________________ सूरमण्डल 1045 - अमिधानराजेन्द्रः - भाग 7 सूरमण्डल पश्चेति भाव इति स्वशिष्येभ्यो वदेत्, एवमुक्तेभगवान् गौतमः पृच्छति'तत्थ णं को हेऊ इति वइज्जा' तत्र मण्डलपदानामायामविष्कम्भपरिक्षेपाऽनियतत्वे को हेतुः-का उपपत्तिरिति वदेत्, अत्र भगवानाह'ता अयन्न' मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्णं स्वयं परिभावनीयं व्याख्यानीयं च, 'ताजया ण' मित्यादि, तत्र यदा णमिति वाक्यालङ्कारे सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा तन्मण्डलपदं, सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वाद्, बाहल्येनाष्टाचत्वारिंशदेकषष्टिभागा योजनस्य ज्ञातव्यम्, आयामविष्कम्भाभ्यां नवनवतियोजनसहस्राणि षट्शतानि चत्वारिंशदधिकानि 66640, तथाहिएकतोऽपि सर्वाभ्यन्तरमण्डलमशीत्यधिकं योजनशतं जम्बूद्वीपमवगाह्य स्थितमपरतोऽपि, ततोऽशीत्यधिकं योजनशतं द्वाभ्यां गुण्यते,जातानि त्रीणि शतानिषष्ट्यधिकानि ३६०,एतानि जम्बूद्वीपविष्कम्भपरिमाणाल्लक्षरूपात् शोध्यन्ते, ततो यथोक्तमायामविष्कम्भपरिमाणं भवति, वीणि योजनशतसहस्राणि पञ्चदशसहस्राणि एकोननवत्यधिकानि 315086 परिक्षेपतः, तथाहि-तस्य सर्वाभ्यन्तरस्य मण्डलस्य विष्कम्भो नवनवतिर्योजनसहस्राणि षट्शतानि चत्वारिंशदधिकानि 66640, एतेषां वर्गो विधीयते, जातो नवको नवको द्विकोऽष्टक एकको द्विको नवकः षट्को द्वे च शून्ये 6628126600, ततो दशभिर्गुणने जातमेकधिकं शून्यम् 66281266000, अस्य वर्गमूलानयनेन लब्धं यथोक्तं परिरयप्रमाणं, शेषं तिष्ठति द्विक एककोऽष्टकः शून्यं सप्तको नवकः 218076 एतत् त्यक्तम्, 'तया ण' मित्यादिना रात्रिन्दिवपरिमाणं सुगमम् / 'से निक्खममाणे' इत्यादि, ससूर्यः सर्वाभ्यन्तरान्मण्डलात्प्रागुक्तप्रकारेण निष्क्रामन् नवं संवत्सरमाददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तत्र यदा सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा तन्मण्डलपदमष्टाचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन, नवनवतिर्योजनसहस्राणि षट्शतानि पञ्चचत्वारिंशदधिकानि पञ्चत्रिंशचैकषष्टिभागायोजनस्यायामविष्कम्भायां, तथाहि एकोऽपि सूर्यः सर्वाभ्यन्तरमण्डलगतानष्टाचत्वारिंशतमेकषष्टिभागान्योजनस्यापरेचद्वेयोजने बहिरवष्टभ्य द्वितीये मण्डले चारं चरति, द्वितीयोऽपि, ततो द्वयोर्योजनयोरष्टाचत्वारिंशतश्चैकषष्टिभागानं योजनस्यद्वाभ्यां गुणने पञ्च योजनानि पञ्चत्रिंशचैकषष्टिभागा योजनस्येति भवति, एतत्प्रथममण्डलविष्कम्भपरिमाणेऽधिकत्वेन प्रक्षिप्यतेततो भवति यथोक्तं द्वितीयमण्डलविष्कम्भायामपरिमाणमिति। तत्र त्रीणि योजनशतसहस्राणि पञ्चदश सहस्राणि एकंच सप्तोत्तरंयोजनशतं किञ्चिद्विशेषाधिकंपरिरयेण प्रज्ञप्तम्, तथाहि-पूर्वमण्डलविष्कम्भायामपरिमाणादस्य मण्डलस्य विष्कम्भायामपरिमाणे पञ्च योजनानिपञ्चत्रिंशचैकषष्टिभागा योजनस्याधिकत्वेन प्राप्तन्ते, ततोऽस्य राशेः पृथक् परिरयपरिमाणमानेतव्यम्, तत्र पञ्च योजनान्येकषष्टिभागकरणार्थमेकषष्ट्या गुण्यन्ते,जातानित्रीणि शतानि पञ्चोत्तराणि 305, एतेषां मध्ये उपरितनाः पञ्चत्रिंशदेकपष्टिभागाः प्रक्षिप्यन्ते, जातानि त्रीणि शतानि चत्वारिंशदधिकानि 340, एतेषां वर्गो विधीयते, वर्गयित्वा च दशभिर्गुणनात् ततो जात एक एककः पञ्चकः षट्कस्त्रीणि शून्यानि 1156000, तत एषा वर्गमूलानयने ‘लब्धानि दश शतानि पञ्चसप्तत्यधिकानि 1075, एतेषां योजनाऽनयनार्थमेकषष्ट्या भागे हृते लब्धानि सप्तदशयोजनानि अष्टत्रिंशच्चैकषष्टिभागा योजनस्य 17-38/61 एतत्पूर्वमण्डल-परिरयपरिमाणेऽधिकत्वने प्रक्षिप्यते, ततो यथोक्तमधिकृतमण्डलपरियपरिमाणं भवति, किचिद्विशेषोनता च किञ्चिदूनत्रयोविंशत्या एकषष्टिभागैरूनता द्रष्टव्या, 'तयाणं दिवसराइप्पमाणं तह चेव' तदा-द्वितीयमण्डलचारचरणकाले दिवसरात्रिप्रमाणं तथैव-प्राग्वत् ज्ञातव्यम्, तच्चैवम्-'तया णं अट्ठारसमुदुत्ते दिवसे हवइ दोहि एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहत्तां राई भवति दोहि एगट्ठिभागमुहुत्तेहिं अहिया, से णिक्खममाणे' इत्यादि, ततः सूर्यो द्वितीयस्मान्मण्डलादुक्तप्रकारेण निष्क्रामन् नवसंवत्सरसत्के द्वितीयेऽहोरात्रे 'अभितरं तचं' ति-सर्वाभ्यन्त-रान्मण्डलात्तृतीयं मण्डल-मुपसंक्रम्य चारं चरति, 'ता जयाणं' मित्यादि, ततो यदा सूर्यः सर्वाभ्यन्तरान्मण्डलात्तृतीय मण्डल-मुपसंक्रम्य चारं चरतितदाततृतीयं मण्डलपदम् अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन नवनवतिर्योजनसहस्राणि षट्योजनशतान्येकपञ्चाशदधिकानि नव चैकषष्टिभागा योजनस्य 66651-8/61 आयामविष्कम्भेन-आयामविष्कम्भाभ्यां, तथाहिप्रागिवात्रापि पूर्वमण्डलविष्कम्भायामपरिमाणात् पञ्च योजनानि पञ्च-त्रिंशच्चैकषष्टिभागा योजनस्याधिकत्वेन प्राप्वन्ते, ततो यथोक्त-मायाविष्कम्भपरिमाणं भवति त्रीणि योजनशतसहस्राणि पञ्चदश सहस्राणि एकं च पञ्चविंशत्यधिकं योजनशतंपरिक्षेपेण प्रज्ञप्तं, तथाहि-पूर्वमण्डलादस्य विष्कम्भे पञ्च योजनानि पञ्चत्रिंशचैकषष्टिभागाा योजनस्याधिकत्वेन प्राप्यन्ते,ततो यथोक्त-मत्रायामविष्कम्भपरिमाणं भवति, तस्य च पृथक् परिरयपरिमाणं सप्तदश योजनानि अष्टात्रिंशच एकषष्टिभागा योजनस्य, एतन्निश्चयनयमतेन, परं सूत्रकृता व्यवहारनयमतमवलम्ब्य परिपूर्णान्यष्टादशयोजनानि विवक्षित्तानि, व्यवहारनयमतेन हि लोके किञ्चिदूनमपि परिपूर्ण विवक्ष्यते, तथा यदपि पूर्वमण्डलपरिरयपरिमाणे किञ्चिदूनत्वमुक्तं तदपि व्यवहार-नयमतेन परिपूर्णमिव विवक्ष्यते, ततः पूर्वमण्डलपरिरयपरिमाणे अष्टादश योजनान्यधिकत्वेन प्रक्षिप्यन्ते इति भवति यथोक्तमधिकृतमण्डलपरिरयपरिमाणम् 'तया णं दिवसराई तहेव' इति तदा तृतीयमण्डलचारचरणकाले दिवसरात्री तथैव प्रागिव वक्तव्ये, तचैवम्-'तया णं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चउहि एगट्ठिभागमुहुत्तेहिं अहिया' ‘एवं खलु' इत्यादि, एवम्- उक्तप्रकारेण खलु निश्चितमेतेनोपायेन प्रत्यहो - रात्रमेकैकमण्डलमोचनरूपेण निष्क्रामन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डल संक्रामन् २एकस्मिन् मण्डल पश्च पञ्च याजतानि पञ्चत्रिंशचैकषष्टिभागा योजनस्येत्येव परिमाणां विष्कम्भवृद्धिमभिवयन्नभिवर्द्धयन् एकैकस्मिन्नेतन्मण्डले अष्टादश अष्टादश योजनानिप