गतिपरिमाणं नवभिर्मुहुर्तेर्गुण्यते, ततो भवति यथोक्तं दृष्टिपथप्राप्तताविषये परिमाणमिति, 'तयाण' मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारचरणकाले दिवसरात्री तथैव-प्रागिव वक्तव्ये, ते चैवम्'तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ' इति, ‘से निक्खममाणे' इत्यादि, ततः सर्वाभ्यन्तरान्मण्डलात्प्रागुक्त-प्रकारेण निष्क्रामन् सूर्यो नवं संवत्सरमाददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रे 'अभितरानंतरं' तिसर्वाभ्यन्तरस्य मण्डल-स्यानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति 'ताजयाण' मित्यादितत्र यदाणमिति वाक्यालङ्कारे, सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा पञ्च योजनसहस्राणि द्वे योजनशते एकपञ्चाशदधिके सप्तचत्वारिंशतं च षष्टिभागान् योजनस्य 5251-47/60 एकैकैन मुहूर्तेन गच्छति, तथाहि-अस्मिन्सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले परिरयपरिमाणं त्रीणि योजनलक्षणानि पञ्चदश सहस्राणि शतमेकं व्यवहारतः परिपूर्ण सप्तोत्तरं निश्चयमतेन तु किञ्चिन्न्यूनम् 315107, ततोऽस्य प्रागुक्तयुक्तिवशात् षष्ट्या भागो हियतेलब्धं यथोक्तमत्रमण्डले मुहूर्तगतिपरिमाणम्, अथवा-पूर्वमण्डलपरिरयपरिमाणदस्य मण्डलस्यपरिरयपरिमाणे व्यवहारतः परिपूर्णान्यष्टादश योजना-नि वर्द्धन्ते, निश्चयतः किञ्चिदूनानि, अष्टादशानां च योजनानां षष्ट्या भागे हृते लब्धा अष्टादश षष्टिभागा योजनस्य, ते प्राक्तन-मण्डलगतमुहूर्तगतिपरिमाणेऽधिकत्वेन प्रक्षिप्यन्ते, ततो भवति यथोक्तमत्र मण्डले मुहुर्तगतिपरिमाणमिति, अत्रापि दृष्टिपथ-प्राप्ताविषयं परिमाणमाह- 'तया ण' मित्यादि तदा-सर्वाभ्यन्त-रानन्तरद्वितीयमण्डलचारकाले इहगतस्य मनुष्यस्य जातावेक-वचनम् इहगतानां मनुष्याणां सप्तचत्वारिंशता योजनस-हौरेकोनाशीत्यधिके न योजनशतेन सप्तपञ्चाशता षष्टिभागैरेकं च षष्टिभागमेकषष्टिधा क्षित्त्वा तस्य सत्कैरेको नविंशत्या चूर्णिकाभागैः सूर्यश्चक्षुःस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले मुहुर्तगतिपरिमाणं पञ्च योजनसहस्राणिद्रेशते एकपञ्चाशदधिके सप्तचत्वारिंशच षष्टिभागा योजनस्य 5251-47/60 दिवसोऽ-ष्टादशमुहुर्तप्रमाणो द्वाभ्यां मुहुर्तकषष्टिभागाभ्यामूनस्तस्यार्द्ध नवमुहुर्ता एकेन एकषष्टिभागने हीनाः, ततः सकलैकषष्टिभाग-करणार्थ नव मुहुर्ता एकषष्ठ्या गुण्यन्ते, गुणयित्वा च तत एक रूपमपनीयते, जातानि पञ्चशतान्यष्ट-चत्वारिंशदधिकानि 548, ततोऽस्य द्वितीयस्य मण्डलस्य यत्परिरयपरिमाणं त्रीणि, लक्षाणि पञ्चदश सहस्राणि शतमेकं सप्तोत्तरमिति 315107, तत्पञ्चभिः शतैरष्टाचत्वारिंशदधिकैर्गुण्यते, ततोजात एककः सप्तको द्विकः षट्क सप्तकोऽष्टकः षट्कस्त्रियः षट्कः १७२६७८६३६,ततो योजनानयनार्थमेकषष्टः षष्ट्या गुणिताया यावान् -