________________ सूरमण्डल 1046 - अभिधानराजेन्द्रः - भाग 7 सूरमण्डल रिरयवृद्धिमभिवर्द्धयन्नभिवर्द्धयन् इहाष्टादश अष्टादशेति व्यवहारत उक्तम्, निश्चयनयमतेन तु सप्तदश सप्तदश योजनानि अष्टात्रिंशते चैकषष्टिभागा योजनस्येति द्रष्टव्यम्, एतच प्रागेव भावित, न चैतत्स्वमनीषिकाविजृम्भितं, यत उक्तं तद्विचारप्रक्रमे एव करणविभावनायाम्- 'सत्तरस जोयणाइं अद्वतीसंच एगट्ठिभागा 17-38/61 एयं निच्छएणसंववहारेण पुण अट्ठारस जोयणाई' इति, प्रथमषण्मासापर्यवसानभूते त्र्यशीत्यधिकशततमे अहोरात्रे, सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति, 'ता जयाणं' मित्यादि, तत्रयदा णमिति वाक्यालङ्कारे, सूर्यः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा तत्सर्वबाह्यं मण्डलपदम् अष्टचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन एकं योजनशतसहस्रं षट्शतानि षष्ट्यधिकानि 100660 आयामविक्रम्भन आयामविष्कम्भाभ्याम्, तथाहि-सर्वाभ्यन्त-रान्मण्डलात्परतःसर्वबाह्यमण्डलंपर्यवसानीकृत्य त्र्यशीत्यधिक मण्डलशतं भवति, मण्डले मण्डले च विष्कम्भे विष्कम्भे परिवर्द्धन्ते पञ्च पञ्च योजनानि पञ्चत्रिंशचैकषष्टिभागा योजनस्य, ततः पञ्च योजनानि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि नव शतानि पञ्चदशोत्तराणि 615, येऽपि च पञ्चत्रिंशदेकषष्टिभागा योजनस्य तेऽपि त्र्यशीत्यधिकानि शतेन गुण्यन्ते जातानि चतुःषष्टिः शतानि पञ्चोत्तराणि 6405, तेषामेकषष्ट्या भागे हृते लब्धं पञ्चोत्तरं योजनशतम्, 105, एतत्पूर्वस्मिन् राशौ प्रक्षिप्यते, जातानि दश शतानि विंशत्यधिकानि 1020, एतानि सर्वाभ्यन्तरमण्डल-विष्कम्भायामपरिमाणे अधिकत्वेन प्रक्षिप्यन्ते, ततो यथोक्तं सर्वबाह्यमण्डलगतविष्कम्भायामपरिमाणं भवति, तथा त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि त्रीणिशतानि पञ्चदशोत्तराणि 318315 परिक्षेपतः, नवरं पञ्चदशोत्तराणि किञ्चिन्न्यूनानिद्रष्टव्यानि, तथाहि-अस्य मण्डलस्य विष्कम्भोयोजनलक्षं षट्योजनशतानिषष्ट्यधिकानि 100660, अस्य वर्गो विधीयते, जात एककः शून्यमेककस्त्रिको द्विकश्चतुष्कस्विकः पञ्चकः षट्को द्वे शून्ये 10132435600, ततो दशभिर्गुणने जातमेकमधिकं शून्यम् 101324356000, अष्टादश सहस्राणि त्रीणि शतानि चतुर्दशोत्तराणि 318315, शेषमुद्वरति, पञ्चकः पञ्चकस्त्रिकश्चतुष्कः शून्यं चतुष्कः ५५३४०४,छेदराशिः षट्कस्त्रिकः षट्कः षट्को द्विकोऽष्टकः 636628, तल एतेन पञ्चदशंयोजन किशिदून किल लभ्यते इतिव्यवहारतः सूत्रकृता परिपूर्ण विवक्षित्वा पञ्चदशोत्तराणीत्युक्तम् / अथवा-मण्डले मण्डले पूर्वपूर्वमण्डलात्परिरयवृद्धौ सप्तदश सप्तदश योजनानि अष्टात्रिंशच्चैकष-1 ष्टिभागा योजनस्य लभ्यन्ते, ततः सप्तदश योजनानि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातान्यकत्रिंशच्छतान्येका-दशोत्तराणि 3111, येऽपि चाष्टात्रिशदेकषष्टिभागास्तेऽपि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातान्येकोनसप्ततिशतानि चतुष्पञ्चाशदधिकानि 6654. तेषां योजनानयनार्थमेकषष्ट्या भागो ह्रियते, लब्धं चतुर्दशोत्तरं योजनशतम् 114, तच पूर्वराशौ प्रक्षिप्यते जातानिद्वात्रिंशच्छतानि पञ्चविंशत्यधिकानि 3225, एतानि सर्वाभ्यन्तरमण्डलपरिरयपरिमाणे त्रीणि लक्षाणि | पञ्चदश सहस्राणि नवाशीत्यधिकानि 315056 इत्येवंरूपेऽधिकत्वेन प्रक्षिप्यन्ते, जातानि त्रीणि लक्षाणि अष्टादश सहस्राणि त्रीणि शतानि चतुर्दशोत्तराणि 318314, तथा सप्तदशानां योजनानाम् अष्टात्रिंशतश्चैकषष्टिभागानामुपरि, यानि त्रीणि शतानि पञ्चसप्तत्यधिकानि 375 शेषाण्युदरन्ति, तानि त्र्यशीत्यधिकेन शतेन गुण्यन्तेजातान्यष्टषष्टिसहस्राणि षट् शतानि पञ्चविंशत्यधिकानि 68625, तेषां छेदराशिना पञ्चाशदधिकै कविंशतिशतरूपेण 2150, भागो हियते, लब्धा एकत्रिंशदेकशष्टिभागा योजनस्य, शेषं स्तोकत्वात्, त्यक्त, परंव्यवहारतः परिपूर्ण योजनं विवक्षितमिति पश्चदशोत्तराणीत्युक्तम्, 'तया णं' मित्यादिना रात्रिन्दिवपरिमाणं षण्मासोपसंहरणं च सुगमम् 'से पविसमाणे' इत्यादि, ततः ससूर्यः सर्वा-बाह्यान्मण्डलात् प्रागुक्तप्रकारेणाभ्यन्तरं मण्डलं प्रविशन् द्वितीयं षण्मासमाददानो द्वितीयस्य षण्मासस्य प्रथमे अहोरात्रे सर्वबाह्यानन्तरमक्तिनं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति, 'ता जया णं' मित्यादि.तत्र यदा णमिति वाक्यालङ्कारे सर्वबाह्यानन्तरमक्तिनं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा तन्मण्डलपदम् अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन, एक योजनशतसहस्रं षट्चयोजनशतानि चतुष्पञ्चाशदधिकानि षड्विशतिश्चैकषष्टिभागा योजनस्य 100654- 26/11 आयामविष्कम्भेन-आयाम-विष्कम्भाभ्याम्, तथाहि- एकतोऽपि, तन्मण्डलं सर्वबाह्यमण्डल-मतानष्टाचत्वारिंश-तमेकषष्टिभागान् योजनस्यापरे द्वे योजने विमुच्याभ्यन्तरमवस्थितमपतोऽपिततो योजनद्वयस्याष्टाचत्वारिंशतश्चैकषष्टिभागानांद्वाभ्यां गुणेन पञ्चयोजनानिपश्चत्रिंशचैकषष्टिभागायोजनस्येति भवति, एतत्सर्वबाह्यमण्डलगतविष्कम्भायामपरिमाणात् शोध्यते, ततो यथोक्तमधिकृतमण्डलविष्कम्भायामपरिमाणं भवति, तथा त्रीणियोजन-शतसहस्राणि अष्टादशसहस्राणि द्वे योजनशतं सप्तनवत्यधिके 318267, परिक्षेपतः प्रक्षिप्तं, तथाहिपूर्वमण्डलादस्य मण्डलस्य विष्कम्भायामपरिमाणं पञ्चयोजनानि पञ्चत्रिंशचैकषष्टिभागा योजनस्येति त्रुट्यन्ति, पञ्चानां योजनानां पञ्चत्रिंशतश्चैकषष्टिभागानां परिरये सप्तदश योजनानि अष्टात्रिंशचैकषष्टिभागा योजनस्य भवन्ति, परं सूत्रकृता व्यवहारनयमतेन परिपूर्णान्यष्टादश योजनानि विवक्षितानि, प्रागुक्तात्सर्वबाह्यमण्डलपरिरयपरिमाणात् त्रीणि लक्षाणि, अष्टादशसहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि इत्येवं-रूपादष्टादश योजनानि शोध्यन्त, ततो यथोक्तमधिकृतमण्डलपरिरयपरिमाणं भवति, 'तया णं राइंदि-याणं तह चैव' तितदा रात्रिन्दिवं रात्रिदिवसौतथैव वक्तव्यौ, तौ चैवम्-'तयाणं अट्ठारस मुहुत्ता राई भवति दोहि एगट्ठिभाग-मुहुत्तेहि *णा दुवालसमुहुत्ते दिवसे हवइ दोहि एगविभागामुहुत्तेहि अहिए' इति, 'से पविसमाणे' इत्यादि, ततः स सूर्यस्तस्मादपि द्वितीयस्मान्मण्डलात्प्रागुक्तप्रकारेणाभ्यन्तरं प्रविशन् द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे सर्वबाह्यान्मण्डलादवक्तिनं तृतीयं मण्डलमुपंसक्रम्य चारं चरति, तत्र यदा सूर्यः सर्वबाह्यान्मे